सिर्सि

नगर
(शिरसि इत्यस्मात् पुनर्निर्दिष्टम्)


सिर्सि (Sirsi) उत्तरकन्नडमण्डलस्य एकम् उपमण्डलं वर्तते । एतत् स्थलं प्रशान्तवातावरणेन, हरिद्वर्णीयकाननैः च विराजते । अस्मिन् नगरे बहु प्रसिद्धः मारिकाम्बादेवालयः विद्यते । श्री मारिकाम्बादेव्याः जात्रामहोत्सवः वर्षद्वये एकवारम् अष्टदिनानि यावत् प्रचलति । अस्य प्रदेशस्य समीपे याण, बनवासि, सोन्दामठ, वादिराजमठः, सहस्रलिङ्ग इत्यादीनि मनोहराणि स्थानानि सन्ति ।

होन्नावर-शिरसिगमनमार्गे विद्यमाना देवीमनेघाटी द्रष्टुं बहु सुन्दरम् अस्ति । गभीरगर्ते प्रवहन्ती शरावती-नदी, गमनमार्गे दृश्यमानाः वन्यप्राणिनः, प्रवाह्यमानानि जलस्रोतांसि, शीतलवातावरणे गच्छन्तः भवामः चेत् यापितसमयः एव न ज्ञायते । एतादृशं सुन्दरदृश्यं दृष्टुं नेत्रद्वयम् अपर्याप्तम् ।

अयं प्रदेशःअरण्यैः आवृतः अस्ति । अत्रत्याः जनाः पूग-व्रीहि-वेनिल्ला-कोकादीनां वर्धनं कुर्वन्ति । सिर्सि मारिकांबा देवालय सिर्सि समुद्रस्तरतः ५९० मीटर्मिते औन्नत्ये सह्याद्रिपर्वतश्रेण्यां विद्यते । अयं प्रदेशः कर्णाटकस्य राजधान्याः बेङ्गळूरुतः ४२५ कि मी दूरे विद्यते ।

"https://sa.wikipedia.org/w/index.php?title=सिर्सि&oldid=474141" इत्यस्माद् प्रतिप्राप्तम्