शेषषष्ठी
राज्ञः पुरुषः । दशारथस्य पुत्र । वृक्षस्य पर्णम् । षष्ठी शेषे (पा.सू. -२.३.५०) कारकप्रातिपदिकार्थ व्यतिरिक्तः स्वस्वामिभावादिसम्बन्धः शेषः । तत्र षष्ठी स्यात् । अयं भावः-शेषो नाम उक्तादन्यः शेषः । कानि तर्हि उक्तानि ? ककर्तृकरणसम्प्रदानापादानाधिकरणानि उक्तानि । प्रातिपादिकार्थश्च उक्तः । कथम् एषः अर्थः लब्धः ? षष्ठीशेषे (पा.सू. -२.३.५०)इति सूत्रात्पूर्वं “कर्मणि द्वितीया’ इत्यारभ्य “ प्रतिपादिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा” (पा.सू.-२.३.४६)इत्यन्तं षट् कारकणि प्रातिपदिकार्थश्च अष्टाध्याय्यां पूर्वम् उक्तानि । अतः शेषो नाम उक्तात् अन्यः । कस्तर्हि एतेभ्यः षड्भ्यः कारकेभ्यः प्रातिपदिकार्थाच्च अतिरिक्तः अस्ति ? इति चेत् स्वस्वामिभावः जन्यजनकभावः अवयवावयविभावः इत्यादयः । एवं च कर्मादिकारकेषु द्वितीयादयः प्रवर्तन्ते, प्रातिपदिकार्थे च प्रथमा भवति, स्वस्वामिभावादिसम्बन्धे षष्ठी स्यात् इति पर्यवसन्नः अर्थः । यथा राज्ञः पुरुषः ।
शेषषष्ठी | |
---|---|
शेषषष्ठी |
राज्ञः पुरुषः । दशरथस्य पुत्रः । वृक्षस्य पर्णम् ।
देवदत्तः मातुस्मरति । अस्मिन् वाक्ये देवदत्तः कर्ता, माता कर्म भवितुं योग्या । यत्र कर्मत्त्वेन (मातृकर्मकं स्मरणम्) अविवक्षित्वा सम्बन्धसामान्यं (मातृसम्बन्धिस्मरणम्)विवक्ष्यते तत्र षष्ठी स्यात् । अतः अत्र मातृशब्दात् षष्ठी । देवदत्तकर्तृकं मातृसम्बन्धिस्मरणम् इत्यर्थः उपर्युक्तस्य वाक्यस्य । यदि कर्मत्वेन (मातृकर्मकं स्मरणम्) विवक्षा तदा द्वितीया भवेत् एव-देवदत्तः मातरं स्मरति इति । एवं भजे शम्भोश्चरणयोः इति ।