श्रीरामचन्द्रापुरमठः

शाङ्करपीठपरम्परायाः मठेषु अयम् अन्यतमः । एषः मठः १४००वर्षेभ्यः पूर्वं गोकर्णसमीपे श्री अदिशङ्कराचार्येण प्रतिष्ठापितः । पूर्वे एतस्य मठस्य रघूत्तममठः इति नाम आसीत्। कर्णाटके अविच्छिन्नपीठाध्यक्षस्य परम्परायुतः मठः एषः एकः एव । ईदानीं ३६तमः पीठाधिपतिः गोकर्णमण्डलाधीश्वरश्रीमज्जगद्गुरुशङ्कराचार्य श्रीराघवेश्वरभारतीमहास्वामी अस्ति । यः गोसंरक्षणान्दोलनेन 'गोस्वामी’ इत्येव प्रथितः। निखिले अपि जगति हस्तिदन्तसिंहासनः अत्र केवलं वर्तते।

श्रीमद्रामचन्द्रापुर मठः, होसनगर

इतिहासः सम्पादयतु

एकदा आदिशंकराचार्याः स्वकीये प्रवासे भारतदेशस्य पश्चिमे सागरतटे गोकर्ण क्षेत्रम् आगतवन्तः। तत्रत्यां स्थानदेवतां श्री महाबलेश्वरं अर्चितवन्तः। अनन्तरं श्री वरदेशम् अर्चयितुं शतशृंगं गतवन्तः। सः स्थलः अतीव प्रशान्तः आसीत्। वन्याः मृगाः व्याघ्राः, सर्पाः इत्यादयः साधुभिः प्राणिभिः धेनुभिः, हरिणैः सह सख्यभावेन आसन्। यत्र वरदमुनिः प्रायश्चित्तमकरोत् तत्र अशोकवने व्याघ्रिणी अनाथस्य हरिणशिशोः मातृवात्सल्यं प्रकटयति स्म। एतत् दृश्यं दृष्ट्वा श्री शंकराचार्याः विस्मिताः। तत्र वरदमुनिः श्री शंकराचार्य महास्वामिनां स्वागतं कृत्वा महात्मनां पूजानुकूलाय स्वगुरुणा अगस्त्य मुनिना दत्तान् राम-लक्ष्मण-सीता विग्रहान् चन्द्रमौलेश्वर लिंगं च दत्तवान्। तेषां विग्रहानां पूजार्थं श्री शंकराकार्याः तत्रैव श्री रघूत्तममठं स्थापितवन्तः। [१]

श्री श्ंकराचार्याः स्वशिष्येण श्री सुरेश्वराचार्येण दीक्षितं श्री विद्यानन्दं तत्रत्यं प्रथमं पीठाध्यक्षम् अकरोत्। ततः आरभ्य इदानीं श्रीराघवेश्वरभारतीमहास्वामिनां पर्यन्तं ३६ यतयः अविच्छिन्नतया पीठाध्यक्षाः अभवन्।

  1. "संग्रह प्रतिलिपि". Archived from the original on 2012-03-12. आह्रियत 2018-02-28.