गोकर्णं (Gokarna) कर्णाटकस्य उत्तरकन्नडमण्डले विद्यमानं किञ्चन प्रसिद्धं तीर्थस्थानम् । अरब्बीसमुद्रस्य तीरे स्थितम् एतत् क्षेत्रं काशीरामेश्वरम् इव प्रसिद्धं शिवक्षेत्रम् । पूर्वं त्रेतायुगे रावणेन आनीतम् आत्मलिङ्गं वटुरूपी गणपतिः अत्र स्थापितवान् । महाबलेन रावणेन आनीतस्य लिङ्गस्य महाबलेश्वरः इति नाम । शिलादेवालयः द्राविडशैल्या निर्मितः अस्ति । महाबलेश्वरस्य वामपार्श्वे महागणपतिमन्दिरम् अस्ति । लघुहस्तपादविशिष्टः महोदरः त्रिपादपरिमितोन्नतः गणपतिः आदिपूज्यः सर्वजनानां कष्टनिवारकः इति च प्रसिद्धः । दक्षिणपार्श्वे काशीविशालाक्ष्याः मन्दिरम् अस्ति ।

गोकर्णम्
राज्य नगरम्
महाबलेश्वरमन्दिरम्
महाबलेश्वरमन्दिरम्
राष्ट्रम्  भारतम्
राज्यानि कर्णाटकराज्यम्
Area
 • Total १०.९ km
Elevation
५८६ m
Population
 (2001)
 • Total २५,८५१
 • Density २,४००/km
भाषाः
 • अधिकृत कन्नडभाषा
 • भाष्यमानाः भाषाः कन्नडभाषा
Time zone UTC+5:30 (भारतीय सामान्यकालमानम्)
Website www.google.com
श्रीमहाबलेश्वरमन्दिरम्

उत्सवाः सम्पादयतु

गोकर्णक्षेत्रे शिवरात्रिपर्व, त्रिपुरदहनोत्सवः, कामदहनोत्सवः, गङ्गाष्टमी इत्यादयः विशेषोत्सवाः भवन्ति । शिवरात्रिपर्वणि महारथोत्सवः भवति । द्वादशवर्षेषु एकवारम् अष्टबन्धमहोत्सवः प्रचलति। गोकर्णक्षेत्रे कोटितीर्थं, ताम्रगौरी, पट्टेविनायकः, श्रीवेङ्कटरामदेवालयः च सन्ति । कोटितीर्थस्य पार्श्वे जनाः आत्मसंस्कारकार्याणि कुर्वन्ति । सुन्दरसागरतीरम् ॐबीच् इति च प्रसिद्धौ समुद्रस्नानयोग्यौ प्रदेशौ अत्र स्तः ।

मार्गः सम्पादयतु

कोङ्कणरेलयानमार्गे -गोकर्णरोडनिस्थानतः ९ कि.मी ।

कुमटा-अङ्कोलाराष्ट्रियमार्गे (सं १७) कुमटातः २६ कि.मी
बेङ्गळूरुतः ४३८ कि.मी।
कारवारतः ५३ कि.मी।
गोवातः ३० कि.मी।
शिरसितः ७२ कि.मी।
मुरुडेश्वरतः ८२ कि.मी ।
दाण्डेलीतः २२० कि.मी ।
हुब्बळ्ळीतः २६५ कि.मी।

बाह्यानुबन्धाः सम्पादयतु

 
महाबलरथः गोकर्णम्
 
कुड्ळसमुद्रतटः गोकर्ण
 
श्रीमहाबलेश्वरस्य आत्मलिङ्गम्
"https://sa.wikipedia.org/w/index.php?title=गोकर्णम्&oldid=481532" इत्यस्माद् प्रतिप्राप्तम्