संशोधनरीतिः संशोध्यविषयम् अनुसरति।अतः संशोध्यविषयानुसारं सा परिवर्तते। तथापि सामान्यतः
१ सङ्कलनम् (Data collection)
२ वर्गीकरणम् (Data classification)
३ विश्लेषणम् (Data analysis )
४ प्रतिपादनम् ()
इति चत्वारि तस्याः पदानि।एतैः पदैः संशोधनम् अग्रे सरति।अस्याः सामान्यरीतेः एव वर्णनम् अत्र क्रियते।

सामग्रीसङ्कलनात् पूर्वं
अ) विषयचयनम् (To choose the subject )
आ) रूपरेखानिर्माणम् (Outline)
इति पदद्वयं वर्तते।

अ) विषयचयनम्-

सम्पादयतु

संशोधनविषयः संशोधकस्य अभिलषितः भवितुम् अर्हति।बहवः छात्राः निर्देशकमतेन विषयम् अङ्गीकुर्वन्ति।न तत् प्रशस्तम्।एवं दत्तेषु विषयेषु आस्था न उत्पद्यते।ततः तस्मिन् विषये संशोधनस्य स्तरः अपि न्यूनायते।अतः विषय-चयनं छात्रेण स्वयं करणीयम्।
वस्तुतः छात्रः यदा पदवीनिमित्तं पदव्युत्तरपदवीनिमित्तं वा पठति, तदा एव तस्य मनसि संशोध्यविषयस्य आकारः शनैः शनैः जायते।‘मम रसः क्व अस्ति’, ‘मम त्रिविधं सामर्थ्यं (अर्थसामर्थ्यं, ज्ञानसामर्थ्यं तथा श्रमसामर्थ्यम्) कियद् विद्यते’ इत्यादिकम् आलोच्य पदवी-अध्ययनाद् आरभ्य एव छात्रेण संशोधनविषयः चिन्तनीयः।एतादृशे चिरविमृष्टे विषये संशोधनं सोत्साहं भवति।

आ) रूपरेखानिर्माणम्

सम्पादयतु

रूपरेखा द्विविधा सम्भवति, ह्रस्वा (सङ्क्षिप्ता) दीर्घा (विस्तृता) च। दिङ्निर्धारणम् इति रूपरेखायाः फलम्।रूपरेखा निर्धारिता चेत् विषयं विहाय इतस्ततः भ्रमणं न भवति।
संशोधनं यथा अग्रे गच्छति, तथा क्वचित् रूपरेखातः किञ्चिद् वर्जनीयं भवति, क्वचित् तत्र किञ्चिदधिकं समावेशनीयमपि भवति।तदा तदा तत् तत् अवश्यं करणीयम्।रूपरेखापालनाय संशोधनकार्यस्य हानिः न स्यात्।

१) सामग्रीसङ्कलनम्

सम्पादयतु

सामग्र्याः त्रीणि स्रोतांसि सन्ति -
प्रथमं स्रोतः (प्रधानं स्रोतः primary source)
द्वितीयं स्रोतः (गौणं स्रोतः secondary source)
तृतीयं स्रोतः (गौणतरं स्रोतः tertiary source )
एकमुदाहरणं स्वीकृत्य एतत् स्पष्टीक्रियते।‘महाभारते दायादव्यवस्था’ इति संशोधनविषयः अस्ति चेत् तस्य त्रीणि स्रोतांसि एवं भवन्ति-
१ प्रथमं स्रोतः – महाभारतम्
२ द्वितीयं स्रोतः – स्मृतिग्रन्थाः, धर्मग्रन्थाः च
३ तृतीयं स्रोतः- धर्मशास्त्रज्ञैः महाभारतपण्डितैः सह सम्भाषा

सामग्रीसङ्कलने किं किं सङ्कलनीयम् इत्यपि अवधेयम।ग्रन्थकर्तुः नाम, ग्रन्थस्य नाम, सम्पादकः, प्रकाशकः, प्रकाशनवर्षम्, संस्करणम् इति एतावत् सर्वं सङ्कलनीयम्।सन्दर्भलेखने एतावत् सर्वम् अनिवार्यं भवति।अतः आदौ सङ्कलनकाले एव एतत् सर्वं दक्षतया सङ्कलनीयम्।

२) वर्गीकरणम्

सम्पादयतु

अस्य त्रीणि प्रयोजनानि सन्ति-

विषयसाङ्कर्यपरिहारः

सम्पादयतु

वर्गीकरणे विषयविभजनं भवति।तेन ‘अस्मिन् प्रकरणे तत्प्रकरणोचितः कश्चन अंशः आगतः’ इति एतादृशः विषयसङ्करः न सम्भवति।

पुनरावृत्तिपरिहारः

सम्पादयतु

यदि वर्गीकरणं साधु न क्रियते तर्हि कश्चन विषयांशः पुनः पुनः आवर्तेत।वर्गीकरणे कः विषयः कुत्र वर्णनीयः इति स्पष्टं भवति।ततः पुनरावृत्तेः सम्भावना न वर्तते।

विश्लेषणसौकर्यम्

सम्पादयतु

वर्गीकरणस्य कश्चन निकषः सूत्रभूतः वर्तते।तेन विषयविवेचनम् स्वाभाविकतया सुसूत्रितं भवति।तच्च लेखकस्य अपि वाचकस्य अपि सौकर्यम् आवहति।
वर्गीकरणं बहुधा सम्भवति।‘भेत्ता हि भेद्यम् अन्यथा भिनत्ति’ इति चरकवचनम् अनुसृत्य एकस्य एव विषयस्य नाना वर्गीकरणानि सम्भवन्ति।यथा ‘महाभारते उल्लिखितानां खनिजद्रव्याणाम् अध्ययनम्’ इत्यस्य विषयस्य वर्गीकरणं महाभारतपर्वशः सम्भवति यथा आदिपर्वणि उल्लिखितानि खनिजद्रव्याणि, सभापर्वणि उल्लिखितानि खनिजद्रव्याणि इत्यादिकम्।अथवा खनिजद्रव्यशः वर्गीकरणमपि सम्भवति, यथा सुवर्णस्य उल्लेखाः, रौप्यस्य उल्लेखाः इत्यादिकम्।कीदृशं वर्गीकरणं स्वीकार्यम् इति छात्रः स्वयं निर्णयं कुर्यात्।तत्र निर्देशकस्य साहाय्यं भवति।

३ सामग्रीविश्लेषणम्

सम्पादयतु

सङ्कलनकाले बहु किमपि सङ्कलितम् अस्ति।अनन्तरं साक्षात् प्रबन्धलेखने तेषु केचन सन्दर्भाः निरुपयोगिनः इति ज्ञायते।ते निराकरणीयाः।एतदेव विश्लेषणस्य स्वरूपम्।अनेन सामग्र्याः विनियोगे सौकर्यं भवति।

४ सामग्रीविनियोगः

सम्पादयतु

सङ्कलितायाः वर्गीकृतायाः च सामग्र्याः साक्षात् प्रबन्धे प्रयोगः अन्तिमे पदे भवति।
यत्र यत्र एतादृशानां सन्दर्भाणाम् उल्लेखः क्रियते, तत्र तत्र पूर्वोक्तः सन्दर्भः अवश्यं दातव्यः।क्वचित् उद्धरणं दीर्घं भवति।तस्य सङ्क्षेपः अस्माभिः एव करणीयः। तथा स्पष्टः उल्लेखः तत्र एव करणीयः।
क्वचित् उद्धरणस्थः कश्चन अंशः लक्षणीयः इति वयं मन्यामहे।अतः सः अधोरेखाङ्कितः क्रियते, अथवा स्थूलाक्षरैः लिख्यते अथवा तिर्यगक्षरैः लिख्यते।यदा एवं भवति तदा तथा स्पष्टीकरणं तत्र एव दातव्यम् -
अधोरेखाङ्कितं मया (underlined by me) अथवा
स्थूलाक्षरयोजना मम (bold type mine) अथवा
तिर्यगक्षरयोजना मम (italics mine) इत्यादि।
सामग्री अतीव विस्तृता अस्ति चेत् केवलं सन्दर्भः दातव्यः।अन्यथा उद्धरणानाम् अतियोगः भवति।स च न प्रशस्तः।परं यत्र यत्र शक्यं, तत्र तत्र मूलं वचनम् उद्धरणीयम्।साक्षात् उद्धरणपठनेन यथा वाचकस्य समाधानं भवति, तथा सन्दर्भमात्रेण न भवति।

सम्बद्धाः लेखाः

सम्पादयतु
"https://sa.wikipedia.org/w/index.php?title=संशोधनरीतिः_(Methods_of_research)&oldid=474637" इत्यस्माद् प्रतिप्राप्तम्