सदस्यः:1940881Dhanush/प्रयोगपृष्ठम्

श्रीमान् धनुषः सम्पादयतु


बाल्यं सम्पादयतु

मम नाम गॊकारम् धर्मेन्द्र धनुषः | मम जन्म साम्प्रदायकबध्दे वैदिककुले अभवत् | श्री धर्मेन्द्र श्रीमति अपर्णा दम्पत्योः ज्येष्ठपुत्रत्वेन नन्दन नाम संवत्सरे उत्तरायणे माघ मास॓ अमावास्यां कुम्भ राशौ धनिष्ठा नक्षत्रे सिंहलग्ने शुभमुहुर्तौ अभवत् | मम जन्म तमिलनाडु राज्यस्य सेलम् नगरे अभवत् । अहं मूलतः बेङ्गलूरु नगरवासी अस्मि । मम मातृभाषा तेलुगु अस्ति । मम प्रियभाषा संस्कृतम्अस्ति |अहं तेलुगु , संस्कृतं , तमिल् , कन्नडा , हिन्दी , आङ्ग्ल भाषाः जानामि। पार्वतीपरमेश्वरौ मम आराध्यौ |

बाल्ये शिक्षणं "दिल्ली सार्वजनिक शालायां " दशमकक्षा पर्यन्तं प्राप्तं | तदनन्तरं  क्रैस्त् -पूर्वविश्वविद्यालये वाणिज्यं अधीतं । क्रैस्त् -विश्वविद्यालये अर्थशास्त्रे पदवि शिक्षणं प्राप्नुवन् अस्मि अहं अधुना। क्रैस्त् -विश्वविद्यालये अर्थशास्त्रं , गणितशास्त्रं सङ्क्याशास्त्रं संस्कृतं च अधीयते |

संस्कृत- संस्कृत्योः वात्सल्यं सम्पादयतु

बाल्यादेव मम संस्कृते अपारं  प्रीतिः आसीत् । अतः विदुषी श्रीमती गायत्र्याः सकाशे संस्कृतस्य अध्ययनं कृतं । तथैव श्रीमति वेदा अथवलेयाः प्रेरणया संस्कृते प्रीतिः अभिवर्धितं आसीत् । मम गुरोः गायत्र्याः  प्रेरणया सुररस्वतीसभायाः प्रथमा ,द्वितीया च तथा कर्णाटक-संस्कृत विश्वविद्यालयस्य प्रथमा परीक्षाः स्वीकृताः । अनतर्पूर्वविश्वविद्यालय प्रतियोगितासु  बहूनि पुरस्काराणि सम्पादितानि । यथा मौन्ट् कार्मल् महाविद्यालये आयोजितायांं प्रश्नोत्तर्यां प्रथम पुरस्कारः , आर्.एन्.एस् पूर्वविश्वविद्यालये आयोजितायांं भगवद्गीता प्रतियोगितायां प्रथम पुरस्कारः , सुराना महाविद्यालये आयोजितायांं संस्कृतभाषण-प्रतियोगितायां प्रथम पुरस्कारः प्राप्तः मया। क्रि.श २०१७ वर्षे अन्तर्राज्य संस्कृत परीक्षायां कर्णाटकप्रदेशे तृतीयं स्थानं लब्धं मया । क्रि.श २०१८ वर्षे क्रैस्त्  पूर्वविश्वविद्यालयेन संस्कृतक्षेत्रे प्रतिभा पुरस्कारः सम्पादतं। द्वादशकक्षायाः सार्वजनिक-परीक्षायां शतं अङ्कानि प्राप्तं अतः अहं मैत्री संस्कृत संस्कृति सङ्घेन सम्मानितः जातोऽहं स्म । च अधुना  ज्ञानदाहं वारयितुं व्याकरणशास्त्रस्य आयुर्वेदस्य च अध्ययनं प्रचलन् अस्ति ।

वैदिक जीवन पद्धतौ मम दृढविश्वासः भवति । अद्वैत-वेदान्त संप्रदाये मम  दृढा मतिः । अत एव कुतुहलेन प्रेरितः अहं शङ्करभाष्यं , गणेश पञ्चरत्नम् , अन्नपूर्णा स्तोत्रंं ,   देवी अपराधक्षमपणा स्तोत्रंं , शिवपञ्चाक्षर स्तोत्रंं ,चादीनि स्तोत्राणि  , विवेकचूढामणिः , भजगोविन्दं , प्रश्नोत्तरत्नमलिका अपि पठितवान्  । मह्यं पुसतकं पठितुं अतीव रोचते ।

संस्कृतभाषा एव मम माता पिता गुरुः च अस्ति । सन्मार्गं अपि च उपदिशति अतः यावज्जीवं मया सेवनीया आधरणीयाा भवति ।  जीयात् गीर्वाणभारती ।

 
Raja Ravi Varma - Sankaracharya
 
GD Dhanush