सदस्यः:2010452gowrigm/प्रयोगपृष्ठम्

2010452 GOWRI GM

परिष्कृत, व्याकरणादिदोष रहितं यत् भाषा तत् संस्कृतम् अस्ति। इयं भाषा एवं देववाणी, सुरभारती, गीर्वाणवाणी इत्यादिकैः नामभिः व्यवहियते। संस्कृत भाषा संसारस्य सर्वासु भाषासु प्राचीनतमा, परिष्कृततमा च विद्यते। मातः! गीर्वाणवाणि! त्वममरनगरीप्राङ्गणे ब्रह्ममुख्यैः, देवैस्संलाल्यमाना चिरमवनितले स्तूयमाना सुहृद्भिः । वाल्मीकिव्यासमुख्यैर्मुनिभिरनुदिनं कालिदासादिभिश्च, आनीतालङ्कारशोभा कविभिरनुपमा सन्तु नस्ते नमांसि। अस्याः भाषायाः साहित्यम् अपि सुविशालं, परमोन्नत, विविध- ज्ञान-समन्वित च अस्ति। भारतस्य प्राचीनाः ग्रन्थाः चत्वारः वेदाः संस्कृतभाषायां सन्ति। धर्मशास्त्राणि, अष्टादश-पुराणानि, अष्टादश स्मृतयः, षट् दर्शनानि च संस्कृत भाषायां एवं लिखिताः सन्ति। सम्पूर्ण कर्मकाण्ड विभागः सम्पूर्ण च आयुर्वेद पद्धतिः, एते सर्वे ग्रन्थाः संस्कृतभाषायां एवं निबद्धाः सन्ति। न खलु विबुधलोके मानवानां विहारः, न च सुररमणीभिस्सौख्यभोगप्रसक्तिः । इति किल करुणार्द्रीभूतचित्ता स्वयं त्वं, धरणिममरवाणि! प्राप्य नाकीकरोषि।

importance of sanskrit

अस्य भाषायाः मूलम् भारतदेशस्य विविध प्रदेशे अस्ति इति इतिद्यसकाराणाम् वचनमस्ति । वङ्ग देशस्य सेना साम्राजो, मिथिला नगरस्य साम्राज्ये, कलिङ्ग देशस्य गङ्गा साम्राज्ये, मान्यखेतस्थ राष्ट्रकूट वंशे, देवानाम यादवकुले च कन्नडभाषायां उत्पत्थिः अभवत् इति मन्ये।

कर्नाटिकराज्ये नवम्बर् मासस्य प्रथमदिवसः कर्नाटकराज्योत्सवः इति आचर्यते । स्वातन्त्र्यानन्तरं भारतस्य प्रदेशाः भाषादृष्ट्या विभक्ताः । क्रि. श. 1973 तमे वर्षे नवम्बर् मासस्य प्रथमे दिने 'कर्नाटकराज्यम्' इति अधिकृतघोषणा अभूत् । पूर्वं कर्नाटकराज्यस्य मैसूरुराज्यमिति नाम आसीत् । भाषाप्रदेशविभागानन्तरं कर्नाटकराज्यमिति प्रसिद्धम् अभवत् । अस्य स्मरणार्थं सर्वे कर्नाटकप्रदेशीयाः आनन्देन उत्सवम् इमम् आचरन्ति ।

अस्मिन् सन्दर्भे साहित्य सङ्गीत-नृत्य - नाटक-विज्ञानादिषु क्षेत्रेषु विख्यातेभ्यः सर्वकारेण प्रशस्तयः प्रदीयन्ते प्रशस्तिरियं 'कर्नाटकराज्योत्सवप्रशस्तिः इति विख्याता वर्तते । कर्नाटके सर्वत्र ध्वजारोहणं भुवनेश्वरीपूजादिकं च कृत्वा गौरवम् अर्पयन्ति । अनेन सर्वेषां मनसि वयं सर्वे कर्नाटकीयाः इति भावना उत्पद्यते ।


कर्नाटकराज्यमिदं सर्वक्षेत्रेषु स्वीययोगदानेन प्रथितमस्तीति विदितमेव समेष विदुषाम् । भारतदेशेऽस्मिन् स्वातन्त्र्योपलब्धिपूर्वं राजानः मठाधिपतयश्च संस्कृतस्य संस्कृतेश्च समभिवर्धने बद्धादरा आसन् । यदा सर्वकारीया प्राशासनिकी व्यवस्था समभवत्, तदनन्तरं संस्कृतस्याध्ययनेऽध्यापने संशोधनादौ च सर्वकारस्यैव दायित्वं सम्पन्नम् । नैकेषु राज्येषु संस्कृताध्ययनमध्यापनं च नास्तीति सदुःखं निवेदयामः । यदि संस्कृतभाषायाः, तत्र विद्यमानानां रामायण-भारत भागवतादिग्रन्थानामध्ययनं न विधीयते, तर्हि सनातना भारतीयसंस्कृतिरविज्ञातैव भवति । अतः केन्द्रसर्वकारेण तत्तद्राज्यसर्वकारीयमन्त्रिभिश्च संस्कृतभाषाध्ययने प्राचीनसंस्कृतिसंरक्षणे च बद्धादरैर्भाव्यम् । महता प्रमोदेनेदं निवेदयाम कर्नाटकेऽस्मिन् मठाधिपतयः संस्कृतस्य संस्कृतेश्च समभिवर्धने कटिबद्धा सन्तीति । कर्नाटकविद्वत्समाजे कीदृशा विद्वत्प्रवरा आसन्, कीदृशं च तेषां वैदुष्यम्, कीदृशाश्च स्वतन्त्रा ग्रन्थाः निर्मिता इत्यस्मिन् विषये जिज्ञासूनां कृते यथावत्स्वरूपपरिचयात्मकस्य ग्रन्थस्याऽवश्यकताऽऽसीदिति मन्यामहे । यद्यपि कवीनां वैदुष्यपरिचायका: ग्रन्थाः विरला आसन्, तथापि न्याय-वेदान्तादि शास्त्रेषु कृतभूरिपरिश्रमाणां विदुषां सङ्क्षेपेण स्वरूपपरिचायक: संस्कृतभाषा निबद्धः ग्रन्थः नास्मदृष्टिगोचर आसीत् । अस्मत्प्रियच्छात्रेण नागसम्पिगे आनन्दतीर्थाचार्येण रचितोऽयं प्रबन्धः संस्कृतज्ञानां शास्त्रज्ञानां च कर्नाटक विद्वत्समाजविभवपरिचायकः, ज्ञानार्जने उद्बोधकश्च भवेदित्याशास्महे ।