सदस्यः:2030598pranavmg/प्रयोगपृष्ठम्
कर्णाटकराज्यं भारतस्य दक्षिणदिशि स्थितम् अस्ति। सुन्दरतायै, विकासाय च इदं राज्यं भारते प्रसिद्धम् अस्ति। २००० वर्षप्राचीनः अस्ति अस्य राज्यस्येतिहासः । अस्य राज्यस्य एतत् वैषिष्ट्यम् अस्ति यत् अत्र तीरप्रदेशाः विशालप्रदेशाः पर्वतप्रदेशाः च सन्ति । कर्णाटकस्य भूमिः पावनी। राज्यमेतद् श्रीगन्धस्य उत्पत्तिस्थानं स्वर्णभूमिः, सुसंस्कृतजनेष्वग्रेसरम् इति विश्वमान्य वर्तते एतस्याः कीर्तः पालनं, भूमि: भाषा-जलादीनां रक्षणं प्रत्येकस्यापि कर्नाटकनिवासिनः आद्यः कर्तव्य एव स्वातन्त्र्यात् पूर्वतनकाले सर्वत्र आङ्ग्लानाम् अधिकारः आसीत्। मातृभाषया सम्भाषणम् अगौरवमिति परिगणितं जनैः। तस्मिन् सङ्कटे काले श्री बि.एम्. श्रीकण्ठय्यमहोदयः जन्म लेभे। कन्नडमातुः सेवाकर्तृषु अग्रणीः। अस्य कन्नडभाषा प्रेम, पाण्डित्यं, जीवनपद्धतिः, कन्नडभाषानिष्ठादयः भारतस्य भाविनिर्मातॄणां विद्यार्थिनाम् आदर्शो भवितुमर्हति इत्याशास्य तस्य जीवनस्य संक्षिप्त परिचयः प्रदत्तमस्ति।
परिचयः
श्रीमान् बि.एम्. श्रीकण्ठय्यमहोदयः' 'श्री' इति नाम्नैव सुप्रसिद्धः। सः क्रिस्ताब्दस्य १८८४ तमवर्षस्य जनवरिमासस्य तृतीये दिवसे जन्म लेभे। श्रीमति भागीरथम्म-मैलारय्यदम्पत्योः सुपुत्र एवः| मण्ड्यमण्डलस्य नागमङ्गलोपमण्डलस्य बेल्लूरु अस्य पूर्वजानां वासस्थानम्। अस्य पिता मैलारय्यमहोदयः न्यायवादी आसीत्। 'श्री' महोदयस्य बास्यं श्रीरङ्गपत्तने व्यतीतम्।
साहित्यकृषिः
प्रौढशालाशिक्षणानन्तरं मैसूरुमहाराजकालेज् मध्ये एफ्.ए शिक्षणं समाप्ये बेङ्गलूरु सेन्ट्रलकालेजतः बि.ए पदवीमलभत मद्रास् नगरे एल्.एल्.बि, एल्.एल्.एम् च पदव्यौ च प्राप्य नगर प्रतिनिवृत्तः| यदा सः मद्रासनगरे आसीत् तदा साहित्यस्य प्रौढं चिन्तनम् अकोरत् कन्नडभाषाया अभ्युदयमेव सदा चिन्तयति स्म। 'आङ्गलभाषायां स्थितार्थसम्पत् कन्नडं प्रति कथमागच्छति? कन्नडसाहित्यस्य कृषेः रीतिः का ? आङ्ग्लभाषासम्पर्केण संवर्धनं कथम्? इत्येव सः सर्वदा अचिन्तयत्।
'श्री' प्रथमं मौतशास्त्रम् अधीतवान्, अध्ययनं तु आङ्गलभाषायाम् तथापि तस्य कन्नडभाषाप्रेम न कुण्ठितम् अभवत्। एषः न केवलं कन्नडभाषासेवायां निरत आसीत् तस्याः पोषणे बर्धनेच अविरतं परिश्रमं कृतवान्| साहित्ये विद्यमानेन तद्वदुष्येन त एव चकिता अभवत्। प्रो. मेकेन्टिष् इति आङ्ग्लभावासूरिः एवम् उद्भिरति- 'श्री तस्य गतजन्मति आक्सफर्ड विश्वविद्यालयस्य आङ्ग्लभाषाप्राध्यापक एव स्यात्' इति। एवमासीत् तज्ज्ञानं तलस्पर्शि। १५.०१.१९०९ तमे वर्षे स्ववृत्तिजीवनम् आङ्ग्लमाषाध्यापकत्वेन प्रारमत। वृत्तेः पावित्र्यं रक्षतातेन आजीवनं विद्यार्थित्वम् आलिङ्गितम्, इत्युक्ते निरन्तरम् अभ्यासे निरत आसीत्।
'राष्ट्रकविः' इति ख्यातनामा ज्ञानपीठप्रशस्ति पुरस्कृष: 'कुवेम्पु' अपि श्री महोदयानां शिष्यः। क्रि.श. १९२८ तमे वर्षे कलबुर्गीकन्नडसाहित्यसम्मेलने अध्यक्षपदम् ऊढं श्री महोदयैः। तस्मिन् सन्दर्भे तेषां 'गदायुद्ध' नाटकम् अभिनीतम्, तथैव कुवेम्पु महोदयानां 'यमनसोलु' - नाटकमपि| आयोजकैः वेदिकायां पुष्पमालिका समर्पयितुम् आगतम्, 'श्री' स्वयमेव कुवेम्पुमहोदयं वेदिकामाहूय तत्पुष्पमालां तस्य कण्ठे धारयित्वा आनन्दितोऽभवत् । एवं शिष्याणां प्रतिमा प्रोत्साहिता अनेन । पद्धतिरेषा सर्वैरपि अनुकरणीया भवति । भारतरत्नं विश्वेश्वरय्यमहोदयस्य दूरदृष्टेः फलेन साक्षात्कृता क्रि.श. १९१५ तमे वर्षे 'कन्नडसाहित्यपरिषत्' आरब्धा। साहित्यपरिषदः आध्यक्ष्ये सेवा कृता। कन्नडभाषायाः साहित्यस्य च रक्षणार्थं संवर्धनार्थं च श्री कन्नडसेवायै कटिबद्धो भूत्वा जीवनपर्यन्तमपि अस्मिन्नेव कार्ये निरत आसीत्।
श्री सहप्राध्यापकः, प्राध्यापकस्य च पदमारूदः मैसूरुविश्वविद्यानिलयस्य कुलसचिवः अप्यमृत् मैसूरुविश्वविद्यानिलये कन्नडस्नातकोत्तराध्ययनम् आरब्धवान् कन्नडसेवार्थ युवानः क्रियाशीलाः भवेयुः इति तस्य महती आशा आसीत्। विद्यार्थिनां कुते 'अध्ययनगोष्ठी: आयोजिता अनेन। कन्नडवाययस्य विविधप्रकारान् जनसामान्याः अवगच्छेयुः इति अपेक्षा आसीत। अतः कथाः कवनप्रकाराः नाटकानि विमर्शाग्रन्याः इत्यादीनां सौलभ्यं जनसामान्यः लभेत इति 'मैसूरु-विश्वविद्यानिलय-ग्रन्थमाला' अस्य सम्पादकत्वे स्थापिता। आधुनिकज्ञानविज्ञानसम्बद्धमपि साहित्यं विरचय्य आनुकूस्यं कल्पितवान्। ‘इङ्ग्लिष् गीतेगळु’ इति तस्य कवनसङ्कलनम् आङ्ग्लभाषा प्रसिद्धकवीनां वेक्स्पियर इत्यादीनां कवितानां कन्नडानुवादरूपः। 'होङ्गनसु' तस्य स्वतन्त्रा विरचना। ‘गदायुद्धनाटकम्’ कन्नडनाटकप्रपञ्चे रुद्रनाटकेषु प्रमुखम्। अश्वात्थामन्’, ‘पारसिक' इत्यन्यं रुद्रनाटकं कन्नडे अनूद्य कन्नडभाषायाम् अपि ऐतिहासिकं रुद्रनाटकमयोजयत्। कि.श. १९४२ तमे वर्षे स्ववृत्या निवृत्तोऽभवत्, प्रवृत्त्या न।
तदीयः सन्देशः
विषयोऽन्यः अत्र प्रस्तोतव्य एव। आधुनिककर्नाटकप्रान्तः स्वातन्त्र्यात् पूर्वम् आङ्ग्लानां शासनावधौ, तेषाम् आनुकूल्यार्थं विविधप्रान्तेषु विभजित आसीत्। ब्रिटिष्जनैः आङ्ग्लभाषा शासनभाषात्वेन उपयुक्ता। सर्वत्र आङ्ग्लभाषैव नित्योपयोगिनी कृता। शकुन्तैः पक्षिभिः पोषिताम् अरण्ये मातापितृभ्यां विहीनां शकुन्तलां कण्वमहर्षिः स्वाश्रमं नीत्वा यथा तां वर्धितवान् तथैव अनेनापि हीनदशायां स्थितां कन्नडभाषाम् अपोषयत्, अवर्धयत्, तत्स्थानं पुनरस्थापयत् इति कारणतः ज्ञानपीठप्रशस्तिपुरस्कृतैः श्री मास्तिवेमटेश अय्यङ्गार्यमहोदयैः एषः ‘कन्नडकण्वः' इति प्राशंस्यत। तदानीन्तनमैसूरुराजैः ‘राजसेवासक्तः' इत्युपाधिना सत्कृतः। वयमपि श्री जीवनमार्गमनुसृत्य कन्नडभाषाप्रेम मनसि निक्षिप्य, सर्वत्र वर्धयित्वा, कर्नाटक राज्ये 'सिरिगन्नडं गेल्गे' इति तेषाम् उक्तिं साधयेम, जीवने सार्थकतों च लभेमहि।