2010269chaitrar
|
तव मार्गदर्शनाय विद्यन्ते एतानि पृष्ठानि विकिपीडियायाः परिचयः देवनागरीलिप्या कथं लेखनीयम्? नवागतेभ्यः परिचयः स्वशिक्षा वि-पत्र-पञ्जीकरणं करोतु
|
-- ॐNehalDaveND•✉•✎ ०३:४८, ५ सेप्टेम्बर् २०२० (UTC)
परेषामपि रक्ष जीवितम्
'सिंहासनद्वात्रिंशिका' नामककथासङ्ग्रहे द्वात्रिंशत् कथाः सन्ति। अस्य ग्रन्यस्य कर्ता वररुचिर्नामा कश्चित् कविरिति श्रूयते। 'परेषामपि रक्ष जीवितम् इति शिरोनामादिकते अस्मिन् पाठयमागे विक्रमादित्यस्य परदुःखम्पन्दनगुण: हृदयङ्गमरीत्या निरूपितो वर्तते। एषा कथा परोपकाराय शरीरलाभः' इति नीति बोधयति। "कस्यापि जन्तोः हिंसान कार्या" इति मन्देशः अत्र सुस्पष्टः वर्तते ।
विक्रमादित्यमहाराजस्य सिंहासन देवेन्द्रदत्तमिति प्रतीतिरस्ति। विक्रमस्य मरणानन्तरं भोजराजः तं प्राप्तवान् । यदा सः तम् आरोढुं गच्छति, तदा सिंहासनस्य सोपानपङ्क्तिषु स्थिताः द्वात्रिंशत् सालभञ्जिका: विक्रमादित्यस्य गुणविशेषान् कथारूपेण वर्णयन्ति । पश्चात् "त्वयि एवं परोपकारदयादयः गुणा: विद्यन्ते चेत्, तर्हि अस्मिन् सिंहासने समुपविश" इति भोजराज वदन्ति । एवं द्वात्रिंशत् कथा: ताभिः पुत्थलिकाभिः निरूपिता: इति 'सिंहासनद्वात्रिंशिका' नाम कथासमलने उल्लिखितं वर्तते ।
विक्रमादित्यः क्रि.पू. 102 संवत्सरे चक्रवर्तिरासीदिति श्रूयते। उज्जयिनी तस्य राजधानिरासीदिति ज्ञायते । सिंहासनद्वात्रिंशिकायां विद्यमानासु कथासु विक्रमादित्यस्य औदार्य, साहसं, धैर्य, जन्मवृत्तान्तं सिंहासनारोहणं, प्रजापालनतत्परता, रणरङ्गे तस्य वीरोचितं मरणम् च मनोज्ञया शैल्या निरूपित वर्तते । अत्र विक्रमादित्यः राजनैतिक आदर्शाणां प्रतिमूर्तिरिव चित्रितो वर्तते । तस्य शासनकालं शान्तिसमृद्धियुक्तं सुवर्णयुगम् इति वर्णितमस्ति ।
परेषामपि रक्ष जीवितम् इति पाठे विक्रमादित्यराजस्य परोपकारगुणाः प्रतिपादिताः। विक्रमादित्यः स्वमन्त्रिषु राज्यभारधुरं निक्षिप्य योगिवेघेण देश पर्यटितुं गतः । यावत् सः कस्मिश्चन वनं प्रविशति तावत् सूर्य अस्तंगतः। विश्रान्त्यर्थं सह वृक्षमूलमेकम् आश्रितवान्। तस्मिन् वृक्षे निवसतः चिरञ्जीवी नाम्नः पक्षिराजस्य पुत्रस्य वचनेभ्यः पलाशनगरस्य जना: राक्षसबाधया पीडिताः, पर्यावक्रमेण तस्मै भोजनं पौर: परिकल्पित, प्रतिदिनमपि तस्य आहारार्थ मानुष एक: प्रेष्यते; तदिने पक्षिण: पूर्वजन्मनः मित्रस्य ब्राह्मणस्य पर्यायः इत्यपि जानाति ।
परोपकारपर: विक्रमादित्यः तत्क्षणं प्रत्याय, राक्षसं प्रतीक्षमाणः ब्राह्मणस्य परिवार समाश्वास्य, गृहं सम्प्रेष्य, तन्नगरस्य वध्यशिलाम् आरुह्य उपविशति । तत्रागत: राक्षस: आनन्देन उपविष्टं विक्रमादित्यं दृष्टा आश्चर्यचकितः भवति। तेन कारणं पृष्ठे परायं स्वयं प्रेरणवा प्राणा: समर्प्यन्ते, अतः दुःखं नानुभवामि इति प्रत्यवदत् राजा । तस्य परोपकारगुणात् प्रभावितो राक्षस: विक्रमादित्याय वरमेकं प्रदातुम् इच्छति। विक्रमादित्यः तं राक्षसं 'नरभक्षणं त्यक्तव्यम् इति वरं वृणुते । सर्वेभ्य: प्राणिभ्य: स्वप्राणा: इष्टाः। तदर्थं सर्वेषां प्राणिनां जीवरक्षणं कर्तव्यम् इति तं बोधयति राजा तेन प्रभावित राक्षस: ततः प्रभृति जीवमारणं परित्यजति ।