सदस्यसम्भाषणम्:PSENG 1830394/प्रयोगपृष्ठम्
PSENG 1830394/प्रयोगपृष्ठम् | |
---|---|
Sigmund Freud, by Max Halberstadt, 1921 | |
जननम् |
सिग्मण्ड् स्च्लोमो फ़्रुड् ६ १८५६ Freiberg in Mähren, Moravia (now part of the Czech Republic), Austrian Empire |
मरणम् |
२३ १९३९ London, England, UK | (आयुः ८३)
वासस्थानम् | Austria |
देशीयता | Austrian |
कार्यक्षेत्राणि |
Neurology Psychotherapy Psychoanalysis |
संस्थाः | University of Vienna |
मातृसंस्थाः | University of Vienna |
विषयेषु प्रसिद्धः | Psychoanalysis |
प्रभावः | Aristotle, Brentano, Breuer, Charcot, Darwin, Dostoyevsky, Goethe, Haeckel, Hartmann, Jackson, Jacobsen, Kant, Mayer, Nietzsche, Plato, Schopenhauer, Shakespeare, Sophocles |
प्रभावितः | Eugen Bleuler, John Bowlby, Viktor Frankl, Anna Freud, Erich Fromm, Otto Gross, Karen Horney, Arthur Janov, Ernest Jones, Carl Jung, Melanie Klein, Jacques Lacan, Fritz Perls, Otto Rank, Wilhelm Reich |
प्रमुखाः प्रशस्तयः |
Goethe Prize Foreign Member of the Royal Society (London)[१] |
हस्ताक्षरम् |
(कालः – ०६. ०५. १८५६ तः २३. ०९. १९३९)
मनोविज्ञानम्
सम्पादयतुमनोविज्ञानम् एकम् नवीन् विज्ञानम् अस्ति। इदम् विज्ञानम् शास्त्रदृष्ट पठनम् अनुभवारूढम् च अस्ति। अस्मिन् यत्नप्रतिपाद्यम् कला तथा विज्ञान अस्ति उपजीव्य अधिकरणसिद्धान्त अनुभव च अस्ति। अथः कला केवलम् शत वर्षः आयुष्मत् अपि अस्ति।
मनसः भागाः
सम्पादयतुमनश्शास्त्रज्ञः सिग्मण्ड् फ्राय्डः एवम् उक्तवानस्ति – मनसि भागत्रयं विद्यते – आशानां साकारीकरणे मग्नः ’इद्’भागः । कथञ्चित् आशयाः साकारीकरणीयाः इत्येतदेव अस्य परमं लक्ष्यम् । अतः अयं भागः वस्तुस्थितिं कार्यकारणसम्बन्धं दोषादोषान् वा न अभिजानाति । किन्तु मनसः अन्यः भागः ’ईगो’ इत्येषः वस्तुस्थितिमपि अवगच्छति । वस्तुस्थितेः परिधौ एव ’इद्’भागस्य अपेक्षानां व्याक्षेपणे अनङ्गीकरणे च प्रयतमानः भवति । मनसः अन्यः भागः कथ्यते ’सूपर् ईगो’ इति । अयं भागः सामाजिक-नैतिक-धार्मिकनियमान् अवगच्छन् तेषां पालने प्रयतते । अस्मात् कारणात् ’इद्’ ’ईगो’ ’सूपर् ईगो’ इत्येतेषां भागानां मध्ये सर्वदा कस्मिंश्चित् विषये घर्षणं तुमुलं वा प्रचलति एव । मानसिकस्वास्थ्यं नाम शक्तः अहङ्कारः । एवं चेत् इद्-सूपर् ईगो – इत्येतयोः योग्यनिर्वहणं भवति । जनस्य आवश्यकताः पूरयन् अन्यैः सह समञ्जनपूर्णं जीवनं कर्तुं सहकरोति।
मस्तिष्कम्
सम्पादयतुमस्तिष्कः मतेः निवासस्थानम् अस्ति । मस्तिष्कं कपालास्थिना रक्षितम् । मस्तिष्कं श्वासजीर्णादिनि अनैच्छिक कर्माणि भाषणचलनादिनि ऐच्छिककर्माणि च विनियच्छति । मस्तिष्के श्रोत्रदर्शनभाषणघ्राणस्वादस्मरणस्थानानि सन्ति । अनेन विना वयं जीवितुम् असमर्थाः । इदं मस्तिष्कं (मस्तिष्कः) शिरसः अन्तः भवति । इदम् अपि शरीरस्य आन्तरिकम् अङ्गम् अस्ति । इदं मस्तिष्कम् आङ्ग्लभाषायां Brain इति उच्यते ।
इतिहासः
सम्पादयतुवेदेषु अपि अनेके पादपा: पशव: च वर्णिता: सन्ति। वेदेषु सोमौषधिः वनराजः इति प्रशंसितः दृश्यते। तदा जनाः अश्वत्थकाष्ठेन पात्राणां निर्माणं कुर्वन्ति स्म। महाकाव्येषु अपि भारतीयजीवशास्त्रस्य महत्त्वम् दृश्यते। तैत्तिरीयसंहितायाम् पादपानाम् अङ्गानि वर्णितानि। उदयनः पृथ्वीनिरापर्ये पादपाः जीविनः इति प्रत्यपद्यत। बौद्धतत्वज्ञानी धर्मोत्तरः न्यायविदूतिकायाम् पादपानां निद्राम् अवर्णयत् (रात्रौ पत्राणि पिदधाति)। गुणरत्नः सद्दर्शनसमुच्चये जीवीनाम् स्वभावान् विवदते स्म। पराशरः वृक्षायुर्वेदग्रन्थे प्रभासंयोगम् अवर्णयत्। पराशरः पादपगणता अभिदधाति स्म। चरकसुश्रुतौ आन्दुवंशिक्याः मूलभूतानाम् अध्ययनम् अकुरुताम्। शालिहोत्राग्निवेषौ पशुवैद्यौ आस्ताम् । सुश्रुतः अपि महान् चिकित्सकः आसीत्।
सिग्मण्ड् फ़्रुड्
सम्पादयतु(कालः – ०६. ०५. १८५६ तः २३. ०९. १९३९)
अयं सिग्मण्ड् फ्राय्ड् (Sigmund Freud) मनोविज्ञानस्य अध्वर्युः । एषः आस्ट्रियादेशस्य (इदानीन्तने जोकोस्लोवाकियदेशे अस्ति) फैबर्ग् इति प्रदेशे १८५६ तमे वर्षे मेमासस्य ६ दिनाङ्के निर्धने यहूदिकुटुम्बे जन्म प्राप्नोत् । यदा एषः सिग्मण्ड् फ्राय्ड् ४ वर्षीयः आसीत् तदा तस्य कुटुम्बं वियेन्नां प्रति गतम् । तदनन्तरं सम्पूर्णं जीवनम् अयं सिग्मण्ड् फ्राय्ड् वियन्नानगरे एव अयापयत् । अयं श्रमेण अध्ययनं कृतवान् । गृहे तु सदा दारिद्र्यम् एव आसीत् । यद्यपि सः तत्त्वशास्त्रे, संस्कृतौ, रसायनशास्त्रे, जीवशास्त्रे च आसक्तः आसीत् तथापि संशोधनार्थं जीवशास्त्रम् एव अचिनोत् । तस्य पूरकत्वेन अङ्गरचनाशास्त्रं, प्राणिनां नाडीसमूहम्, औषधशास्त्रं च अध्येतव्यम् अभवत् । अनन्तरं तेषां सर्वेषां शास्त्राणां मिश्रणेन वैद्यपदवीं प्राप्नोत् । वैद्यपदव्याः प्राप्तेः अनन्तरम् अपि जीवविज्ञाने, नाडीसमूहविषये च आसक्तः सिग्मण्ड् फ्राय्ड् प्रशिक्षणार्थं प्रसिद्धानां वैद्यानां समीपम् अगच्छत् । सः मनसः विषये, नाडीविज्ञाने, मस्तिष्कविषये च परिणतानां जीन् चार्काट्, वान् ब्रुयर्, जि.एच्.मेयनर्ट् इत्यादीनां मार्गदर्शने अध्ययनं कृत्वा वियेन्नानगरे एव कञ्चित् नाडीरोगस्य चिकित्सालयम् उदघाटयत् । तदा समाजे मस्तिष्कस्य, मनसः, नाड्याः च रोगाणां विषये जनानां ज्ञानं न आसीत् एव । मानसिकरोगीन् उन्मत्ताः इति मत्वा बन्धने स्थापनं वा ताडनं वा कुर्वन्तः तान् दण्डयन्ति स्म । मानसिकरोगस्य कारणं भयम् अपि भवितुम् अर्हति इति न जानन्ति स्म । एतत्सर्वं दृष्टवान् सिग्मण्ड् फ्राय्ड् मानसिकानां रोगाणां विषये एव अधिकं लक्ष्यम् अददात् ।
एषः सिग्मण्ड् फ्राय्ड् “कोकेन्” इत्यस्य परीक्षां कृत्वा तत् स्थानीयस्य संज्ञाहीनकरणस्य औषधत्वेन उपयोक्तुं शक्यते इति सूचितवान् । किन्तु वेदनानिवारकं कोकेन् अग्रे अभ्यासत्वेन परिवर्तते स्म । तेन जायमानां हानिम् अपि सः जानाति स्म । एषः सिग्मण्ड् फ्राय्ड् यदा प्यारिस्-नगरे आसीत् तदा प्रख्यातः नाडीतज्ञः जीन् मार्टिन् शार्कूट् उन्मादरोगस्य चिकित्सां यत् विशिष्टया रीत्या कृतवान् तत् दृष्टवान् आसीत् । तथैव ब्रायर् इत्याख्यः उन्मादयुक्तानां वशीकरणं (हिप्नाटिसम्) कृत्वा सुप्तावस्थायां यत् रोगनिवारणं कृतवान् तदपि दृष्टवान् आसीत् । तदा एव सिग्मण्ड् फ्राय्डस्य सुप्तावस्थायाः जागरितावस्थायाः च मध्ये कश्चन सेतुः भवेत् इति अस्फुरत् । एतत् एव तस्य मनोविश्लेषणस्य प्रेरणामूलम् अपि अभवत् । वैद्याः रोगिभिः सह मुक्ततया सम्भाषणं कृत्वा तेषां मनसि विद्यमानं भयं, संशयं वा दूरीकर्तुम् अवसरस्य कल्पनम् । तदवसरे सुप्तमनसि विद्यमानाः विचाराः अनिर्बन्धरूपेण जागरितमनः प्रविशन्ति । तदा वैद्याः तान् विचारान् अवगन्तुं शक्नुवन्ति । तदनुगुणं रोगिणां समाधानं च कुर्वन्ति । तदनन्तरं रोगिणां मनसि विद्यमानं भयं वा संशयः वा दूरीभवति । रोगी स्वस्थः भवति अपि । एतत् एव सिग्मण्ड् फ्राय्डेन निरूपितस्य मनोविश्लेषणस्य मूलं तत्त्वम् ।
पिता पुत्रस्य विषये अधिकारं चालयति । पुत्रः यद्यपि तस्य विरोधं कर्तुम् इच्छति तथापि न शक्नोति । अन्ते पुत्रः स्वत्मानम् एव दहति । एवं मनसि विभिन्नाः शक्तयः परस्परं सङ्घर्षं कुर्वन्ति । तत्कारणतः एव मनसः विभिन्नाः स्तराः निर्मिताः भवन्ति इत्यपि एषः सिग्मण्ड् फ्राय्ड् संशोधितवान् । सः मनसि उत्पद्यमानाः भावनाः स्वप्ने अभिव्यक्ताः भवन्ति इत्यपि सः वादम् अकरोत् । बहूनां स्वप्नस्य विश्लेषणं कृत्वा तस्य समीचीनम् अर्थम् अपि सः अवदत् । स्वप्ने वयं बाल्यस्य चिन्तनरीतिम् एव अनुसरामः । तानि चिन्तनानि तर्कबद्धानि न भवन्ति । विस्मरणम् आकस्मिकं न । तस्य किमपि किञ्चित् कारणं भवति । इति नूतनान् विचारान् अपि संशोधितवान् एषः सिग्मण्ड् फ्राय्ड् । अयं सिग्मण्ड् फ्राय्ड् मनोविश्लेषणस्य रीतिनीतीन् विवरीतुं शतशः लेखनानि पुस्तकानि च प्राकटयत् । तस्य पद्धतिः बहुशीघ्रं जनप्रियताम् अपि प्राप्नोत् । १९०८ तमे वर्षे तस्य सिग्मण्ड् फ्राय्डस्य नेतृत्वे एव प्रथमम् अन्ताराष्ट्रियं मनोविश्लेषणवैद्यानां सम्मेलनं प्राचलत् । सिग्मण्ड् फ्राय्ड् अपि बहुभिः उपायनैः पुरस्कारैः च सम्मानितः अभवत् । “गवटि” पुरस्कारः, रायल् सोसैट्याः सदस्यत्वादयः अपि तम् अन्विष्य आगताः । अयं सिग्मण्ड् फ्राय्ड् लैङ्गिकप्रवृत्तिः मनोव्यापारे प्रमुखतया दृश्यते । बाल्यादारभ्य अपि सा प्रवृत्तिः भवति एव । यौवने सा स्वयमेव प्रकटिता भवति । कदाचित् वयम् एव तां नियन्त्रयामः तावदेव । इत्यपि सः प्रतिपादयत् । १९३८ तमे वर्षे यदा जर्मन्-देशः वियेन्नानगरस्य उपरि आक्रमणम् अकरोत् तदा अनेन सिग्मण्ड् फ्राय्डेन यहूदिः इति कारणतः ततः पलायनं करणीयम् अभवत् । सः १९३९ तमे वर्षे सेप्ट्म्बरमासस्य २३ तमे दिनाङ्के इहलोकम् अत्यजत् ।
उल्लेखाः
सम्पादयतुhttps://sa.wikipedia.org/wiki/सिग्मण्ड्_फ़्रुड्?action=edit&veswitched=1&oldid=353315
- ↑ doi:10.1098/rsbm.1941.0002
This citation will be automatically completed in the next few minutes. You can jump the queue or expand by hand