सापुतारापर्वतः

(सपुतार इत्यस्मात् पुनर्निर्दिष्टम्)

सापुतारा ( /ˈsɑːpʊtɑːrɑːpərvətəh/) (गुजराती: સાપુતારા, आङ्ग्ल: Saputara) इतीयं गुजरातराज्यस्य दक्षिणभागे स्थितः पर्वतसमूहोऽस्ति । सापुतारापर्वतः डाङ्गमण्डलस्य आहवा इति उपमण्डले, गुजरातराज्यमहाराष्ट्रराज्ययोः सीमायां सह्याद्रिपर्वतमालासु वर्तते । अयम् पर्वतभागः वनेनाच्छादितः हरितिमायुक्तः मनोहरसरोवरैः सुशोभितः वर्तते । सूरत इत्यस्मात् नगरात् १७२ कि.मी. दूरे, नासिक् इत्यस्मात् नगरात् ८० कि.मी. दूरे अयं पर्वतः अस्ति ।

सापुतरा
गिरिधाम
सापुतरापर्वतस्य भव्यं दृश्यम्
सापुतरापर्वतस्य भव्यं दृश्यम्
राष्ट्रम् भारतम्
State गुजरातराज्यम्
District डाङ्गमण्डलम्
Elevation
१,००० m
Population
 (2001)
 • Total ६,३०१
 • Density ३,१५१/km
भाषाः
 • Official गुजराती
Time zone UTC+5:30 (Indian Standard Time)
Postal Index Number
394720
दूरभाषासङ्केतः +02631
Vehicle registration GJ

उत्कृष्टे ग्रीष्मकालेऽपि अत्र अधिकाधिकं तापमानं ३०परिमितम् एव भवति । अत्रत्याः स्थानिकाः जनाः आदिवासिनः सन्ति, ये सर्वकारस्य निवेदनेन आनुवंशिकं पुरातनम् आवासस्थलं त्यक्त्वा समीपस्थं नवनगरं गतवन्तः सन्ति । तेषां क्षेत्रीयभाषा डाङ्गी अस्ति, या 'कुकणा बोली' इति नाम्ना अपि प्रसिद्धा । स्थानिकाः आदिवासिनः आजीविकार्थं कृषिकार्य पशुपालनं च कुर्वन्ति । अत्रस्थाः जनाः मधूक(Madhuca longifolia)वृक्षस्य पुष्पाणि बीजानि च, किंशुकवृक्षस्य (Butea monosperma) (ખાખરો,કેસૂડો) अथवा पलाशवृक्षस्य पत्राणि, श्लक्ष्णपत्रकस्य (Persimmon, date-plum) (ટીમરુ) फलानि, वरदारुवृक्षस्य (Tectona) (સાગ) बीजानि, करञ्जीवृक्षस्य (Pongamia) (કરંજ) बीजानि च विक्रीणन्ति । सप्ततारा शब्दस्यापभ्रंशः "सापुतारा" शब्दः प्रचलितः स्यादिति प्रतीयते, यतो हि तस्मिन् पर्वते नैकानि शिखराणि सन्ति, सप्तताराः = तारास्पर्शीणि शिखराणि सन्ति यस्यां सा इति विग्रहेण "सापुतारा" शब्दस्यार्थेऽनुमीयते ।

सम्बद्धाः लेखाः सम्पादयतु

गुजरातराज्यम्

गुजरातराज्यस्य आदिवासिनः

नासिक

"https://sa.wikipedia.org/w/index.php?title=सापुतारापर्वतः&oldid=390374" इत्यस्माद् प्रतिप्राप्तम्