सम्पूर्णानन्द संस्कृत विश्वविद्यालयः
Kameshwar Singh Darbhanga Sanskrit University
सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयः एकः संस्कृतविश्वविद्यालयः अस्ति । अयं विश्वविद्यालयः भारतस्य उत्तरप्रदेशस्य वाराणस्यां वर्तते । विशेषतः संस्कृताध्ययनाय सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य संरचना कृता । संस्कृतविषये उच्चशिक्षायाः अवसरः एतया संस्थया कल्प्यते । अत्र नैके विद्वांसः संस्कृतस्याध्ययनं कृत्वा अधुना विविधेषु पदेषु विश्वविद्यालयस्य गौरवम् अग्रे सारयन्तः सन्ति। वर्तमानसमये अस्य विश्वविद्यालयस्य मान्याः कुलपतयः प्रो0 हरेरामत्रिपाठिनः वर्तन्ते।
सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयः | |
---|---|
सञ्चिका:विश्वविद्यालयः | |
ध्येयवाक्यम् | विद्ययाेsमृतमश्नुते |
स्थापनम् | १७९१ |
प्रकारः | साधारणम् |
उपकुलपतिः | प्रो0 हरेराम त्रिपाठी |
अवस्थानम् | वाराणसी, उत्तरप्रदेशराज्यम्, भारतम् |
क्षेत्रम् | नागरिकम् |
अनुमोदनम् | यू0 जी0 सी0 |
जालस्थानम् | www.ssvv.ac.in |
विभागाः
सम्पादयतुअस्मिन् विश्वविद्यालये नैके विभागाः सन्ति।
क्रीडाङ्गणम्
सम्पादयतुअत्र एकं सुदीर्घं क्रीडाङ्गणं वर्तते यत्र सर्वे छात्राः विविधाः क्रीडाः स्पर्धाश्च क्रीडन्ति।
पुस्तकालयः
सम्पादयतुदशलक्ष्याधिकगृन्थयुतः सरस्वतीभवनपुस्तकालयः अस्मिन् विश्वविद्यालये छात्रामध्यनाय महदुपकरोति।