सिंहासनद्वात्रिंशिका


महाराजविक्रमादित्यस्य सिंहासनमेकमासीत् यत्र उत्कीर्णाभिः पुत्तलिकाभिः वर्णिताः कथा अत्रोपनिबध्दाः । तत्सिंहासनमिन्द्रेण विक्रमादित्याय दत्तमासीत् । विक्रमादित्ये दिव्ंगते सति भोजराजेन भूसाद्भूतं तत्सिहासनमलभ्यत । तत्सिंहासनमारोढुमिच्छन्तं भोजराजं तत्रोत्कीर्णा पुत्तलिकास्ताः स्वसमानसख्याः कथाः कथायामासुः । अस्य कथाग्रन्थस्य बहूनि रुपाणि प्राप्यन्ते –एकं वर्णनात्मकपद्यप्रचुरं गद्यमयं रुपम् अपरम् औपदेशिकपद्यैः पूर्णं पद्यमयम्, अन्यच्च केवलं पद्यबध्दकथामयम् । आधुनिकभाषास्वनुवाददर्शनेनास्य ग्रन्थस्य लोकप्रियत्वं प्रतीयते । वेतालपञ्चविंशतिकातः पश्चात्कालिकोऽप्ययं ग्रन्थः कर्त्रशॆ नितान्तमौनः । एतस्य कर्त्ता निर्माणकालश्च निश्चेतुमशक्य एव ।

सम्बद्धाः लेखाः सम्पादयतु