सिद्धगङ्गा (Siddaganga) कर्णाटकराज्यस्य तुमकूरुमण्डले विद्यमानं किञ्चन क्षेत्रम् । प्रसिद्धः सिद्धगङ्गामठः शिवशरणानां पुण्यक्षेत्रं विद्यते । आधुनिककाले सिद्धगङ्गायाः नाम विश्र्वाद्यन्तं प्रसृतम् अस्ति । अत्र चलद्देवः इति कथ्यमानः कर्मयोगी शिवकुमारस्वामी वसति । शिवकुमारस्वामिनः कारणतः सिद्धगङ्गा उल्लेखार्हा जाता । सिद्धगङ्गां परितः प्रेक्षणीयानि स्थानानि बहूनि सन्ति ।

सिद्धगङ्गामठः
मण्डलम्
अधुनातनाः श्री सिद्धगङ्गास्वामिनः कलां महोदयेन सह
अधुनातनाः श्री सिद्धगङ्गास्वामिनः कलां महोदयेन सह
India Karnataka location map.svg
राष्ट्रम्  India
राज्यानि कर्णाटकराज्यम्
मण्डलम् टुम्कुरुमण्डलम्
Population
 (2001)[१][२]
 • Total ६,३३५
भाषाः
 • अधिकृत कन्नडभाषा
Time zone UTC+5:30 (IST)

रामदेवरबेट्ट, सिद्धगङ्गा, सिद्धरबेट्ट, देवरायपट्टस्य शिवालयः, गूळूरू, बेळगुम्ब, गुब्बि एडेयूरु, कुप्पूद्र इत्यादीनि स्थलानि प्रेक्षणीयानि सन्ति । ऐतिहासिकदृष्ट्या पौराणिकदृष्ट्या एतानि प्रसिद्धानि । एतादृशैः पवित्रस्थानैः परिवृतमस्ति सिद्धगङगाक्षेत्रम् । एतदेकं पुण्यक्षेत्रम् । एतत् तुमकूरुमण्डले अस्ति । बेङ्गळूरुतः ४० कि.मी दूरे अस्ति। एतत् क्षेत्रं प्रति सर्वमतीयाः अपि भक्त्या आगच्छन्ति । एका गाथा कर्णाटके प्रचलति सिद्धगङ्गां गच्छति चेत् गुहे (एकविधाहारविशेषः) ऋणं न भवति । अर्थात् यथेष्टं भोजनप्रसादः लभ्यते इति । एतदेकं मुक्तिदायकं स्थानम् । गोसलसिद्धेश्वरः, तोण्टदलिङ्गेश्र्वरः इत्यादयः विरक्ताः अत्र शान्तिं प्रतिष्ठापितवन्तः । सहस्राधिकाः छात्राः अत्र पठन्ति । नित्यदासोहकारणतः एतत् क्षेत्रं समाजस्य विशिष्टोपकारकम् अस्ति ।

इतिहासःसम्पाद्यताम्

एकदा ग्रीष्मकाले जलाभावः आसीत् । गिरौ जलम् अभिषेकार्थं न प्राप्तमेव । पानार्थमेव जलं नासीत् अभिषेकार्थं कुतः? तदा एषः तपस्वी तपोनिरतं श्रीतोण्टदलिङगेश्र्वरं दृष्ट्वा नमस्कृतवान् । निवेदितवान् "देव, तृषा जायते । अभिषेकार्थं जलं नास्ति । कुत्रापि जलं नास्ति" इति । एषा प्रार्थना तोण्टदलिङगेश्र्वरेण श्रुता । सः शिवं प्रार्थितवान् । तदा तस्य पुरतः गङ्गा उद्भूता । तदा तपस्वी गङ्गायां स्नात्वा तृषां च परिहृत्य स्थितवान् । तस्मिन्नेव समये सिद्धलिङ्गेश्वरेण ज्वालिते दीपस्तम्भे तैलं न्यूनं जातम् । सद्यः एव दीपः तैलाभावात् निर्वाप्यते इति स्थितिः आगता । तदा गङ्गाजलं तत्र पूरितम् । पुनश्र्च दीपः प्रज्वलितः ।

एतत् दृष्व्टा तपस्वी आश्र्चर्यचकितः जातः । सिद्धलिङ्गेश्र्वरं नमस्कृतवान् स्तुतवान् च । सिद्धलिङ्गेश्र्वरः उक्तवान् एतस्मिन् क्षेत्रे गङ्गा स्थितवती । अतः सिद्धगङ्गा इति एतस्य क्षेत्रस्य नाम भवतु । सिद्धगङ्गा प्रसिद्धिं प्राप्नोतु इति आशीर्वादं कृतवान् । तदा आरभ्य एतत् क्षेत्रं सिद्धगङ्गा अभवत् । तोण्टदलिङ्गेश्र्वरः, गोसलसिद्धेश्र्वरः इत्यादयः विरक्ताः अत्र आगताः । अत्र मठान् स्थापितवन्तः । रुद्रस्वामिनः, सिद्धलिङ्गस्वामिनः, मुप्पिनस्वामिनः इति परम्परायाम् आगताः । अनन्तरमागताः श्री अटवीस्वामिनः ।

अटवीस्वामिनः मठं निर्मीय अन्नदासोहं, ज्ञानदासोहं च व्यवस्थापितवन्तः । तैः तद्दिने प्रज्वालितः दीपः अद्यापि निरन्तरं प्रज्वलति । अटवीस्वामिनः अलौकिकाः आसन् । अनेकान् भक्तान् उद्धृतवन्तः । एतेषां तपसः प्रभावात् श्रीक्षेत्रं प्रति बहवः भक्ताः आगन्तुम् आरब्धवन्तः । दिने दिने एषा संख्या वर्धमाना एव अस्ति ।

 
तान्त्रिकमहाविद्यालयः, सिद्धगङ्गा

सिद्धगङ्गायाः इतिहासे उद्यानशिवयोगिनां नाम अपि प्रमुखम् अस्ति । एते स्वामिनः ज्ञानिनः । एते अन्नदासोहं, ज्ञानदासोहं, महोत्सवम् इत्यादिकं प्रचालितवन्तः । मठस्य प्रगतौ कारणीभूताः एते । १९०१ तमे वर्षे अत्र यात्रामहोत्सवः आरब्धः । अद्यापि बहुसम्यक् महोत्सवः सिद्धगङ्गायां प्रचलति । श्रीश्रीशिवकुमारस्वामिनां काले महोत्सवः वैभवपूर्वकं प्रचलति स्म । महोत्सवे कनीयांसः, वयस्काः, ज्येष्ठाः, धनिकाः, दरिद्राः, विभिन्नजातीयाः भेदभावं विना आगच्छन्ति । सिद्धगङ्गदेवेन अनुगृहीताश्र्च भवन्ति । हेरम्बकविः "सिद्धलिङ्गेश्र्वरसाङ्गत्ये" सिद्धगङ्गाजलस्य महिमानं वर्णितवान् । सिद्धगङ्गायाः माहात्म्यं कर्णाटकात् बहिरपि प्रसृतम् अस्ति ।

शिवरात्रौ सिद्धलिङ्गेश्र्वरनाम्नि यात्रामहोत्सवः प्रचलति । दशदिनानि उत्सवः भवति । अन्तिमदिने कल्याण्याम् उडुपोत्सवः भवति । पञ्चब्रह्मोत्सवः अपि भवति । एतत् द्रष्टुं लक्षाधिकाः जनाः आगच्छन्ति । सिद्धगङ्गायाम् अनेके गुहाः सन्ति । तत्र सप्त अथवा अष्ट उत्तमस्थितौ सन्ति । क्रि.श १३००-१३५० सिद्धगङ्गायां मठः स्थापितः स्यात् इति पण्डितः एरेसीमे अभिप्रैति । सिद्धगङ्गाक्षेत्रं कर्मयोगिनां शिवकुमारस्वामिनां कारणतः जगत्प्रसिद्धं जातम् । शिवकुमारस्वामी १९०८ तमे वर्षे एप्रील् प्रथमदिनाङ्के जन्म प्राप्तवान्। एतस्य माता गङ्गम्मा पिता होन्नय्यः । १९३० तमस्य वर्षस्य मार्च २ दिनाङ्के श्रीमन्निरञ्जनस्वरूपिशिवकुमारस्वामीति नामाङ्कनं श्री उद्दान शिवयोगिना कृतम् ।

शिवकुमारस्वामीजी बहुपरिश्रमेण मठं वर्धितवान् । इदानीमत्र अष्टसहस्राधिकच्छात्राः विद्याभ्यासं कुर्वन्ति । शिवकुमारस्वामिनः सर्वमतसिद्धान्तानपि अङ्गीकुर्वन्ति । सर्वे स्वमतं सम्यक् पालयन्ति चेत् सर्वत्र शान्तिः आनन्दश्र्च भविष्यति इति तेषाम् अभिप्रायः । १९६६ तमे वर्षे क्षामकाले एतैः कृतं दासोहं पश्यामश्र्चेत् स्वामिनां दृढसङ्कल्पः, अलौकिकशक्ति:, व्यक्तित्वं च ज्ञायते । मठे इदानीं प्रतिदिनं १०० तः १५० पल्लमितात् धान्यात् अन्नं वा पिष्टं वा कुर्वन्ति । एतत् अनेकराष्ट्रनायकाः दृष्टवन्तः । एतत्तु श्रीचरणानां तपोबलम् । सिद्धगङ्गायाः महत्त्वं, सिद्धलिङ्गेश्र्वरस्य कृपा इति भाव्यते । धारवाडविश्र्वविद्यालयः १९६६ तमे वर्षे स्वमिभ्यः "गौरवडाक्टरेट्पदवीम्" अयच्छत् । एते "कर्णाटकरत्नप्रशस्तिना" पुरस्कृताः सन्ति । शतायुषिणामेतेषां क्रियाशीलता आश्र्चर्यं जनयति ।

वज्रस्य वज्रमेव यथा उपमानं भवति तथैव स्वामिनाम् अन्यत् उपमानं न लभ्यते । तोलयितुं न शक्यते अन्यैः सह । सिद्धगङ्गा तु तीर्थक्षेत्रम् , शिक्षणक्षेत्रम् , दासोहक्षेत्रम् , शरणक्षेत्रम् इति कारणतः कर्णाटकस्य सर्वान् भक्तान् आकर्षति । इदानीं सिद्धगङ्गामठस्य उत्तराधिकारी श्री सिद्धलिङ्गस्वामी । एतस्य पूर्वाश्रमस्य नाम विश्र्वनाथः । शरणदम्पत्योः सदाशिवशिवरुद्रम्मयोः अन्तिमः पुत्रः । एतस्य जन्म २२-७-१९६३ तमे वर्षे कञ्चगलुबण्डेमठे अभवत् । एषः शिवकुमारस्वामिनाम् अनुग्रहं प्राप्तवान् । १९८८ मार्च ३१ तमे वर्षे सिद्धगङ्गामठस्य उत्तराधिकारी जातः । मठस्य प्रत्येकस्मिन् कार्ये उत्साहेन भागं स्वीकुर्वन् अस्ति एषः। शिवशरणक्षेत्रेषु अद्य सिद्धगङ्गा प्रभाविनी अस्ति । एतस्य क्षेत्रस्य दर्शनेन सर्वे स्वदु:खादिकं विस्मरन्ति । १२ शतके बसवादिभिः शिवशरणैः प्रज्वालितः प्रदीपः अद्य विश्र्वमेव प्रकाशयति । प्रज्वलतां तीर्थक्षेत्राणां सन्दर्शनेन पापानि नष्टानि भवन्ति । अस्माकं व्यक्तित्वं प्रज्वलति । एकैकः अपि जीवने एकदा वा शिवशरणक्षेत्रं पश्यति चेत् उत्तमम् । एतत् काशीक्षेत्रदर्शनस्य पुण्यं ददाति ।

बाह्यसम्पर्कतन्तुःसम्पाद्यताम्

  1. १.० १.१ "Know India - Karnataka". Government of India. Retrieved 6 December 2010. 
  2. GRIndia
"https://sa.wikipedia.org/w/index.php?title=सिद्धगङ्गा&oldid=424713" इत्यस्माद् प्रतिप्राप्तम्