सिद्धान्तः
ज्योतिषशास्त्रे सिद्धान्तः संहिता होरा चेति त्रयः स्कन्धाः सन्ति | तेषु सिद्धान्तस्कन्धः मुख्यतां भजते | अस्मिन् स्कन्धे के के विषयाः अन्तर्भवन्ति इति कथयामासुः भास्कराचार्याः -
त्रुट्यादिप्रलयान्तकालकलना मानप्रभेदः क्रमा-
च्चारश्च द्युसदां द्विधा च गणितं प्रश्नास्तथा सोत्तराः |
भूधिष्ण्यग्रहसंस्थितेश्च कथनं यन्त्रादि यत्रोच्यते
सिद्धान्तः स उदाहृतोऽत्र गणितस्कन्धप्रबन्धे बुधैः || इति |
भावार्थः - त्रुटितः आरभ्य कल्पपर्यन्तं विद्यमानाः सर्वविधाः कालप्रभेदाः, कालगणनार्थम् उपयुज्यमानानि सौरादीनि मानानि, ग्रहभगणाः, ग्रहाणां मध्यमानयनं स्फुटीकरणं च, सोत्तराः प्रश्नाः, भूमिः नक्षत्राणि ग्रहाश्चैतेषां संस्थितिः, वेधोपयोगिनां यन्त्राणां निर्माणविधिः - इत्यादयः खगोलशास्त्रसम्बद्धाः विषयाः यत्र विव्रियन्ते सः स्कन्धः सिद्धान्तः इति बुधाः कथयन्ति |
ग्रहणम्, ग्रहाणाम् उदयास्ते, चन्द्रशृङ्गोन्नतिः इत्यादयोऽन्येऽपि विषयाः अत्र विद्यन्ते | एतत्सर्वमपि ग्रहगणितम् इति नाम्नाऽपि प्रकीर्त्यते |
अपि च ग्रहगणितोपयोगिनः व्यक्तगणितम्, अव्यक्तगणितं रेखागणितञ्चैते गनणितसामान्यविषया अपि अत्रैव अन्तर्भवन्ति |