ज्योतिषशास्त्रस्य त्रिषु स्कन्धेषु अन्यतमा वर्तते इयं होरा । अत्र जन्तूनां जन्मकाले प्रश्नकाले वा विद्यमानां ग्रहस्थितिम् आश्रित्य तैः जीवने अनुभविष्यमाणानि शुभाशुभफलानि कथं ज्ञातव्यानीति विव्रियते । तानि च शुभाशुभफलानि तत्तज्जन्तोः पूर्वजन्मकृतकर्मभिरुत्पन्नानि । यथा अन्धकारे निवेशितः कश्चन दीपः तत्रत्यानि वस्तूनि समभिव्यञ्जयति तथैवैतत् शास्त्रम् अज्ञातानि अस्मत्कर्मफलानि अभिज्ञापयति । अहोरात्रमिति शब्दस्य आद्यन्त्ययोः वर्णयोः लोपेन निष्पद्यतेऽसौ होराशब्दः । तथा चोक्तमाचार्येण वराहमिहिरेण -
होरेत्यहोरात्रविकल्पमेके वाञ्छन्ति पूर्वापरवर्णलोपात् ।
कर्मार्जितं पूर्वभवे सदादि यत्तस्य पक्तिं समभिव्यनक्ति ॥' इति ।

अत्र जातकं प्रश्नश्चेति प्रकारद्वयं प्रकल्पितं पूर्वसूरिभिः । कैश्चित्तु जातकं ताजिकं चेति द्वौ विभागौ परिकल्पितौ ।

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=होरा&oldid=410032" इत्यस्माद् प्रतिप्राप्तम्