संस्कृतभाषायां सुबन्तपदानां विभक्तिरूपाणि अन्त्याक्षरानुसारं लिङ्गानुसारं च विभिन्नानि भवन्ति इति कारणत: छात्रा: तद्विषये कञ्चन क्लेशम् अनुभवन्ति इति सर्वेषां सुविदितम् । एतस्य क्लेशस्य परिहारं कर्तुं पण्डितै: अस्मिन् विषये नैके ग्रन्था: रचिता: सन्ति । अयमपि ग्रन्थ: तमेव पन्थानम् अनुसृत्य रचित: । अत्र शताधिका: सामान्यसुबन्त-शब्दा: शताधिका: विशेषशब्दाश्च सर्वासु विभक्तिषु निरूपिता: । संख्याशब्दा: पूरणार्थकशब्दाश्च सविस्तरं सङ्गृहीता: । सुबन्तरूपाणां विषये प्रायेण परिपूर्णोऽयं ग्रन्थ: न केवलं छात्राणां, पण्डितानामपि उपकारक: । एतादृशम् अनन्यपूर्वं प्रयत्नं कृतवन्त: लेखका: महापाठ-शालाया: सर्वेऽपि अध्यापका: अवश्यम् अभिनन्दनीया: ।

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=सुबन्तकौमुदी&oldid=409841" इत्यस्माद् प्रतिप्राप्तम्