सुरभिः इत्युक्ते कामधेनुः । यथा कामधेनु मनसः इच्छां पूर्णी करोति, तथैव इयं मुद्रापि अस्माकं वान्छितक्रियां, कामनां च पूर्णी करोति । वात- पित्त- कफ त्रिदोषस्य समतोलनं करोति । सूर्योदयस्य समये वा अस्तसमये सूर्याभिमुखं स्थित्वा इयं मुद्रा ८-१० निमेषपर्यन्तं क्रियते चेत् वान्च्छितवरं प्राप्नोति इति कथयति ।

करणविधानम् सम्पादयतु

यथा वयं नमस्ते कुर्मः तथैव हस्तौ योजयित्वा अङ्गुष्टौ दूरे स्थापनीयौ । तदनन्तरं परस्परं विरुद्धहस्तयोः तर्जनी, मध्यमाश्च अग्रभागं योजनीयम् । तथैव कनिष्टिका, अनामिकश्च अग्रभागं योजनीयम् । तदा सुरभिमुद्रा भवति । इयं मुद्रा गोः ऊधः इव दृष्यते इति मत्वा इयं सुरभिमुद्रा इति कथ्यते ।

परिणामः सम्पादयतु

कनिष्टिकायाः जलतत्वं तथा अनामिकायाः पृथ्वीतत्वस्य संयोगेन पित्तस्य शमनं भवति । तथैव तर्जन्याः वायुतत्वं तथा मध्यमायाः आकाशतत्वस्य संयोगेन वातस्य शमनं भवति । अङ्गुष्टद्वयोः अपि विंगडनेन (न योजनीयं ) शरीरस्य ज्वाला, अतिउष्णता शमिता भवति ।

उपयोगः सम्पादयतु

  • आड्रिन्ल्, पिट्युटरि, पीनियल्, थैरैड्, च समर्पकरीत्या कार्यं करोति ।
  • वात- पित्त- कफनां शमनं भवति ।
  • आसिडिटि झटिति शमितं भवति ।
  • सृजनशक्तेः वृद्धिः भूत्वा नूतन शोधकरणसामर्थं वर्धते ।
  • वान्च्छितशक्तिं प्राप्य मनोकामनाः सिद्धिः भवन्ति ।
  • गायत्रीमन्त्रेण साकं इयं मुद्रा क्रियते चेत् प्रभावलयस्य वृद्धिः भवति ।

जलसुरभिः सम्पादयतु

शरीरस्य ज्वालां दूरीकर्तुं सुरभिमुद्रया साकं तत्तत् हस्तस्य अङ्गुष्टद्वयमपि अनामिकायाः मूले नीत्वा स्थापनीयम् । तदा शरीरे शीतलता भवति ।

पृथ्वीसुरभिः सम्पादयतु

शरीरस्य जडता, आलस्यं च दूरीकर्तुं सुरभिमुद्रया सह तत्तत् हस्तस्य अङ्गुष्टद्वयमपि अनामिकायाः मूले नीत्वा स्थापनीयम् । अनया मुद्रया कासं निवारयति । अपचनं समीचीनं करोति । मूलाधारेण आञाचक्रपर्यन्तं शक्तिसंक्रमणं भूत्वा बलं वर्धते ।

शून्यसुरभिः सम्पादयतु

सुरभिमुद्रया साकं अङ्गुष्टद्वयमपि आकाशतत्वयुक्तस्य मध्यमायाः मूले यदा नीयते तदा शून्यसुरभिमुद्रा भवति । इयं मुद्रा शान्ति, प्रफुल्लताश्च वर्धयति । कर्णवेदनापि शमिता भवति ।

वायुसुरभिः सम्पादयतु

सुरभिमुद्रया साकं अङ्गुष्टद्वयमपि तत्तत् हस्तस्य तर्जन्याः मूले स्पर्षयामः चेत् वायुसुरभिः भवति ।

  • वातप्रकोपस्य सकलव्याधीनां शमनं करोति ।
  • मनसः द्रुढतां वर्धयति । चन्चलतां च दूरीकरोति ।

==वि.सू== अत्रत्य सुरभिमुद्रायाः करणसमये प्रारंभे द्वयः निमेषपर्यतं मुद्रां कृत्वा परिणामः दृष्टव्यः ।

वान्च्छितपरिणाम लब्धः चेत् ५-८ निमेषपर्यतं मुद्रा कर्तुं शक्यते ।

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=सुरभिमुद्रा&oldid=409847" इत्यस्माद् प्रतिप्राप्तम्