सूक्तयः
(सूक्तय: इत्यस्मात् पुनर्निर्दिष्टम्)
सूक्तय:
- अङ्गुलिप्रवेशात् बाहुप्रवेश:।
- अजा सिंहप्रसादेन वने चरति निर्भयम्।
- अति तृष्णा विनाशाय।
- अतिपरिचयादवज्ञा।
- अतिभक्ति चोरलक्षणम्।
- अति सर्वत्र वर्जयेत्।
- अधिकस्याधिकं फलम्।
- अनतिक्रमणीया हि नियतिः।
- अभद्रं भद्रं वा विधिलिखितमुन्मूलयति कः।
- अर्थो हि लोके पुरुषस्य बन्धुः।
- अल्पविद्या भयङ्करी।
- अल्पश्च कालो बहवश्च विघ्नाः।
- अव्यापारेषु व्यापारः।
- अहिंसा परमो धर्मः।
- अग्ननिन्दाभयान्नॅव त्याज्यं श्रीकृष्णसेवनम् ।
- अत्के चेन्मधू विन्देत् किमर्थं पर्वतं व्रजेत् ।
- कण्टकेनैव कण्टकमुद्धरेत्।
- कर्तव्यो महदाश्रयः।
- कवयः किं न पश्यन्ति?
- कालाय तस्मै नमः।
- काव्यशास्त्रविनोदेन कालो गच्छति धीमताम्।
- किमिव हि दुष्करमकरुणानाम्।
- किमिव हि मधुराणां मण्डनं नाकृतीनाम्।
- किं मिष्टमन्नं खरसूकराणाम्।
- कुपुत्रेण कुलं नष्टम्।
- क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे।
- तमसो मा ज्योतिर्गमय।
- त्यागो हि पुरुषव्याघ्र।
- जननी जन्मभूमिश्च स्वर्गादपि गरीयसी।
- जलबिन्दुनिपातेन क्रमशः पूर्यते घटः।
- जीवो जीवस्य जीवनम्।
- परोपकारार्थमिदं शरीरम्।
- परोपदेशे पाण्डित्यम्।
- पुनः पुनरपि प्रक्षाल्य कज्जलं न श्वेतायते।
- पिण्डे पिण्डे मतिर्भिन्ना।
- प्रज्वालितो ज्ञानमयः प्रदीपः।
- प्रथमग्रासे मक्षिकापातः।
- प्राप्ते तु षोडशे वर्षे गर्दभी ह्यप्सरा भवेत्।
- प्राप्ते तु षोडशे वर्षे पुत्रं मित्रवदाचरेत्।
- मधुरेण समापयेत्।
- मरणं प्रकृतिः शरीरिणाम्।
- महाजनो येन गतः स पन्थः।
- मातृदेवो भव।
- मार्गारब्धाः सर्वयत्नाः फलन्ति।
- मौनं सर्वार्थसाधनम्।
- मौनं सम्मतिलक्षणम्।
- यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः।
- यथा राजा तथा प्रजा।
- यथेच्छसि तथा कुरु।
- यः क्रियावान्स पण्डितः।
- याचको याचकं दृष्ट्वा श्वानवत् गुर्गुरायते।
- यादृशं वपते बीजं तादृशं लभते फलम्।
- युद्धस्य कथा रम्या।
- येन केन प्रकारेण प्रसिद्धो पुरुषो भवेत्।
- योजकस्तत्र दुर्लभः।
- यौवने मर्कटी सुन्दरी।
- रत्नं समागच्छतु काञ्चनेन।
- राजा कालस्य कारणम्।
- वसुधैव कुटुम्बकम्।
- वादे वादे जायते तत्वबोधः।
- वयं पञ्चाधिकं शतम्।
- वाग्भूषणं भूषणम्।
- विद्याविहीनः पशुः।
- विद्याधनं सर्वधनप्रधानम्।
- विद्वान् सर्वत्र पूज्यते।
- विनाशकाले विपरीतबुद्धिः।
- सत्सङ्गतिः कथय किं न करोति पुंसाम्।
- सत्यं कण्ठस्य भूषणम्।
- सत्यमेव जयते।
- सत्यं शिवं सुन्दरम्।
- सा विद्या या विमुक्तये।
- सुखमुपदिश्यते परस्य।
- संहतिः कार्यसाधिका।
- स्थितोऽस्मि गतसन्देहः।
- स्वभावो दूरतिक्रमः।
- स्वपरद्रोहजननं सत्यं भास्यं न कर्हिचित् ।
- श्रमं विना न किमपि साध्यम् ।
- हन्त हन्त महतामुदारता।
ज्ञ
सम्पादयतु- ज्ञानेन हीना: पशुभि: समाना:।