सूत्रभेदाः
सञ्ज्ञा च परिभाषा च विधिर्नियम एव च।
अतिदेशोऽधिकारश्च षड्विधं सूत्रलक्षणम्॥
लक्षणम् -
- संज्ञा - संज्ञासंज्ञिप्रत्यायकं सूत्रम् ।
- परिभाषा - अनियमे नियमकारिणी ।
- विधिः - आदेशादिविधायकं सूत्रम् ।
- नियमः - प्राप्तस्य विधेः नियामकम् । (सिद्धे सत्यारभ्यमानो विधिः)
- अतिदेशः - अन्यतुल्यत्वविधानम् ।
- अधिकारः - एकत्र उपात्तस्य अन्यत्र व्यापारः ।
उदाहरणानि -
- संज्ञासूत्रम् = वृद्धिरादैच्, अदेङ् गुणः, हलन्त्यम् ।
- परिभाषासूत्रम् = तस्मिन्निति निर्दिष्टे पूर्वस्य ।
- विधिसूत्रम् = वृद्धिरेचि, आद्गुण:, तस्य लोपः ।
- नियमसूत्रम् = पतिः समास एव, कृत्तद्धितसमासाश्च।
- अतिदेशसूत्रम् = स्थानिवदादेशोऽनल्विधौ ।
- अधिकारसूत्रम् = प्रत्ययः, पूर्वत्रासिद्धम् ।