सूर्यशतकम्
स्वरूपम्
सम्पादयतुअस्य सूर्यशतकस्य रचयिता बाणस्य मातुलः मयूरः (मयूरभट्टः)। अस्मिन् स्रग्धरावृत्ते निबद्धानि १०० पद्यानि विद्यन्ते । हर्षवर्धनस्य सूर्यप्रार्थनां निमित्तीकृत्य इदं स्तोत्रकाव्यं विरचितम् । अत्रत्या गौडीशैली यमकानुप्रासश्च सुप्रसिद्धः वर्तते । उपमा, रूपकम्, उत्प्रेक्षा, व्यतिरेकः, विरोधः, दीपकः, तुल्ययोगिता इत्यादयः अर्थालङ्काराः काव्यस्य शोभाम् अवर्धयन् । भावानुगुणं नादाभिव्यक्त्यर्थम् अवश्यं पदगुम्फनं विद्यते । वस्तुनः विषयं स्पष्टशब्दैः अकथयन् तोयदर्थो पवसः, अशिशीरमहः, शीतेतरांशुः, विषधरदमनस्य अग्रजः इत्यादिना भङ्ग्यन्तरेण कथनम् अस्य वैशिष्ट्यम् । 'शम्'इत्येषः वैदिकशब्दः, आज्ञार्थस्य कादन्तरूपम् (अवतात्), अधिजलधि, वितरतितराम् इत्यादयः विशेषव्याकरणप्रयोगाः अस्मिन् काव्ये बहुधा उपलभ्यन्ते ।
विभागः
सम्पादयतुसूर्यस्य रश्मिः, अश्वः, सारथिः, मण्डलम् - एतेषां वर्णनाय चत्वारः भागाः कृताः सन्ति । सूर्यस्य किरणानां प्रार्थनातः काव्यस्य आरम्भः भवति । सूर्यमण्डलस्य प्रार्थनाद्वारा काव्यं समाप्तिम् एष्यति । तदनन्तरं विद्यमाने पद्ये काव्यस्य प्रमाणं, कविः, फलानि च विद्यन्ते । सूर्यस्य सर्वतोमुखविवरणम् एव काव्यवस्तु । अभिनवगुप्तः मम्मटश्च इतः लक्ष्यं चितवन्तः सन्ति ।
केचन चिताः श्लोकाः
सम्पादयतु(१) सर्वदेवतास्वरूपिणः सूर्यस्य किञ्चन स्तोत्रम् -
योनिः साम्नां विधाता मधुरिपुरजितो धूर्जटिः शङ्करोऽसौ
मृत्युः कालोऽलकायाः पतिरपि धनदः पावको जातवेदाः ।
इत्थं संज्ञात डबित्थादिवदमृतभुजां या यदृच्छाप्रवृत्ताः
तासामेकोऽभिधेयस्तदनुगुणगणो यः स सूर्योऽवताद्वः ॥
(२) सूत्रदारः इव व्यवहरतः अरुणस्य इदं वर्णनं रूपकोपमाभ्यां रम्यम् -
प्रातः शैलाग्ररङ्गे रजनिजवनिकापायसंलक्ष्यलक्ष्मीः
विक्षेप्यापूर्वपुष्पाञ्जलिमण्डनिकरं सूत्रधारायवणः ।
यामेष्वङ्केष्विवाह्नः कृतरुचिषु चतुर्ष्वेव यातः प्रतिष्ठा-
मव्यात् प्रस्तावयण् वो जगदटनमहानाटिकां सूर्यसन्तः ॥
(३) सूर्यस्य किरणाः भवसागरतारिका नौका इव -
दत्तानन्दाः प्रजानां समुचितसमयाकृष्टस्पृष्टैः पयोः
पूर्वाह्ने विप्रकीर्णा दिशि दिशि विरमत्यह्नि स हार भाजः ।
दीप्तांशोर्दीर्घदुःखप्रभवभयोदन्वदुत्तारनावो
गावो वः पावनानां परमपरिमितां प्रीतिमुत्पादयन्तु ॥
सूर्यमण्डलं बीजमह्नाम् अपहृततिमिरं चक्षुषामञ्जनं द्वारं मुक्तिभाजाम् इति वर्णितम् । अतः रवेर्मण्डलं मुक्तयेऽस्तु ।
(४) अधः विद्यमाने पद्ये शब्दालङ्कारैः पुष्टः व्यतिरेकालङ्कारः सूर्य-दीपयोः भेदं विवृणोति -
नो कल्पायवायोरदयरयदलत्क्ष्माधरस्यापि गम्या
गाडोद्गीर्णोज्वलश्रीरहनि न रहिता नो तमः कज्जलेन ।
प्राप्तोत्पत्तिः पतङ्गान्न पुनरुपगता मोषमुष्णत्विषो वो
वर्तिः सैवान्यरूपा सुखयतु निखिलद्वीप द्वीपस्यदीप्तिः ॥
(५) अरुणं सम्बोध्य सूर्येण उच्यमानानि एतानि वचनानि तस्य विश्वोपकारबुद्धिं प्रदर्शयति -
पाशानाशान्तपालादरुणवरुणतो माग्रहीः प्रग्रहार्थं
तृष्णां कृष्णस्य चक्रे जहिहि नहि रथो यातिमे नैकचक्रः ।
योक्तुं योग्यं कुमुच्चैश्रवसमभिलषसृष्टमम् वृत्रशत्रोः
त्यक्तान्यापेक्षविश्वोपकृतिरिति रविः शास्ति यं सोऽवताद्वः ॥
व्याख्यानम्
सम्पादयतुत्रिभुवनपालः यज्ञेश्वरः श्रीरङ्गदेवः गोपीनाथः रामचन्द्रः इत्यादयः सूर्यशतकस्य व्याख्यानम् अलिखन् ।
गोपालशर्मा श्रीश्वरविद्यालङ्कारः राघवेन्द्रसरस्वती लिङ्गकविः इत्यादयः सूर्यशतकम् अलिखन् ।
हनूमान् उपमन्युश्च सूर्यस्तवम् अलिखन् ।