एकतामूर्तिः

(स्टेच्यू ऑफ् यूनिटि इत्यस्मात् पुनर्निर्दिष्टम्)

एकतामूर्तिः अर्थात् स्टैच्यू ऑफ यूनिटी ( /ˈɛkətɑːmrtɪhɪ/) (गुजराती: સ્ટેસ્યૂ ઑફ્ યૂનિટિ, आङ्ग्ल: Statue of Unity, हिन्दी: स्टैच्यू ऑफ यूनिटी) गुजरातराज्ये निर्मितः कश्चन प्रकल्पः (project)[] । भारतस्य लौहपुरुषस्य मूर्तिः एव एकतामूर्तिः अस्ति [] । यतो हि लौहपुरुषः एकतायाः प्रतीकः आसीत् । अस्य मूर्तिनिर्माणस्य विचारधारायाः पृष्ठभूमौ लौहपुरुषस्य भारतैकतायाः विचाराः सन्ति । विनोबा भावे-महाभागस्य मते भारतीयेतिहासे लौहपुरुषस्य अमरत्वस्य बहूनि कारणानि सन्ति । परन्तु तेषु द्वे मुख्ये कारणे स्तः । एकं तु बारडोली-सत्याग्रहः (१९२८), अपरं स्वतन्त्रतोत्तरं भारतीयराज्यानां भारते विलिनीकरणम् । राष्ट्रियान्दोलनस्य सुचारुसञ्चालनेन, साफल्येन च वल्लभभाई पटेल नवीनां सरदार इतीमाम् उपाधिं प्राप्तवान् । सरदार वल्लभभाई पटेल इति अद्यापि तस्य नाम सगर्वं गृह्यते। 'सरदार' इत्यस्य गुजराती-हिन्दी-शब्दस्यार्थाः नेता, नायकः, सञ्चालकः इत्यादयः ।

एकतामूर्तिः

એકતામૂર્તિ
Statue of Unity
एकतामूर्तिः (Gujarat)
एकतामूर्तिः is located in Gujarat
एकतामूर्तिः
एकतामूर्तिः (Gujarat)
Coordinates: २१°५०′१६″ उत्तरदिक् ७३°४३′०८″ पूर्वदिक् / 21.83778°उत्तरदिक् 73.71889°पूर्वदिक् / २१.८३७७८; ७३.७१८८९निर्देशाङ्कः : २१°५०′१६″ उत्तरदिक् ७३°४३′०८″ पूर्वदिक् / 21.83778°उत्तरदिक् 73.71889°पूर्वदिक् / २१.८३७७८; ७३.७१८८९
देशः  भारतम्
राज्यम् गुजरातराज्यम्
उद्घाटनम् ८.०० प्रातः तः ६.०० सायं, मङ्गल-तः रविवारपर्यन्तं
पिधानम् सोमवासरे पिहितं भवति।
नगरम् भरुच
प्रकल्पविस्तारः १९,५००
एकतामूर्तेः औन्नत्यम् १८१ मी.
Website http://www.statueofunity.in/
'भारतीयैकतायाः प्रतीकस्य लोहपुरुषस्य मूर्तिः एकतामूर्तिः'

एकतामूर्तिप्रकल्पे लौहपुरुषस्य १८२ मी. उन्नतमूर्तेः निर्मिता अस्ति[]सरदार वल्लभभाई पटेल-जलबन्धस्य पुरतः अस्याः एकतामूर्तेः निर्माणं जातम्। तस्मात् जलबन्धात् ३.२ कि.मी. दूरे निर्मिता भारतस्य एकताप्रतीकस्य लोहपुरुषस्य एकतामूर्तिःभारतस्य गुजरातराज्यस्य भरुच-नगरसमीपे नर्मदानद्याः साधुद्वीप-नामके (Sadhu island of Narmada River) द्वीपे विश्वस्य अत्युन्नतायाः एकतामूर्तिः विद्यते []

एकतामूर्तिप्रकल्पे अन्यलघुप्रकल्पानामपि समावेशो भवति । यथा – साधुसेतुः (a bridge connecting the statue on Sadhu island to the bank), सरदार-स्मारकः, अभ्यागतभवनानि (buildings for visitors), स्मारकोद्यानम्, अतिथिभवनं (a five star hotel), सम्मेलनभवनं, मनोरञ्जनवाटिका, संशोधनकेन्द्रम्, अभ्यासकेन्द्रम् इत्यादिकम्।

एकतामूर्तिप्रकल्पाय रदार ल्लभभाई टेल राष्ट्रियैकतासंस्थायाः – सवपरास (Sardar Vallabhbhai Patel Rashtriya Ekta Trust - SVPRET) गुजरातसर्वकारेण स्थापना कृता अस्ति ।

निर्माणम्

सम्पादयतु

२०१० तमस्य वर्षस्य 'अक्तूबर'-मासस्य सप्तमे दिनाङ्के एकतामूर्तिनिर्माणस्य घोषणा जाता आसीत् [] । निर्माणं च २०१८ अक्तूबर मध्ये समाप्तम्। आधारसहितमूर्तेः औन्नत्यम् आहत्य २४० मी. विद्यते। उपप्रकल्पैः सह एकतामूर्तिप्रकल्पस्य विस्तारः आहत्य १९,५०० च.कि.मी. अस्ति । तत्र १८२ मी. उन्नता एकतामूर्तिः, ५८ मी. उन्नतः मूर्त्याधारः च अस्ति। एतत् सम्पूर्णं निर्माणं सारलोहेन (with steel) क्लृप्तं (prepared) विद्यते [] । जलरक्षकेण वज्रचूर्णेन (reinforced cement concrete) एकतामूर्तेः, एकतामूर्त्याधारस्य च निर्माणम् अभवत् । सम्पूर्णस्य निर्माणस्य आवेष्टनं (coating) कांस्य(bronze)धातुना अभवत्।

एकतामूर्तेः सहनिर्मातारौ सम्पूर्णप्रकल्पस्य पर्यवेक्षकत्वेन (supervisors) दायित्वं वहिष्यतः । तौ Michel Graves and Associates, Meinhardt Group स्तः । एकतामूर्तेः सम्पूर्णः प्रकल्पः ५६ मासानन्तरं समाप्तिं प्रापयिष्यति । उपप्रकल्पैः सह सम्पूर्णस्य एकतामूर्तिप्रकल्पस्य समाप्त्यर्थं १२५५ सप्ताहाः अर्थात् चतुर्विंशतिः (२४) वर्षाणि भविष्यन्ति । परन्तु उपप्रकल्पैः विना एकतामूर्तिनिर्माणस्य कालः पञ्चवर्षं यावत् अनुमानितः सर्वकारेण । सम्पूर्णप्रकल्पस्य मानितराशिः २०६३ कोटिरूप्यकाणि सन्ति । लोहपुरुषविचारान् अनुसृत्य जनसाहाय्येनैव एकतामूर्तिप्रकल्पाय धनसङ्ग्रहः भविष्यति । प्रकल्पाय गुजरातराज्यस्य सर्वकारेण २०१२-१३ वर्षे १०० कोटिरूप्यकं मानधनं प्रदत्तमस्ति ।

२०१३ तमस्य वर्षस्य 'अक्तूबर'-मासस्य एकत्रिंशत्तमे (३१) दिनाङ्के, लौहपुरुषस्य १३८ तमे जन्मजयन्त्यवसरे गुजरातराज्यस्य मुख्यमन्त्री नरेन्द्र मोदी एकतामूर्तिप्रकल्पस्य शिलान्यासमकरोत् [] । शिलान्यासानन्तरं लाल कृष्ण आडवाणी, नरेन्द्र मोदी च अघोषयत् यत्, एकतामूर्तेः निर्माणं न केवलं विश्वस्य अत्युन्नतमूर्तेः निर्माणम् अपि तु लौहपुरुषस्य सर्वेषां विचाराणां समग्रस्य विश्वस्य पुरतः उपस्थापनम् । तौ अघोषयतां यत्, २०१४ तमस्य वर्षस्य 'जनवरी'-मासस्य षड्विंषति(२६)तमे दिनाङ्के अर्थात् गणतन्त्रदिवसे प्रकल्पस्य निर्माणकार्यस्य प्रारम्भं भविष्यति [][]

एकतामूर्तिनिर्माणे वैशिष्ट्यम्

सम्पादयतु

लौहपुरुषः कृषकपुत्रः आसीत् । तेन आजीवनं कृषकाणां हितचिन्तनं कृतम् । बारडोली-बोरसद-खेडा-सत्याग्रहाः तत्र प्रत्यक्षोदाहरणानि सन्ति । तस्य सम्पूर्णं जीवनं भारताय, कृषकेभ्यः च समर्पितमसीत् । अतः ये कृषकाः तस्मै श्रद्धाञ्जलिं दातुम् इच्छन्ति, ते लौहनिर्मितं कृषिसाधनं मूर्तिनिर्माणार्थं दानं कर्तुं शक्नुवन्ति [१०] । कृषकाणां सारल्यं भवेदिति (रदार ल्लभभाई टेल राष्ट्रियैकता संस्था) – सवपरास इत्यनया भारतस्य सर्वेषु राज्येषु केन्द्राणि स्थापितानि सन्ति । तेषु केन्द्रेषु लोहेन निर्मितानि कृषिसाधनानि स्वीक्रियन्ते [११] । सवपरास इत्यनया लोहस्वीकरणस्य कार्यं ‘स्टेच्यू ओफ यूनिटि मूवमेन्ट’ इति प्रसिद्धमस्ति । सवपरास इतीयं संस्था आहत्य ५००० मेट्रिक टन लोहं सङ्ग्रहिष्यति ।

सवपरास इत्यनया संस्थया जनसामान्येभ्यः सुराज्यस्य (Good Governance) विचाराः अपि स्वीक्रियन्ते । कोऽपि लोह-दाता, अन्यजनो वा सुराज्यस्य सञ्चालं कथं भवेत् इतीमं विचारं सर्वकारसम्मुखं प्रस्थापयितुम् इच्छति चेत् सः “सुराज-याचिकायां (Suraaj Petition)” स्वविचारान् लिखित्वा केन्द्रस्थाय कार्यकर्त्रे दातुं शक्नोति । एवं २० कोटिजनाः सुराजयाचिकाः दास्यन्ति इति अनुमानमस्ति [१२][१३][१४][१५] । तासां सुराजयाचिकानां सङ्कलनं विश्वस्य बृहत्तमा हस्ताक्षरिता याचिका भविष्यति ।

‘स्टेच्यू ओफ यूनिटि मूवमेन्ट’ अन्तर्गतायाः ‘रन फॉर यूनिटी’ इत्यस्याः धावनप्रतियोगितायाः आयोजनं २०१३ तमस्य वर्षस्य 'दिसम्बर'-मासस्य १५ दिनाङ्के भारतस्य विभिन्नेषु नगरेषु कृतमासीत् [१६][१७] । तस्यां प्रतियोगितायां सहस्रशः जनाः भागम् अवहन् [१८]

समस्याः

सम्पादयतु

१ यदा ‘साधुद्वीपः’ एकतामूर्ति-प्रकल्पस्य निर्माणस्थलत्वेन निर्धारितः, तदा बहवः स्थानिकाः विरोधमकुर्वन् । तेषां कथनमासीत् यत्, "अत्र वरता बाबा नामकः कश्चन साधुः वसति स्म । तस्य वासः अत्र आसीदतः अस्य स्थलस्य नाम 'वरता बाबा टेकरी' इति जनाः वदन्ति । जनानां तेन द्वीपेन सह धार्मिकभावना सल्लग्ना अस्ति । अतः अत्र निर्माणकार्यं भवितुं नार्हति" ।

२ केन्द्रसर्वकाराय पत्रं प्रषयित्वा पर्यावरणविभागेन आक्षेपः कृतः, “पर्यावरणविभागेन सह परामर्शं विनैव अस्य प्रकल्पस्य अनुमतिः गुजरातराज्यस्य सर्वकारेण दत्ता अस्ति” इति ।

३ केवडीया-कोथी-वघोटिया-लिम्बडि-नवगाम-गोरा-ग्रामाणां जनाः एकतामूर्तिनिर्माणस्य विरोधम् अकुर्वन् । सर्वकाराय या भूमिः दत्ता आसीत्, तस्याः पुनःप्राप्तिं ते इच्छन्ति स्म । गुजरातराज्यस्य सर्वकारेण तेषाम् आवेदनम् अङ्गीकृतम् ।

मार्गाः

सम्पादयतु

एकतामूर्तेः पर्यटनं सोमवासरेषु न भवति।[१९] गुजरातराज्यस्य, भारतस्य च विभिन्नेभ्यः नगरेभ्यः एकतामूर्तिस्थलं प्राप्तुं विमान-रेल-बस्-यानानि सन्ति ।

विमानमार्गः

सम्पादयतु

एकतामूर्तेः समीपतमं विमानस्थानकं सुरत-महानगरे अस्ति । ततः रेलयानेन वा बस् यानेन एकतामूर्तिस्थलं प्राप्तुं शक्यते । गुजरातराज्यस्य अहमदाबाद-राजकोट-महानगराभ्यां विमानयानानि सुरत-महानगराय सन्ति । भारतस्य मुम्बई-देहली-बेङ्गळुरु-पणजी-आदिनगरेभ्यः विमानयानानि सुरत-महानगराय सन्ति ।

रेलमार्गः

सम्पादयतु

एकतामूर्तेः समीपतमं रेलस्थानकं भरुच-नगरे अस्ति । ततः बस्-यानेन एकतामूर्तिस्थलं प्राप्तुं शक्यते । गुजरातराज्यस्य अहमदाबाद-राजकोट-सुरत-वडोदरा-भुज-जामनगरादिभ्यः रेलयानानि भरुच-नगराय सन्ति । भारतस्य मुम्बई-देहली-बेङ्गळूरु-अजमेर-जयपुरादिभ्यः रेलयानानि भरुच-नगराय सन्ति ।

बस्-मार्गः

सम्पादयतु

एकतामूर्तेः समीपतमं बस्-स्थानकं भरुच-नगरे अस्ति । ततः एकतामूर्तिस्थलं प्राप्तुं शक्यते । गुजरातराज्यस्य अहमदाबाद-राजकोट-सुरत-वडोदरा-भुज-जामनगरादिभ्यः बस्-यानानि भरुच-नगराय सन्ति । भारतस्य मुम्बई-देहली-बेङ्गळूरु-अजमेर-जयपुरादिभ्यः बस्-यानानि भरुच-नगराय सन्ति ।

सम्बद्धाः लेखाः

सम्पादयतु

बाह्यानुबन्धाः

सम्पादयतु

उद्धरणम्

सम्पादयतु
  1. Ashwani Sharma (1 November 2014). "14 Things You Did Not Know about Sardar Patel, the Man Who United India". Topyaps. Archived from the original on 4 January 2015. आह्रियत 16 May 2014. 
  2. "नरेन्द्रमोदीमहोदयस्य ड्रीम प्रोजेक्ट इत्यस्य नव आकर्षक सूचनाः". अमर उजाला. 1 नवम्बर 2013. आह्रियत १८-३-२०१५. 
  3. "संग्रह प्रतिलिपि". Archived from the original on 2018-09-04. आह्रियत 2015-03-18. 
  4. "Burj Khalifa consultant firm gets Statue of Unity contract". The Times of India. TNN. August 22, 2012. Archived from the original on July 27, 2013. आह्रियत March 28, 2013. 
  5. "For iron to build Sardar Patel statue, Modi goes to farmers". The Indian Express. July 8, 2013. आह्रियत Oct 30, 2013. 
  6. "Gujarat: Sardar Patel statue to be twice the size of Statue of Liberty". CNN IBN. October 30, 2013. Archived from the original on October 31, 2013. आह्रियत October 30, 2013. 
  7. "Statue of Unity: 36 new offices across India for collecting iron". The Times of India. TNN. October 18, 2013. आह्रियत October 30, 2013. 
  8. "L&T to build Statue of Unity, Centre grants Rs 200 crores.". Indian Express. 11 July 2014. आह्रियत 12 October 2014. 
  9. "Gujarat govt issues Rs 2,979-cr work order to L&T for Statue of Unity". Business-Standard. 2014-10-28. आह्रियत 2014-10-28. 
  10. http://www.indianexpress.com/news/for-iron-to-build-sardar-patel-statue-modi-goes-to-farmers/1138798/
  11. "'District farmers to donate iron for Statue of Unity' - The Times of India". The Times Of India. Archived from the original on 2013-12-03. आह्रियत 2015-03-18. 
  12. http://indianexpress.com/article/cities/ahmedabad/lt-to-build-statue-of-unity-centre-grants-rs-200-crore/
  13. "Statue of Unity gets Rs. 200 crore.". The Hindu. July 10, 2014. आह्रियत July 11, 2014. 
  14. "India’s new budget includes $33 million to build the world’s tallest statue.". The Washington Post. July 10, 2014. आह्रियत July 11, 2014. 
  15. "India's Modi budgets $33 million to help build world's tallest statue". Reuters. July 10, 2014. Archived from the original on July 14, 2014. आह्रियत July 13, 2014. 
  16. "संग्रह प्रतिलिपि". Archived from the original on 2013-12-03. आह्रियत 2015-03-18. 
  17. "संग्रह प्रतिलिपि". Archived from the original on 2013-11-18. आह्रियत 2015-03-18. 
  18. "Statue of Unity: 36 new offices across India for collecting iron - The Times of India". The Times Of India. Archived from the original on 2013-10-31. आह्रियत 2015-03-18. 
  19. Empty citation‎ (help) 
"https://sa.wikipedia.org/w/index.php?title=एकतामूर्तिः&oldid=488401" इत्यस्माद् प्रतिप्राप्तम्