हरिणी ।

लक्षणम् सम्पादयतु

नसमरसलागः षड्वेदैर्हयैर्हरिणी मता

रसयुगहयैर्न्सौ म्रौ स्लौ गो यदा हरिणी तदा। - केदारभट्टकृत- वृत्तरत्नाकर:३.९३

अस्मिन् वृत्ते सप्तदशाक्षराणि भवन्ति तथा च यत्र प्रत्येकम् अपि पादे क्रमेण एकः नगणः¸ एकः सगणः,

एकः मगणः, एकः रगणः एकः सगणः, एकः लघुः एकः गुरुश्च भवति तदेव वृत्तं हरिणीवृत्तमिति कथ्यते ।

यतिस्तु षष्ठे चतुर्थे सप्तमे च भवति ।

।।। ।।ऽ ऽ।ऽ ।।ऽ ।ऽ

न स म र स ल ग।

यति: षड्भि: चतुर्भि: सप्तभि:च।

उदाहरणम् सम्पादयतु

अक्षरसङ्खया - 17 (।।। ।।ऽ  ऽ।ऽ ।।ऽ ।ऽ) न स म र स ल ग 

यदि विकलता धर्मेऽधर्मोत्थितिर्भवतीह वा, जननरहित: सन्नेवाहं तदा प्रभवामि च। सुचरितजनान्त्रातुं दुष्टान् विनाशयितुं तथा, युगमनुयुगं धर्मस्थैर्यं पुनर्विदधाम्यहम्॥

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=हरिणीछन्दः&oldid=409875" इत्यस्माद् प्रतिप्राप्तम्