हरिदाससिद्धान्तवागीशः
हरिदाससिद्धान्तवागीशस्य कश्चन नाट्यकारः। ख्रीष्टाब्दे १८७६ फरीदपुरमण्डले लब्धजन्मा हरिदाससिद्धान्तवागीशो भारतवर्षस्य स्वातन्त्र्यमुद्गायन् विशिष्ट एव । अस्य माता विधुमुखी पिता च गङ्गाधरविद्यालङ्कार आस्ताम्। अयं बाल्यत एव महाकविरासीत् । पञ्चदशवर्षीय एवासौ कंसवध-प्रभृतीनां ग्रन्थानां प्रणयनेन लब्धादरोऽभवत् । कवेरस्य सुप्रसिद्धनाटकेषु विराजसरोजिनी, मिवारप्रतापं, शिवाजीचरितं, वङ्गीयप्रतापञ्चेति सुप्रसिद्धानि । अनेन रुक्मिणीहरणप्रभृतीनि पद्यकाव्यान्यपि लिखितानि । अस्य हिन्दुत्वाभिमानं प्ररोचकमथ च याथार्थ्यं दृश्यते यथा -
हरिदाससिद्धान्तवागीशः | |
---|---|
जननम् | विंशतिशताब्दी |
वृत्तिः | लेखकः |
राष्ट्रीयता | भारतीयः |
प्रकारः | नाट्कारः |
विषयाः | पौराणिक-ऐतिहासिकनाटकानि |
प्रमुखकृतयः | शिवाजीचरितम्, मिवारप्रतापम् |
विषयैः प्रभावितः
भारतीयपुराणशास्त्रम्, भारतस्य इतिहासः
|
हिन्दूरेव हि हिन्दूनां विकृतः कुरुते क्षतिम्।
मुद्गरीकृतलौहं हि लौहं दलति शाश्वतम्।।[१]
एवं मिवारप्रतापस्य पञ्चमेऽङ्केऽपि -
'हिन्दुभिरेव हिन्दूनां हिंसया संवृत्तोऽयं सर्वनाशो भारतस्य' इत्यपि लिखितम्।
मिवारप्रतापम्
सम्पादयतुमिवारप्रतापं नाम नाटकं १६४४ ख्रीष्टाब्दे विरचितम् । अस्य प्रथमोऽभिनयो १९४५ ख्रीष्टाब्दे कोलकातानगरे स्टाररङ्ग-मञ्चे समभूत् । प्रस्तावनायां सूत्रधारः संस्कृतभाषायाम् अमरताविषये स्पष्टयति -
वेदादि-शास्त्र-निचय-स्फुट-दिव्यमूर्तिः,
सा वाक् किमन्यवचनादमरा म्रियेत॥
मध्याह्नसूर्यकरणो हि यदि ब्रवीति,
रात्रिः किलेयमिति हन्त स एव मूढः॥
शिवाजीचरितम्
सम्पादयतुशिवाजीचरितस्य प्रथमाभिनयः स्वाधीनतादिवस-यात्रावसरे समभूत् । सूत्रधारो ब्रवीति यद् भारतवासिनां हृदयेषु देशप्रेमदीपनार्थमेव वयमभिनेतुमभिलषामः। शिवाजीचरितं १९४५ ख्रीष्टाब्दे विरचितम्। रचनेयं सर्वथा कालासुयोगिनी।
वङ्गीय-प्रतापम्
सम्पादयतुवङ्गीयप्रतापं हरिदासेन १६१७ ख्रीष्टाब्दे विरचितम् । इदं प्रथमं कवेः गृहे प्रयुक्तम् । वर्षत्रयानन्तरं कोलकातानगरे मिनर्वा-रङ्गालये नाटकमिदं द्वितीयवारं सोल्लासतयोदयनसमितिद्वाराभिनीतम्।
विराजसरोजिनी
सम्पादयतुविराजसरोजिनी इतिनाटिकायाः रचनाकालः १६०० ई० वर्ष मन्यते । मालवदेशाधिपतिः हरिदश्वो वाराणसीवासिन्याः कस्याश्चित् कुमार्याः प्रेमपाशे आबद्ध इति कथा । स भित्तौ आत्मानं सङ्गोप्य प्रेयसीं पश्यन् वर्णयति -
इममेव युवा नवाङ्गनाललितालापरसं पिपासति।
युवकात्मनि यस्य सन्निधौ नवपीयूषरसोऽपि नीरसः।।
एषा राजकन्या सरोजिनी ललनाललाम् अभूतेति विश्वविश्रुता । सुबाहुः दानवस्तां बलादपहर्तुकामोऽस्ति । तौ तुमुलम् अयुध्यताम् । निर्वहणे राक्षसो हतः । पश्चात्तयोरुद्वाहेन सर्वथा सम्प्रीतिः अजायत।
कविना लोकरंजनार्थं नृत्यसङ्गीतयोः आद्यन्तनिर्वाहो विहितः । तथाहि स्त्रीगानम् -
चन्द्रचूड, शान्तिकर कुरु करुणाम्,
मालती यूथी विकासिनी याति यातनाम्।
अतीतकलिकादशामुदिततरुणरसां
विनालिमतिविरसां पश्य मलिनाम्।।
शोषयति समीरणः तापयति विरोचनः
दिवसे निशि च पुनः याति मुद्रणम्।।
नाटिकायाः चतुर्थोऽङ्को विक्रमोर्वशीयस्य चतुर्थाङ्केन प्रभावितः। हरिदश्वो नायिकायाः वियोगे कथयति -
द्वितयचपलभृङ्गप्रान्तसम्पीयमाना
सरलमृदुशृगालद्वन्द्वसंश्रीयमाणा।
अनधिकविकचाभ्यां सङ्गता कोरकाभ्याम्
पतदुदकसरोजा नान्यरूपा स्थलेऽपि।।[२]