होम् रूल् आन्दोलनं (हिन्दी: होम् रूल् आन्दोलनं, आङ्ग्ल: home rule aandolan ) वा अखिलभारतीय होम् रूल् लीग्(league) इति एकं राष्ट्रियं राजनैतिकं संङ्घटनमासीत् । यस्य स्थापना १९१६ तमे वर्षे स्व.बाळ गङ्गाधर तिलकेभारते स्वातन्त्र्यं प्राप्तुं कृता । भारतस्य ब्रिटिश्-राज्ये क्षैत्रपत्यम् (dominion) इत्यधिकाराय इदम् आरब्धम् । तदानीं ब्रिटिश् साम्राज्ये ऑस्ट्रेलिया, कनाडा, दक्षिण-अफ्रीका, न्यूजीलैंड एवं न्यूकाउंडलैंड एतेषु उपनिवेशेषु वा देशेषु तेषां स्वकीया शासनपद्धतिः (dominion) स्थापिता । प्रथमविश्वयुद्धस्य आरम्भे सति भारतीय राष्ट्रीय ’काङ्ग्रेस’ इत्यस्य पक्षस्य मृदुपक्षधारिभिः ब्रिटेन्-देशस्य साहाय्यम् कर्तुं निश्चयः कृतः । तदा पक्षस्य निर्णयस्य आशयः युद्धान्ते ब्रिटेन् शासकाः भारतं स्वाधीनतां दास्यन्ति इत्यैवासीत् । किन्तु पक्षेन ब्रिटेन्-शासकाः इत्थं न विधास्यन्ति इति झटिति ज्ञातमतः असन्तुष्टः सन् अपरमार्गः अन्वेषितः । ततः १९१५-१६ वर्षयोर्मध्ये द्वयोः होम् रूल्-लीग् इत्यस्य स्थापना जाता । पुणे महानगरे होम् रूल् लीग्-इत्यस्य स्थापना बा.गङ्गाधर तिलकेन कृता । तथा मद्रास नगरे होम् रूल् लीग्-इत्यस्य स्थापना एनी बेसन्ट् इत्यनया कृता । संस्थेयं स्वाधीनतायै ’भारतीय राष्ट्रीय कोङ्ग्रेस’ इत्यस्य सहायतां कर्तुम् इच्छति, किन्तु शस्त्रप्रयोगाय अनुमतिः नासीत् । १९१७तमे वर्षे होम् रूल् आन्दोलनकाले बाल गङ्गाधर तिलक एवं एनी बसेन्ट् इत्युभाभ्याम् द्वयोः संस्थयोः एकैव ध्वजः निर्मितः । ध्वजोऽयम् पञ्चरक्तरेखाभिः, चतस्रः हरितीरेखाभिस्सह सप्ततारकैश्च अङ्कितः आसीत् । किन्तु ध्वजोऽयं प्रसिद्दिं न गतः। १९२० तमे वर्षे अखिलभारतीय होम् रूल् लीग् इत्यस्य अध्यक्षरूपेण उद्घोषितः । वर्षान्ते सङ्घटनमिदं भारतीय राजनैतिकयुद्धाय ‘भारतीय राष्ट्रीय काङ्ग्रेस’ इति पक्षे विलयङ्गतम् । तेन अस्य अस्तित्वञ्च नष्टम् ।

श्रीमती एनी बेसन्ट् आयर्लैण्ड-देशस्य निवासिनी आसीत् । सा भारते ’थियोसोकिकल’ सोसायटी इत्यस्य सञ्चालिका आसीत् । सा भारतीयसभ्यतया, संस्कृत्या च बहुप्रभाविता आसीत् । अत एव आयरलैण्ड-देशं त्यक्त्वा भारते निवासं कृतवती, भारतमेव मातृभूमिं च अमन्यत । एकदा एनी बेसन्ट् इङ्ग्लेण्ड-देशम् अगच्छत् । तत्र आयरिशनेतुः रेडमाण्ड् इत्यस्य होम् रूल् सिद्धान्तात् भारतं स्वतन्त्रं कर्तुम् व्यचारयत् अत एव भारतम् आगता तदा ब्रिटीश्-इत्यस्य साम्राज्यस्य अन्योपनिवेशवदेव भारतं स्यादिति उद्दिश्य कोङ्ग्रेस-पक्षं मिलित्वा उदारवादीन् उग्रतावादींश्च एकीकृत्य होम् रूल् आन्दोलनम् अचालयत् ।

होम् रूल् आन्दोलनस्य उद्देश्यानि

सम्पादयतु

(१) अस्य प्रथममुद्देश्यं भारताय स्वशासनप्राप्तिः आसीत् । श्रीमती एनी बेसन्ट् इत्यनया होम् रूल् आन्दोलनस्य आशयः स्वसाप्ताहिकपत्रे “कॉमनवील’’ इत्यस्मिन् प्रथमाङ्के लिखितः यत् अनेन ग्रामपञ्चायततः राष्ट्रीयसंसद् यावत् स्वशासनस्य स्थापना भवेत् इति । ब्रिटिश्-सर्वकारेण भारतीयसंसदि चितेषु प्रतिनिधिषु एकः भारतीयः अपि भवेत् इति ।

(२) आन्दोलनस्यास्य उद्देश्यम् आङ्लान् भारताद् बहिर्प्रेषणे तथा युद्धकार्याय विक्षेपकरणे नासीत् । किन्तु पराधीनभारतापेक्षया स्वतन्त्रभारतम् ब्रिटिश्-शासकेभ्यः अधिकं साहाय्यकरं भविष्यति । अतः ब्रिटिश्-सर्वकारः भारतम् स्वशासनम् दत्त्वा सन्तोषयेत् । इत्थं प्रत्यक्षरूपेण स्वशासनोपलब्धिः, परोक्षरूपेण ब्रिटेन्- सर्वकारस्य सहायतां च कर्तुम् आन्दोलनस्य उद्देश्यम् आसीत् ।

(३) होम् रूल् इत्यस्य उद्देश्यम् भारतीयराजनीतिः उग्रतां प्रति न गच्छेदित्यैव आसीत् । श्रीमती एनी बेसन्ट् भारतीयराजनैतिकप्रवृत्तेः ध्यानपूर्वकेन अध्ययनेन अजानात् यदस्य आन्दोलनस्य शान्तिपूर्वकम्, वैधानिकरीत्या च सञ्चालनं न भविष्यति चेद् भारतीयराजनीतौ क्रान्तिकारिणां तथा आतङ्कवादिनामाधिपत्यं भविष्यति इति ।

(४) डॉ.जकारिया मते होम् रूल् योजनायाः लक्ष्यं राष्ट्रियाणाम् क्रान्तिकारिजनैः मेलनम् न स्यादेवं भारतीयेभ्यः ब्रिटिश्-सर्वकारः स्वराज्यं दत्त्वा सन्तोषयेत् तथा भारतीयराजनीतौ क्रान्तिकरीणाम् प्रभावः नापतेत् इति ।

(५) युद्धकाले भारतीयराजनीतिः शिथिला जाता । सक्रियकार्यक्रमाणां, प्रभावयुक्तनेतृत्वस्य च अभावात् राष्ट्रिय आन्दोलनस्य प्रगतिपथः अवरूद्धः । अतः भारतीयजनानां सुषुप्तावस्थातः प्रबुद्धत्वम् प्रति गमनमावश्यकमिति विचार्य होम् रूल् आन्दोलनम् आरब्धम् । श्रीमती एनी बेसन्ट् मते होम् रूल् भारतस्य याचना नास्ति किन्तु अधिकारः अस्ति । राजभक्तिपुरस्काररूपेण स्वतन्त्रताप्राप्तिस्तु मूर्खता अतः पुरस्काररूपेण न किन्तु अधिकाररूपेण स्वाधीनतां याचामहे ।

आन्दोलनस्य पृष्टभूमिकायाः प्रारम्भः प्रगतिः च

सम्पादयतु

बालगङ्गाधरः षड्मासपर्यन्तं कारागारं न्यवसनत् । यदा १९१४ तमे वर्षे जून-मासस्य १६ तमे दिनाङ्के ततः विमुक्तः तदा भारतस्य स्थितौ परिवर्तनम् आसीत् । स्वदेशी आन्दोलनक्रान्तिकारी अरविन्दघोषः संन्यासी भूत्वा पोण्डीचेरी-नगरम् न्यवसत् । तथा लालाजी अमेरिकादेशे आसीत् । तिलकेन विचारितम् प्रप्रथम कोङ्ग्रेस-पक्षं विहाय अन्येषां क्रान्तिकारिपक्षाणां मेलनं भवेत् , येन ब्रिटिश्-सर्वकारः दमनमार्गं नानुसरेद् । इत्थं विचिन्त्य बा.ग.तिलकः घोषणाञ्चकार यद् वयं भारते प्रशासनव्यवस्थायां परिवर्तनम् इच्छामः । तथैव आयरलेण्ड-देशस्य क्रान्तीकारिणः अपि याचितवन्तः । वयं ब्रिटीश्-शासनम् उन्मूलयितुं नेच्छामः । भारतस्य विभिन्नेषु स्थलेषु हिंसात्मिकाः घटनाः भवन्ति तद्योग्यं नास्ति । घटनाभिः अस्माकं राजनैतिकः विकासः न्यूनीकृतः । इत्थम् उभयत्र निष्ठां प्रदर्श्य तिलकः ब्रिटिश्-सर्वकारस्य समर्थनम् कर्तुम् जनताम् असूचयत् ।

एनी बेसन्ट् थियोसोकिकल सोसैटि कृते भरतागमनम्

सम्पादयतु

१९०७ तमे वर्षे सूरत-नगरे यदाचरितम् तद् सदोषमासीत्, कोग्रेस-पक्षस्य अकर्मण्यतया नीचतमं च आसीत् इति मृदुपाक्षिकाः नेतारः अन्वभवत् । तेन कारणेन एतेभ्यः तिलकस्य कथनम् योग्यं भाति । इतः परं एनी बेसन्ट् इत्यस्याः राष्ट्रियं राजनैतिकम् आन्दोलनं जागरितुम् अतिप्रेरण आसीत् (pressure) । एनी बेसन्ट् तदानीमेव कोङ्ग्रेस-पक्षे सम्मिलिता । तया राजनीतिकस्य जीवनस्य आरम्भः इङ्ग्लैण्ड-देशात् कृतः । यत्र तया स्वतन्त्रताचिन्तनम् (क्रिथोट) उग्रसुधारवादः(रेडिकलिज्म) तथा ब्रह्मविद्याप्रचारे भागः गृहीतः । १८९३ तमे वर्षे सा ब्रह्मविद्याप्रचाराय भारतम् आगतवती । तदर्थं तया १९०७ तमे वर्षे मद्रास-प्रान्तस्य उपनगरे आडियार-नगरे कोर्यालयार्थम् एकः आपणः क्रीतः । अल्पीयसि काले एव तया समर्थकानां विशाला सङ्ख्या प्राप्ता । तेषु अधिकतमाः शिक्षितव्यक्तयः आसन् । १९१४ तमे वर्षे एनी बेसन्ट् इत्यनया स्वस्य गतिविधिम् अग्रे नेष्यति इति निर्णयः कृतः ।

एनी बेसन्ट् इतयस्याः आन्दोलनारम्भः

सम्पादयतु

आयरलैण्ड-देशस्य होम् रूल् लीग् इतिवत् भारतेऽपि स्वशासनयाचनया आन्दोलनारम्भः कृतः । १९१५ तमे वर्षे एनी बेसन्ट् इत्यनया ’न्यू इण्डिया’ कामनवील च इत्युभाभ्याम् पत्रिकाभ्याम् आन्दोलनप्रचारः कृतः । ब्रिटिश्-सर्वकारान्तगत आयरलैण्डादि देशेभ्यः शासनव्यवस्थायाः यावन्तः अधिकाराः प्रदत्ताः सन्ति तावन्तः भारतस्य कृतेऽपि भवतु इति तस्याः अभ्यर्थना आसीत् । १९१५ तमे वर्षे अप्रेल-मासात् एनी बेसन्ट् इत्यनया स्वकीयम् उग्ररूपम् दर्शितम् । तदा एव तिलकेन स्वराजनैतिकाः गतिविधयः आरब्धाः । तथाऽपि कोङ्ग्रेसपक्षस्य मृदुपाक्षिकाः तिलकस्य गतिविधिं पक्षभिन्ना न जानीयुः तदर्थं स्वयं तिलकः सतर्कः आसीत् । कोङ्ग्रेस-पक्षे यया कयाऽपि रीत्या प्रवेशः भवेत्तथा तिलकस्य मनोरथः आसीत् । तिलकेन १९१५ तमे वर्षे मई-मासे स्वसमर्थकानां सम्मेलनं कारितम् । यस्मिन् ग्राम्यजनतायै कोङ्ग्रेस-पक्षस्य उद्देश्यानां तथा कार्यणां परिचयं कारयितुम् एका व्यवस्था भवेत् इति स्वस्यमतम् अस्थापयत् । राष्ट्रिय आन्दोलने पक्षस्य एकतायाः आवश्यकता आसीत् । अतः तिलकः निजशक्तिं कोङ्ग्रेस-पक्षस्य एकतायै अयोजयत् ।

एनी बेसन्ट् इत्यस्याः, तिलकस्य च साफल्यम्

सम्पादयतु

१९१५ तमे वर्षे दिसम्बर-मासे कोङ्ग्रेस-पक्षस्य वार्षिकम् अधिवेशनम् अभवत् । तत्र एनी बेसन्ट् इत्यनया, तिलकेन च सफलता प्राप्ता । अतः पक्षेन उग्रमार्गिभ्यः स्थानं प्रदत्तम् । किन्तु होम् रूल् इत्यस्य कृते राष्ट्रिय कोग्रेस-पक्षः सङघटनस्य प्रस्तावाय अनुमतिः स्थानीयं कोङ्ग्रेसपक्षम् जीवयितुमेव दत्तवान् न तु शक्तिशालिनं कर्तुम् । अतः १९१६ तमं वर्षं यावत् यदि एतेषां कार्यक्रमाणां समाजे उपयोगः न भवेत् तर्हि अहं नैजंसङघटनम् रचयिष्यामि इति श्रीमत्या सभारमुक्तम् । तिलकः स्वतन्त्ररूपेण कोङ्ग्रेस-पक्षमागन्तुम् अधिकारम् अप्राप परन्तु तेन पक्षाय कापि प्रतिबद्धता न कृता । अतः १९१६ तमे वर्षे अप्रेल-मासे बेल-ग्रामतः होम् रूल् सङघटनस्य घोषणा कृता । एनी बेसन्ट् इत्यस्याः समर्थकाः सितम्बर(September) मासं यावत् स्थातुं अक्षमाः इति प्रदश्य होम् रूल् सङघटनम् स्थापयितुम् अनुमतिः स्वीकृतवन्तः । जमनादासः, द्वारकादासः, शङ्करदासः बेङ्कर एवं इन्दुलाल याज्ञिक एभिः मिलित्वा ’यङ्ग इण्डिया’ नामके वर्तमानपत्रे

आङ्ग्लभाषायां, क्षेत्रीय भाषायां च प्रचारः आरब्धः । तिलकः एवं एनी बेसन्ट् इत्युभाभ्याम् स्वकार्यक्षेत्राणां विभागाः कृताः, येन कुत्राऽपि भ्रष्टता वा स्वच्छन्दता मा भूत् । तिलकः कर्णाटक-महाराष्ट्र-मध्यप्रदेश-बरारादीनां प्रान्तानां नेतृत्वम् आधत्ते । अन्यप्रान्तानां नेतृत्वं एनी बेसन्ट् इत्यनया स्वीकृतम् । किन्तु उभयोः विलयः न कृतः कारणं तत्र तिलकसमर्थकानाम् एनी बेसन्ट् प्रति असमर्थनम् तथा बेसन्ट् इत्यस्याः समर्थकानां तिलकं प्रति असमर्थनम् आसीत् । तथाऽपि एतयोः पारस्परिकः व्यवहारः आसीद् ।

तिलकस्य क्षेत्रीयाधिकारस्थापनम्

सम्पादयतु

तिलकेन महाराष्ट्रयात्रायां होम् रूल् आन्दोलनस्य बहुप्रसिद्धिः कृता । जनतायै अस्य आवश्यकता, उद्देश्यविषये च कथयन्नुक्तम् – भारतम् युवा पुत्रः जातः यथा पुत्रे ’युवावस्था’ प्राप्ते सति विवाहादि अधिकाराः दीयन्ते तथैव ब्रिटिश्-सर्वकारः भारताय स्वशासनाधिकारः दद्यात् तत्र तेषाम् अधिकारः अस्ति । तिलकेन भाषाकीय अधिकारस्य स्वशासनाधिकारेण सह सन्धि (joint) कृतः। तिलकेन उक्तं यथा आङ्ग्लजनाः स्वप्रान्ते ’फ्रेङ्च्’ भाषां न पाठयन्ति । जर्मनजनाः स्वप्रान्ते आङ्ग्लभाषान पाठयन्ति तथैव भारतेऽपि शिक्षणम् प्रान्तीय भाषायामेव स्यात् । तिलकेन १९१५ तमे वर्षे मई इति मासे मुम्बई-नगरस्य प्रान्तीय सम्मेलने गोखले इत्यस्य निधने सति शोकप्रस्तावः स्थापितः । बी.बी. अलूर मतमिदं समर्थयितुं यदोत्थिताः तदा तिलकः कन्नडभाषाधिकारस्थापनाय कन्नडभाषायाम् वद्तु इति कथयन् क्षेत्रीयाधिकारम् अस्थापयत् ।

तिलकस्य समानतायाः भावः

सम्पादयतु

तिलकः जातिवादी नासीत् । महाराष्ट्रस्य सर्वकाराय ब्राह्मणेतरैः उच्चज्ञात्याधिकारयाचने तस्य सम्बन्धः नास्ति इति विलिख्य पत्रम् प्रेषितः । यस्य उच्चज्ञातीयैः विरोधः कृतः । किन्तु तिलकेन विरोधकर्तृकेभ्यः धैर्यपूर्वकं कार्यं कर्तुमुक्तम् । तथा आवयोः याचनाधिकारे भेदः नास्ति इति बोधयामश्चेत् असमानतायै आरब्धम् आन्दोलनम् सङ्घर्षयुतम् न भविष्यति इत्यपि सूचितम् । ब्राह्मणेतरेभ्यः बोधितम् यद् कलहः ब्राह्मणानामेवं ब्राह्मणेतराणाम् नास्ति किन्तु शिक्षित-अशिक्षितानामस्ति । ब्राह्माणाः युष्मद्तुलनायाम् अधिकशिक्षिताः, अतः सर्वकारमान्या वृत्तिः त एव प्राप्नुवन्ति । सर्वकारमते शिक्षिता एव प्रशासनचालनक्षमाः, अतः संङ्घटनमिदम् स्वाधिकाराय एवास्ति । एवं स्पर्शास्पर्शः भगवताऽपि सहते चेदहं तमपि न मन्ये इति अवदत् । होम् रूल् इत्यधिकाराः पूर्णतः धर्मनिरपेक्षाः आसनतः तिलकेन दत्तेषु भाषणेषु धार्मिकता न समागता । तिलकः अन्यधर्मानुयायिनां विरोधिः नासीत् । किन्तु ब्रिटिश्-सर्वकारः भारतीयानां कृते किमपि न करोति । यदि ते जनहिताय कार्याणि कुर्युश्चेत् तेऽपि अस्मदीयाः। अत्र भेदभावं प्रति धर्मव्यवसाययोः चिन्तनं नास्ति किन्तु जनहिताय प्रश्नाः सन्ति । तिलकेन षण्मराठीभाषीया तथा द्वय आङ्ग्ल भाषीया ४७००० पत्रिकाः निष्कास्य स्वप्रचारकार्यम् आरब्धम् । ततः परं गुर्जरभाषायां, कन्नडभाषायां च पत्रिकाः अमुद्रयत् । लीग् इत्यस्य षट्शाखाः निर्मिताः मध्यमराष्ट्रकर्णाटकमध्यप्रान्तमुम्बई आदिषु एकैकाः तथा बरारे शाखाद्वयम् निर्मिताः ।

ब्रिटिश् सर्वकारस्य दमनमार्गः

सम्पादयतु

होम् रूल् आन्दोलनम् प्रगतिपथङ्गते सति ब्रिटिश् सर्वकारेण दमनकार्यम् आरब्धम् । आन्दोलनोपरि प्रहारं कर्तुं सर्वकारेण १९१६ तमस्य वर्षस्य जुलाई मासस्य २३ दिनाङकः निश्चितः। तच्च तिलकस्य ६० तमः जन्मदिवसः आसीत् । तद्दिने तिलकाय एकस्यां सभायां लक्षरुप्यकाणां पुटं दत्तमेवं सर्वकारः भवताम् गतिविधिं दृष्ट्वा किमर्थं त्वं न अवरोधयेत् ? इति पृष्ट्वा तेभ्यः षष्ठीसहस्रः (६०,०००) दण्डः प्रदत्तः । दण्डम् उपहारं मत्वा सर्वकारस्य दमनक्रियया होम् रूल् आन्दोलनम् वने अग्नि इव प्रसृतः भविष्यति इति व्यचारयत् । तिलकपक्षात् ’महम्मद अली जिन्ना’ इत्यस्य नेतृत्वे न्यायवादीनां समूहेन case कार्यं सम्पादितम् । जनपदन्यायालये तिलकः पराजयं प्राप्तवान् किन्तु उच्चन्यायालयेन सः निर्दोषः उद्घोषितः । तेन सर्वत्र जनाः जागृतताङ्गताः । महात्मा गान्धी इत्यनेन यङ्ग इण्डिया पत्रिकायां लिखितम् यद्-स्वशासनाधिकारस्य वा स्वतन्त्रतायाः महत्तमो विजयः अभवत् इति ।

स्वशासनाधिकारस्य कार्ये वेगः

सम्पादयतु

तदा तिलकः स्वनिर्दोषघोषणायाः लाभाय सार्वजनिकेषु भाषणेषु होम् रूल् वा स्वशासनाधिकाराय सर्वकारः अनुमतिम् अददात् इति अवदत्। तिलकेन समर्थकैः सह मिलित्वा १९१७ तमस्य वर्षस्य अप्रेल-लमासे १४,००० सदस्याः एकीकृताः । एनी बेसन्ट् इत्यनया १९१६ वर्षस्य सप्टेम्बर-मासे कार्यारम्भः कृतः। किन्तु तस्याः संङ्घटनम् शिथिलम् आसीत् । केचन त्रयः व्यक्तयः शाखोद्घाटने क्षमाः आसन् । किन्तु तिलकसङ्घटनम् वज्र इव कठोरमासीत् । षट्सु शाखासु कार्यकर्तारः निर्धारिताः आसन् । एनी बेसन्ट् इत्यस्याः द्विशतम् शाखाः आसन् किन्तु सदस्येभ्यः निर्देशाय प्रयोगाः नासन् । तत्र व्यक्तिगतरूपेण वा न्यु इण्डिया माध्यमेन अरूडेल्-इत्यस्य लेखाध्ययनेन जनाः स्वकार्याणि अवगच्छन्ति स्म । अतः तेषां आन्दोलनसङ्गठने ७००० सदस्याः न्यूनत्वेन आसन् । येषु जवाहर लाल नेहरू इत्ययं बी.चक्रवर्तिनः जे. बनर्जी इत्ययं च सम्मिलितः अभवत् ।

शाखासु न्युनाधिक्यं तस्य कारणं च

सम्पादयतु

मूलतः शाखागणनया तस्य बलानुमानं भवितुम् अशक्यम् । तासु बह्व्यः सक्रियाः बहव्यश्च निष्क्रियाः शाखाः आसन् । निष्क्रियासु शाखासु मद्रास्-प्रदेशे सर्वाधिकसङ्ख्याः एवं सक्रिय शाखासु उ.प्रदेशस्य मुम्बई इत्यस्य एवं गुर्जरग्रामीण्यः शाखाः आसन् । एतासाम् गतिविधिनाम् आधारेण होम् रूल् इत्यस्य स्वाधिकारस्य याचनायै बृहदान्दोलनकरणस्य आसीत् । तदर्थं राजनैतिशिक्षणम्, राजनैतिककलहस्य च कार्यम् अतीव आवश्यकमासीत् अतः अरूडेल इत्ययं पत्रिकायाः माध्यमेन, राजनैतिशिक्षणस्य, पुस्तकालयानां निर्माणेन, तथा छात्रेभ्यः राजनैतिशिक्षायै च कक्षाः आयोजयन्ति स्म । तथा मित्रवर्गे ’होम् रूल्’ इत्यस्य आन्दोलने सदस्याः भवन्तु इति निवेद्य राजनैतिकं ज्ञानञ्च ददाति स्म । इत्थं बहुभिः शाखाभिः अस्य प्रचारः कृतः । राजनैतिकचर्चायै विशिष्टं ध्यानञ्च दत्तं । केचनमासपूर्वे लक्षत्रयं मुद्रितानि पत्राणि विक्रितानि । येन होम् रूल् आन्दोलनम् इत्यस्य प्रगतिः ज्ञायते । पत्रेषु सर्वकारस्य साम्प्रतभ्रष्टता एवं स्वराजसमर्थने तर्काः आसन् ।

सर्वकारस्य प्रतिबन्धः

सम्पादयतु

तिलक कथनेन यदा कमपि विषयं नीत्वा देशव्यापी प्रतिरोधाह्वाहनं भवति, तदा लीग् इत्यस्य सर्वाः शाखाः तिलकं समर्थयन्ति स्म । १९१६ वर्षस्य नवम्बर-मासे एनी बेसन्ट् इत्यस्यै बरारमध्यप्रान्तयोः गमने प्रतिबन्धः कृतः। तदा अरुडेल् कथनेन लीग्-इत्यस्य सर्वाभिः शाखाभिः सम्मिल्य वायसरोय् इत्यस्मै, गृहसचिवाय च विरोधप्रस्तावः प्रेसितः । इत्थमेव १९१७ तमे वर्षे तिलकाय पञ्जाबदिल्ली-नगरयोः गमने प्रतिषेधः कृतः । तदापि शाखाभिः सर्वकाराय विरोधपत्राणि प्रेषितानि । इदं सर्वं दृष्ट्वा कोङ्ग्रेस-पक्षस्य अकर्मण्यतया क्षुब्धाः मृदुपन्थानः आन्दोलने सम्मिलिताः ।

आन्दोलने गोखले इत्यस्य योगदानम्

सम्पादयतु

गोखले इत्यस्य “सर्वेन्ट ऑफ इण्डिया सोसैटि” इत्यस्यै आन्दोलनस्य सदस्य भवितुम् अनुज्ञा नासीत्, अतः भाषणपत्रविक्रयणाभ्याम् होम् रूल् आन्दोलनम् असमर्थयत् । उत्तरप्रदेशस्य अनेकैः राष्ट्रवादिभिः मृदुमार्गिभिः कोङ्ग्रेस-पक्षस्य सम्मेलनस्य सज्जतायै होम् रूल् लीग् इत्यस्य कार्यकर्तृभिः सह ग्रामेषु, नगरेषु च सभाः आयोजिताः । प्रायः सभाः पुस्तकालयेषु भवन्ति, येन छात्राः, व्यवसायिनः, अन्ये व्यापारसंलग्नाश्च सभां प्राप्नुयुः । एवं गोष्ठी आपणदिने भवति स्म चेत् कृषकाः अपि भागं गृहणन्ति स्म । एतासु गोष्ठिसु भारतस्य दारिद्र्यम् तथा अनुद्योगः एतौ विषयौ चर्चितौ भवतः । तत्र अतीतसमृद्धिं स्मारं-स्मारं यूरोप इत्यस्य स्वतन्त्रता आन्दोलनम् प्राकाशयत् । तत्र कार्यकर्तृभिः हिन्दीभाषायाः एव प्रयोगः कृतः । मृदुपथिनां होम् रूल् समर्थने आश्चर्यं नास्ति कारणं आन्दोलनमिदं तेषां राजनैतिकं शैक्षणिकं प्रचारमेव अकरोत् ।

लखनऊ अधिवेशनम्

सम्पादयतु

१९१६ तमे वर्षे लखनऊ अधिवेशने होम् रूल् लीग् इत्यस्य समर्थकानां स्वशक्तिप्रदर्शनस्य अवसरः आसीत् । तिलकसमर्थकैः एका परम्परा निर्मिता यस्योपरि कोङ्ग्रेस-पक्षः बहुवर्षं यावत् स्थितवान् । तेन लखनऊ प्रापणे आरक्षितस्य रेलयानस्य नाम स्पेश्यल कोङ्ग्रेस इति प्रदत्तम् । अन्ये केचन होम् रूल् स्पेश्यल इति अददात् । अरूडेल् इत्यनेन उक्तमासीत् यद् – “सः लखनऊ अधिवेशनस्य सदस्यः भवितुं यथाशक्तिप्रयत्नं करिष्यतीति” ।

कोङ्ग्रेसलीग समझौता

सम्पादयतु

लखनऊ प्रान्तस्य कोङ्ग्रेस-पक्षस्य अधिवेशने तिलकेन पुनः पक्षजनाः सम्मिलिताः । अध्यक्षेन अम्बिकाचरण मजूमदार इत्यनेन उक्तम् – १० वर्षेभ्यः अज्ञानविवादाभ्याम् अनुचितकारणाभ्याम् उभावपि पक्षौ ज्ञातवन्तौ यद् कलहेन पराजयः एकतयैव विजयः इति । अतः भ्रातरौ पुनर्मिलितौ । अधिवेशनेऽस्मिन् कोङ्ग्रेस-लीग् समाधानम् जातम् यद्–“ लखनऊ ऐक्ट ” इति नाम्ना प्रसिद्धम् । अधिवेशने एनी बेसन्ट् इत्यनया, तिलकेन च महत्वपूर्णम् योगदानं प्रदत्तम् । मदन मोहन मालवीयादयाः वरिष्ठनेतारः अस्य विरोधिनः आसन् । मुस्लिम् लीग् इत्यस्यै बहु महत्वप्रदाने तेषां विरोधः आसीत् । अतः अस्योत्तरे भारतीयराष्ट्रीयभावनायाः प्रतिनिधित्वेन - ’यदि स्वशासनाधिकारः केवलमुस्लिम्-समाजाय, राजदूतेभ्यः, वा यस्मै कस्मै अपि समाजाय दद्यात् तत्र मम विरोधः नास्ति, इदानीं स्वशसनाधिकारः एव ळक्ष्यम् इति तिलकः अवदत् । इदानीम् ब्रीटिश्-सर्वकारस्य विरोधे पारस्परिकी एकतायाः, जातीयएकतायाः ,विभिन्ननां राजनैतिकविचारकाराणां एकतायाः अपि आवश्यकता अस्ति । मुस्लिम-जनानाम् कृते भिन्ननिर्वाचनस्य सिद्धान्तस्य स्वीकारः विवादास्पदः आसीत् । तथापि तेषां मनस्सु बहुसङ्ख्यकाः अल्पसङ्ख्यकानामुपरि प्रभुत्वम् स्थापयन्ति इति चिन्तनम् न स्यादतः मुस्लिम् लीग् इत्यस्यै महत्वं दत्त्वा एकताम् अस्थापयत् । तिलकं जनाः रूढिवादिहिन्दू अमन्यत । सः भारतीय प्राचीनविद्यायाः प्रकाण्ड विद्वान् आसीदतः एतादृशि कथने सत्यपि अन्येषां विरोधकर्तुं बलं नासीत् ।

स्वशासनलक्ष्य संवैधानिक परिमार्जनस्य याचनम्

सम्पादयतु

सदस्यानां मन्तव्येन लखनऊ इत्यस्य अधिवेशने संवैधानिकपरिमार्जनस्य पुनर्याचनम् कृतम् । तद् स्वशासनलक्ष्यप्राप्तौ साहाय्यकरम् आसीत् । एतस्यां याचनायां होम् रूल् लीग् इत्यस्य सदस्यानां सर्वमैच्छिकं नासीत् । तथापि कोङ्ग्रेस-पक्षस्यैकतायै विवादम् न कृतवन्तः । ते यया कयाऽपि रीत्या पक्षैकतां वाच्छन्ति । तिलकेन तु कोङ्ग्रेस-अधिवेशन निर्णितानां कार्यक्रमाणाम् परिष्काराय एकं कार्यकारि-संङ्घटनम् निर्मातुं प्रस्तावः स्थापितः । किन्तु मृदुमार्गिणां विरोधवशात् सर्वकारेण तद् प्रस्तावः तिरस्कृतः। वास्तविकरूपेण कोङ्ग्रेस-पक्षः अकर्मण्य मा भूत् , कार्यं कुर्यादिति तिलकः वाच्छति स्म । तुरीय वर्षान्ते १९२० तमे वर्षे महात्मागान्धी-इत्यनेन कोङ्ग्रेसपक्षस्य संविधानम् संशोध्य तादृक् रूपम् प्रदत्तं यद् कमपि आन्दोलनम् अधिकवर्षाणि यावत् चालयितुम् आवश्यकम् । विषयेऽस्मिन् तिलकप्रस्तावः मानीतुं योग्यः आसीदिति स्वीकृतम् ।

सर्वकारी दमनम् (सरकारी दमन)

सम्पादयतु

होम् रूल् आन्दोलनस्य प्रभावं वर्धितं दृष्ट्वा सर्वकारस्य चिन्तितवृत्तिः स्वाभाविकीन आसीत् । एवं मद्रासप्रान्तस्य सर्वकारः अधिकवक्रतां दर्शयन् छात्राणां राजनैतिकसंङ्घटने प्रतिबन्धम् अघोषयत् । अतः सम्पूर्णप्रदेशे अस्य विरोधः जातः । एवं तथर्थं तिलकेनापि उक्तम् यद् – “युवावर्गस्य शक्तिप्रदर्शनेन वा देशप्रेमभावनया युवानः उत्तेजिताः भवन्ति, अतः सर्वकारः अबिभत्, प्रतिबन्धम् च अकरोत् । पुनः मद्रास-सर्वकारेण १९१७ तमे वर्षे जूनमासे एनी बेसन्ट्, जार्ज, अरुडेल एवं वी.पी.वाडिया- इत्येते कारागारं प्रेषिताः। येन मद्रास-सर्वकारं प्रति देशव्यापी प्रदर्शनं जातम् ।

बेसन्ट् आदीनां कारावासेन अन्ये अपि आन्दोलने सम्मिलिताः

सम्पादयतु

बेसन्ट् आदीनां कारावासेन सर सुब्रमण्यम अय्यर इत्यनेन सर्वकारीय उपाधेः अस्वीकारः कृतः। मदन मोहन मालवीय इत्ययं, सुरेन्द्रनाथ बनर्जी-इत्युभ्यां सह महम्मदली जिन्ना सदृशः मृदुपाक्षिनेता ” होम् रुल् आन्दोलनम् सम्मिल्य एनी बेसन्ट् इत्यादिनां कारागार पूरणस्य विरोधम् अकरोत् । १९१७ तमे वर्षे जुलाई मासस्य २६ तमे दिनाङ्के कोङ्ग्रेस-पक्षस्य उपक्रमे एतेषां मुक्तिः न स्याच्चेत् शान्तिपूर्णं असहयोग-आन्दोलनं चालयितुं प्रान्तीय-कोङ्ग्रेस-पक्षयस्य अनुमत्यै अपृच्छत् । बरारमद्रासयोः पक्षाः अस्योपरि झटिति कार्यावाही भवेदिति इच्छन्ति स्म । किन्तु अन्यप्रान्तीयानां प्रतीक्षा कर्तुम् इच्छा आसीत् । महात्मनः कथनेन “शङ्करलाल बेकर” एवं जमनादास द्वारकाप्रसाद इत्येतौ द्विसहस्रजनानां हस्ताक्षराणि सङ्गृह्य सर्वकारविरोधिनी यात्रां कृत्वा एनी बेसन्ट् इत्यस्यै मिलितुम् इच्छुकौ स्तः । एताभ्यां स्वराजसमर्थने कृषिकानां हस्ताक्षराणां रक्षणम् आरब्धम् । एवं तदर्थं तौ गुर्जरप्रान्तस्य प्रत्येकनगरेषु प्रत्येकग्रामेषु गत्वा लीग् इत्यस्य शाखास्थापने साहाय्यम् कृतवन्तौ । इत्थं सर्वकारदमनेन आन्दोलने प्रगतिः अभवत् । एवं आन्दोलनकर्तारः उग्राः अभूवन् । अनया घटनया इङ्ग्लेण्ड-देशस्य सर्वकारेण स्वनीतौ परिवर्तनमानीतम् । ते समाधानवादिनः अभूवन् ।

माण्डेग्यू इत्यस्य ऐतिहासिकी घोषणा

सम्पादयतु

घटनाम् अनुलक्ष्य नूतनगृहसचिवेन “माण्डेग्यू” इत्यनेन हाऊस ऑफ कोमन्स इत्यस्मिन् ऐतिहासिकी घोषणा कृता ।“ब्रिटिश् शासनस्य नीत्यनुसारं भारतप्रशासने भारतीयजनतायाः संयोगः भवेत्, स्वशासनाय विभिन्नसंस्थानां क्रमिकः विकासः भवेत्, येन ब्रिटीश्-साम्राज्य-संलग्ना उत्तरदायिनी सर्वकारः भवेदिति । कथनमिदं होम् रुल् आन्दोलनस्य याचनां देशद्रोहिणी नासीदिति असमर्थयत् । किन्तु तस्यार्थः इत्थमपिनासीद् यद् सर्वकारः स्वशासनस्थापनां स्व्यकरोत् । माण्डेग्यू इत्यस्य घोषणायां स्वशासनस्थापना तदैव भविष्यति यदा तस्य उचितावसरः आगच्छेदेवं समयः आगतः वा न इति सर्वकारेण निश्चीयते । ब्रिटीश्-सर्वकाराय एतदवकाशः अलमासीत् । एतेन स्पष्टमासीद्यद् निकटवर्तिने भविष्ये सत्ता भारतीयानां हस्ते न आगमिष्यति इति ।

बेसन्ट् इत्यस्याः अध्यक्षरूपेण चयनम्

सम्पादयतु

तदानीं माण्डेग्यू घोषणया १९१७ वर्षस्य सप्टेम्बर-मासे एनी बेसन्ट् इत्यस्याः मुक्तिः जाता, तस्याः लोकप्रियता चरमसीमां च प्राप्ता । अतः दिसम्बर-मासे १९१७ तमे वर्षे तिलकस्य कथनेन सा अध्यक्षरूपेण चिता । किन्तु १९१८ तमे वर्षे होम् रुल् आन्दोलनम् शिथिलम् जातम् । एनी बेसन्ट् इत्यस्याः कारावासेन ये मृदुपाक्षिकाः मिलिताः तेऽपि निष्क्रियाः अभूवन् । सर्वकारेण परिवर्तनस्य आश्वासनं प्रदत्तम् । नेतारः आन्दोलनस्य आवश्यकतां नानुभवन्ति स्म । इतः परं व्यवस्थाविरोधी आन्दोलनचर्चयाऽपि रुष्टाः आसीत् । अतः एनी बेसन्ट् १९१८ वर्षस्य सप्टेम्बर-मासान्ते कोङ्ग्रेसपक्षस्य संङ्घटनम् अत्यजत् । सङ्घटने केचनपक्षनष्टारः, केचन पक्षविरोधिनः, केचन पक्षस्यदोषान् दृष्ट्वा कार्यवाहीकर्तुं च ऐच्छन् । इत्थम् एतादृक् त्रिप्रकारकानां जनानां कारणात् राष्ट्रव्यापी संङ्घनं न्यूनं वा मृतप्रायः जातम् । एतावतैः परिष्कारैः शान्तिप्रिय असहयोग आन्दोलनेन श्रीमती एनी बेसन्ट् नामापि दुविधायाम् आसीत् ।

तिलकस्य इङ्ग्लैन्ड गमनम्

सम्पादयतु

ततः परं एनी बेसन्ट् इत्यस्याः शिथिलां नीतिं दृष्ट्वा तिलकः स्वरीत्या परिष्कारविरोधम् कृत्वा आन्दोलनयानम् वोढुं असमर्थः सन् वर्षान्ते इङ्ग्लैन्ड-देशम् अगच्छत् । तत्र तेन “इण्डियन अनरेस्ट” इत्यस्य लेखक चिराव इत्यस्य उपरि मानहानि अभियोगः स्थापितः आसीत् । तस्य अभियोगस्य कारणात् मासान् यावत् इङ्ग्लैण्ड-देशं न्यवसत् । उभयोः व्यस्ततायाः कारणात् होम् रुल् आन्दोलनम् नेतृत्वविहीनम् जातम् ।

आन्दोलनस्य उपलब्धिः

सम्पादयतु

आन्दोलनस्य नेतृत्वविहीने सत्यपि आन्दोलनस्य उपलब्धिरूपाः भाविराष्ट्रिय आन्दोलनस्य सुरवीरयोद्धारः सज्जीकृताः । महात्मनः नेतृत्वे एते स्वतन्त्रतायाः अग्निं गृहित्वा अग्रे गताः । होम् रुल् आन्दोलनेन स्वशक्त्याः उत्तरप्रदेश, गुजरात, सिन्ध, मद्रास, मध्यप्रान्तः, बरार इत्यादयः क्षेत्राः राष्ट्रीयआन्दोलने योजिताः । इत्थम् होम् रुल् आन्दोलनं व्यर्थं न जातम् अपि तु भारतीयस्वतन्त्रता-सङ्ग्रामाय प्रभावम् सञ्चार्य, निद्रायमाणान् भारतीयान् च प्रबोध्य राष्ट्रीयआन्दोलनेन परिष्कारयोजनायै ब्रिटिश्-सर्वकारं विवशमकरोत् ।

"https://sa.wikipedia.org/w/index.php?title=होमरुल_आन्दोलनम्&oldid=370534" इत्यस्माद् प्रतिप्राप्तम्