शुचौ देशे प्रतिष्ठाप्य...

भगवद्गीतायाः श्लोकः ९.११
(६.११ शुचौ देशे प्रतिं... इत्यस्मात् पुनर्निर्दिष्टम्)
 
गीतोपदेशः
शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः ।
नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥ ११ ॥

अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य एकादशः(११) श्लोकः ।

पदच्छेदः

सम्पादयतु

शुचौ देशे प्रतिष्ठाप्य स्थिरम् आसनम् आत्मनः नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥

अग्रिमश्लोकः ६.१२ तत्रैकाग्रं मनः... द्रष्टव्यः ।

शब्दार्थः

सम्पादयतु

अग्रिमश्लोकः ६.१२ तत्रैकाग्रं मनः... द्रष्टव्यः ।

अग्रिमश्लोकः ६.१२ तत्रैकाग्रं मनः... द्रष्टव्यः ।

शाङ्करभाष्यम्

सम्पादयतु

अथेदानीं योगं युञ्जत आसनाहारविहारादीनां योगसाधनत्वेन नियमो वक्तव्यः। प्राप्तयोगस्य लक्षणं तत्फलादि चेत्यत आरभ्यते। तत्रासनमेव तावत्प्रथममुच्यते-शुचाविति।शुचौ शुद्धे विविक्ते स्वभावतः संस्कारतो वा देशे स्थाने प्रतिष्ठाप्य स्थिरमचलमात्मन आसनं नात्युच्छ्रितं नातीवोच्छ्रितं नाप्यतिनीचं तच्च चैलमजिनं कुशाश्चोत्तरेयस्मिन्नासने तदासनं चैलाजिनकुशोत्तरम्। पाठक्रमाद्विपरीतोऽत्र क्रमश्चैलादीनाम् ।।11।।

बाह्यसम्पर्कतन्तुः

सम्पादयतु

सम्बद्धाः लेखाः

सम्पादयतु