समं कायशिरोग्रीवं...

भगवद्गीतायाः श्लोकः ९.१३
(६.१३ समं कायशिरोग्री... इत्यस्मात् पुनर्निर्दिष्टम्)

श्लोकः सम्पादयतु

 
गीतोपदेशः
समं कायशिरोग्रीवं धारयन्नचलं स्थिरः ।
सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥ १३ ॥

अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य त्रयोदशः(१३) श्लोकः ।

पदच्छेदः सम्पादयतु

समं कायशिरोग्रीवं धारयन् अचलं स्थिरः सम्प्रेक्ष्य नासिकाग्रं स्वं दिशः च अनवलोकयन् ॥

अन्वयः सम्पादयतु

अग्रिमश्लोकः :६.१४ प्रशान्तात्मा विगत... द्रष्टव्यः ।

शब्दार्थः सम्पादयतु

अग्रिमश्लोकः :६.१४ प्रशान्तात्मा विगत... द्रष्टव्यः ।

अर्थः सम्पादयतु

अग्रिमश्लोकः :६.१४ प्रशान्तात्मा विगत... द्रष्टव्यः ।

शाङ्करभाष्यम् सम्पादयतु

बाह्यसाधनमासनमुक्तमधुना शरीरधारणं कथमित्युच्यते-सममिति। समं कायशिरोग्रीवं कायश्च शिरश्च ग्रीवा चकायशिरोग्रीवं तत्समं धारयन्नचलं च। समं धारयतश्चलनं संभवत्यतो विशिनष्टि अचलमिति। स्थिरः स्थिरो भूत्वेत्यर्थः। स्वं नासिकाग्रसंप्रेक्षणमिह विधित्सितं किंोतर्हि चक्षुषोर्दृष्टिसंनिपातः। स चान्तःकरणसमाधानापेक्षो विवक्षितः। स्वनासिकाग्रसंप्रेक्षणमेव चेद्विवक्षितं मनस्तत्रैव समाधीयेत नात्मनि। आत्मनि हि मनसःंसमाधानां वक्ष्यत्यात्मसंस्थं मनः कृत्वेति। तस्मादिवशब्दलोपेनाक्ष्णोर्दृष्टिसंनिपात एव संप्रेक्ष्येत्युच्यते। द्शश्चानवलोकयन्दिशां चावलोकनमन्तराऽकुर्वन्नित्येतत् ।।13।।

बाह्यसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=समं_कायशिरोग्रीवं...&oldid=482172" इत्यस्माद् प्रतिप्राप्तम्