एतय्यैव सविचारा निर्विचारा च (योगसूत्रम्)
सूत्रसारः
सम्पादयतुव्यासभाष्यम्
सम्पादयतुतत्र भूतसूक्ष्मकेषु अभिव्यक्तधर्मकेषु देशकालनिमित्तानुभवाअच्छिन्नेषु या समापत्तिः सा सविचारेत्युच्यते । तत्राप्येकबुद्धिनिर्ग्राह्यमेवोदितधर्मविशिष्टं भूतसूक्ष्ममालम्बनीभूतं समाधिप्रज्ञायामुपतिष्ठते । या पुनः सर्वथा सर्वतःशान्तोदिताव्यपदेश्यधर्मानवच्छिन्नेषु सर्वधर्मानुपातिषु सर्वधर्मात्मकेषु समापत्तिः सा निर्विचारेत्युच्यते । एवं स्वरूपंहि तद्भूतसूक्ष्ममेतेनैव स्वरूपेणालम्बननीभूतमेव समाधिप्रज्ञास्वरूपमुपरञ्जयति । प्रज्ञा च स्वरूपशून्येवार्थमात्रा यदा भवति तदा निर्विचारेत्युच्यते । तत्र महद्वस्तुविषया सवितर्का च । सूक्ष्मवस्तुविषया सविचारा निर्विचारा च । ऐवमुभयोरेतयैव निर्वितर्कया विकल्पहानिर्व्याख्यातेति ॥४४॥
सम्बद्धाः लेखाः
सम्पादयतुबाह्यसम्पर्कतन्तुः
सम्पादयतुविकिस्रोतसि एतय्यैव सविचारा निर्विचारा च (योगसूत्रम्)-सम्बन्द्धाः बहवः मूलग्रन्थाः विद्यन्ते । |
उद्धरणम्
सम्पादयतुअधिकवाचनाय
सम्पादयतुआङ्ग्लानुवादेन सह योगसूत्रम् Archived २०१६-०३-०४ at the Wayback Machine
स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः Archived २०१४-०७-०७ at the Wayback Machine