2.31 जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम्
सूत्रसारः सम्पादयतु
व्यासभाष्यम् सम्पादयतु
ते तु— तत्राहिंसा जात्यवच्छिन्ना मत्स्यबन्धकस्य मत्स्येष्वेव नान्यत्र हिंसा । सैव देशावच्छिन्ना न तीर्थे हनिष्यामीति । सैव कालावच्छिन्ना न चतुर्दश्यां, न पुण्येऽहनि हनिष्यामीति । सैव त्रिभिरुपरतस्य समयावच्छिन्ना देवब्राह्मणार्थे नान्यथा हनिष्यामीति । यथा च क्षत्रियाणां युद्ध एव हिंसा नान्यत्रेति । एभिर्जातिदेशकालसमयैरनवच्छिन्ना अहिंसादयः सर्वथैव परिपालनीयाः । सर्वभूमिषु सर्वविषयेषु सर्वथैवाविदितव्यभिचाराः सार्वभौमा महाव्रतमित्युच्यते ॥३१॥
सम्बद्धाः लेखाः सम्पादयतु
बाह्यसम्पर्कतन्तुः सम्पादयतु
विकिस्रोतसि 2.31 जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम्-सम्बन्द्धाः बहवः मूलग्रन्थाः विद्यन्ते । |
उद्धरणम् सम्पादयतु
अधिकवाचनाय सम्पादयतु
आङ्ग्लानुवादेन सह योगसूत्रम् Archived २०१६-०३-०४ at the Wayback Machine
स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः Archived २०१४-०७-०७ at the Wayback Machine