4.23 द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम्
सूत्रसारः
सम्पादयतुव्यासभाष्यम्
सम्पादयतुअतश्चैतदभ्युपगम्यते— मनो हि मन्तव्येनार्थेनोपरक्तम् । तत्स्वयं च विषयत्वाद्विषयिणा पुरुषेणात्मीयया वृत्त्याभिसम्बद्धम् । तदेतच्चित्तमेव द्रष्टृदृश्योपरक्तं विषयविषयिनिर्भासं चेतनाचेतनस्वरूपापन्नम्, विषयात्मकमप्यविषयात्मकमिवाचेतनं चेतनमिव स्फटिकमणिकल्पं सर्वार्थमित्युच्यते । तदनेन चित्तसारूप्येण भ्रान्ताः केचित्तदेव चेतनमित्याहुः । अपरे चित्तमात्रमेवेदं सर्वं नास्ति खल्वयं गवादिर्घटादिश्च सकारुणो लोक इति । अनुकम्पनीयास्ते । कस्मात्? अस्ति हि तेषां भ्रान्तिबीजं सर्वरूपाकारनिर्भासं चित्तमिति । समाधिप्रज्ञायां प्रज्ञेयोऽर्थः प्रतिबिम्बीभूतस्तस्यालम्बनीभूतत्वादन्यः । स चेदर्थश्चित्तमात्रं स्यात्कथं प्रज्ञयैव प्रज्ञारूपमवधार्येत । तस्मात्प्रतिबिम्बीभूतोऽर्थः प्रज्ञायां येनावधार्यते स पुरुष इति । एवं ग्रहीतृग्रहणग्राह्यस्वरूपचित्तभेदात्त्रयमप्येतज्जातितः प्रविभजन्ते ते सम्यग्दर्शिनस्तैरधिगतः पुरुष इति ॥२३॥
सम्बद्धाः लेखाः
सम्पादयतुबाह्यसम्पर्कतन्तुः
सम्पादयतुविकिस्रोतसि 4.23 द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम्-सम्बन्द्धाः बहवः मूलग्रन्थाः विद्यन्ते । |
उद्धरणम्
सम्पादयतुअधिकवाचनाय
सम्पादयतुआङ्ग्लानुवादेन सह योगसूत्रम् Archived २०१६-०३-०४ at the Wayback Machine
स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः Archived २०१४-०७-०७ at the Wayback Machine
- Yoga system of Patañjali (including commentaries Yoga-bhāshya by Vyasa and, Tattva-vāicāradī by Vāchaspati-Miçra), translated by James Haughton Woods, at books.google.com
- The Yoga Aphorisms of Patañjali (including commentary by Bhoja Raja), translated by Rajendralala Mitra, at books.google.com
- Patañjali - Yoga-Sutra: A word by word translation with gramma and comment Archived २०१२-०२-०२ at the Wayback Machine
- The Yoga Sutras of Patañjali, translation by BonGiovanni, at sacred-texts.com
- The Yoga Sutras of Patañjali: the Book of the Spiritual Man by Patañjali, an interpretation by Charles Johnston, at Project Gutenberg
- Yoga sutra and related yoga texts, at sanskritdocuments.org
- Audio lectures on Yoga Sutras, by Swami Harshananda, at archive.org
- Yoga Sutras Online Program by A. G. Mohan