चण्डीगढ़
चण्डीगढ (हिन्दी: चण्डीगढ़; पञ्जाबी: ਚੰਡੀਗੜ੍ਹ; आङ्ग्ल: Chandigarh) केन्द्रात् नियन्त्रितप्रदेशेषु अन्यतमम् अस्ति, मण्डलं नगरं च अस्ति । एतद् नगरं पञ्जाब-हरियाणाराज्ययोः राजधानी अस्ति । अस्मिन् प्रदेशे मोहाली इत्यत्र विद्यमानं क्रिकेट् क्रीडाङ्गणं बहु प्रसिद्धम् अस्ति । चण्डीगढनगरं (Unique City) सुन्दरनगरं, सुयोजितनगरम् इत्यादिनामभिः प्रसिद्धमस्ति । नगरनिर्माणस्य उत्तमेतिहासः अस्ति । भारतपाकिस्तानयोः विभाजनसमये लाहोरनगरं पाकिस्तानदेशे योजितम् अभवत् । तदा उत्तमनगरं निर्माय पञ्जाबप्रान्ते राजधानीनिर्माणाय चिन्तनम् आरब्धम् । एवं नगरनिर्माणं भारतसर्वकारेण चिन्तितम् अभवत् । प्रथमः प्रधानमन्त्री श्री जवाहरलालनेहरुः क्रिस्ताब्दे १९५३ तमे वर्षे नगरस्य निर्माणम् आरब्धवान् । क्रिस्ताब्दे १९६६ तमे वर्षे हरियाणा राज्यस्य उदयः अभवत् । अस्यापि राजधानी आवश्यकी आसीत् । एवम् उभययोः राज्ययोः एकस्मिन् नगरे राजधानीकार्याणि’ प्रचलन्ति । उभयोः एकः एव उच्चन्यायालयः स्थापितः अभवत् । प्रथमः प्रधानमन्त्री श्री जवाहरलालनेहरुः क्रिस्ताब्दे १९५३ तमे वर्षे नगरस्य निर्माणम् आरब्धवान् । क्रिस्ताब्दे १९६६ तमे वर्षे हरियाणा राज्यस्य उदयः अभवत् । अस्यापि राजधानी आवश्यकी आसीत् । एवम् उभययोः राज्ययोः एकस्मिन् नगरे राजधानीकार्याणि’ प्रचलन्ति । नगरनिर्माता अभियन्ता वास्तुशिल्पी कार्बुसियर् नगरयोजनां कृतवान् । तदा तदा उत्तमाः सूचनाः दत्तवान् । एतेन अद्यापि नगरयोजना निर्मातारः, नगराभ्यासिजनाः नूतनवास्तुशिल्पकालां ज्ञातुम् इच्छुकाः अत्र आगत्य अध्ययनं कुर्वन्ति । मरुभूमौ पुष्पं कथं विकासितम् इति ज्ञातुं कुतूहलेन वास्तुतन्त्रज्ञाः अत्र आगच्छन्ति ।
चण्डीगढ चण्डीगढ़ ਚੰਡੀਗੜ੍ਹ Chandigarh | ||
---|---|---|
विधानसभाप्रासादः | ||
| ||
Nickname(s): सौन्दर्यस्य नगरम् | ||
भारतदेशे चण्डीगढनगरस्य स्थानं | ||
Coordinates: ३०°४५′उत्तरदिक् ७६°४७′पूर्वदिक् / 30.75°उत्तरदिक् 76.78°पूर्वदिक्निर्देशाङ्कः : ३०°४५′उत्तरदिक् ७६°४७′पूर्वदिक् / 30.75°उत्तरदिक् 76.78°पूर्वदिक् | ||
देशः | भारतम् | |
केन्द्रशासितप्रदेशस्य निर्माणम् | १ नवम्बर् १९६६ | |
Government | ||
• Type |
केन्द्रशासितप्रदेशः नगरनिगमः | |
• Body | चण्डीगढ नगरनिगमः | |
• प्रशासकः | बनवारीलाल पुरोहितः | |
• लोकसभा सांसद | किरण खेर (भाजप) | |
• प्रशासकस्य मन्त्रदाता | मनोज परिदा, आईएएस | |
• महापौरः | सर्ब्जीत कौर (भाजप) | |
Area | ||
• केन्द्रशासितप्रदेशः | ११४ km२ | |
Area rank | ३५वां भारतदेशे | |
Elevation | ३२१ m | |
Population (२०११)[१] | ||
• केन्द्रशासितप्रदेशः | १०,५५,४५० | |
• Rank | ३१ | |
• Density | ९,२६२/km२ | |
• Metro | १०,२५,६८२ (५१तमं भारतदेशे) | |
Demonym(s) | चण्डीगढीय | |
भाषाः | ||
• आधिकारिक | आङ्ग्ल | |
• भाषित | हिन्दी, पञ्जाबी | |
Time zone | UTC+५:३० (भा॰मा॰स॰) | |
डाकसूचकाङ्कसङ्ख्या |
160xxx | |
दूरभाषसङ्केतः | +91—172 | |
ISO 3166 code | IN-CH | |
Vehicle registration | CH-01 (वर्तमान), CH-02 (वाणिज्यिकवाहनं भाटकयानं च), PB-01 (चण्डीगढ प्रति भाटकयानम्) | |
साक्षरतामानम् | ८६.७७% | |
मानवसंसाधनसूचिः (२०१८) | ०.७७६ (उच्च) · द्वितीय | |
Website | chandigarh.gov.in |
निर्माणवैशिष्ट्यम्
सम्पादयतुचण्डीगढनगरं ग्रिड् स्टैल् सेक्टर् रीत्या निर्मितम् अस्ति । अत्रत्याः हरितपट्टिकाः अत्याधुनिकाः नवनवीनाः च । अस्य नगरस्य विस्तारः ११४ चतुरस्र कि.मीटरमितः अस्ति । मुख्यतया त्रीणि उपनगराणि, २७ ग्रामाः च अस्मिन् नगरे अन्तर्भवन्ति । वायव्ये शिवालिक् पर्वतावली अस्ति । नगराय पेयजलयोजनाय सुखान् सरोवरस्य निर्माणं कृतम् अस्ति । भारते निर्मितेषु कृतकजलाशयेषु एषः जलाशयः अपि अन्यतमः अस्ति ।
चण्डीगढनगरस्य उद्यानानि
सम्पादयतुचण्डीगढनगररचनायां फलपुष्पविभागस्य महत्वपूर्णं योगदानम् अस्ति ।फलपुष्पानां विषये आसक्तिमतां चण्डीगडनगरं नन्दनवनमिव अस्ति । आलङ्कारिकसस्यानाम् आलङ्कारिकपुष्पाणां च वस्तुसङ्ग्रहालयः इति एतत् नगरं वदन्ति । सप्तविभागेषु व्याप्तम् एतत् उद्यानम् उत्तरभारते अन्यत्र कुत्रापि द्रष्टुं न शक्यते । उद्यानेषु डा झकिर हुसैन रोजगार्डन्, शान्तिकुञ्ज इत्यादीनि निर्मितानि सन्ति । प्राणिनां विविधाः आकृतयः, तन्त्रिभिः निर्मिताः प्राणिरचनाः टोपिनीनामके वाटिकाप्रदेशे सन्ति । म्याङ्गोगार्डन् उत्तमं प्रेक्षणीयस्थलमस्ति । पार्श्वे राक् गार्डन् म्यूसियं नामकः कलासङ्ग्रहालयः अस्ति । सोमवासरे प्रवेशः नास्ति । जवाहरलालनेहरुः चण्डीगडनगरं प्राचीनवैभवदर्शकं भविष्यकालीनं विश्वासपात्रं नवीनमनगरम् इति वर्णितवान् अस्ति । इदानीम् एतत् प्रमुखनगरमिति विश्वे घोषितम् अस्ति ।
राकगार्डन्
सम्पादयतुनिष्प्रयोजकवस्तुभिः निर्मितं विस्मयजगत् इति कथ्यते । नगरप्रदेशे यानि निष्प्रयोजकानि वस्तूनि लभ्यन्ते तानि सङ्गृह्य अस्मिन् उद्याने उत्तमकलाकृतयः निर्मिताः सन्ति । नेकचन्दनामकः एतत् विस्मयकारि कार्यं कृतवान् ‘Nek Chand’s Kingdom’ इति एतत् उद्यानं प्रसिद्धम् अस्ति ।न केवलं भारते अपि तु विश्वेऽपि एतादृशम् उद्यानम् अन्यत् नास्ति । भाग्नानि कङ्कणानि , मृदानिर्मितपात्राणां भागाः, नलिकानां भागाः , विद्युत् तन्त्र्यः, विविधशिलाखण्डाः अत्र सुन्दाकलाकृतिरुपं प्राप्तवन्तः सन्ति । नेकचन्दः एकः एव एतां अद्भुतवाटिकां निर्मितवान् अस्ति । क्रिस्ताब्दे १९५० तमे वर्षे नेकचन्दमहोदयः सामान्यः मार्गकार्यनिरीक्षकः आसीत् । बहु अध्ययनमपि न कृतवान् आसीत् । सर्वैः त्यक्तानि त्याज्यवस्तूनि अवेक्ष्य एतानि उपयुज्य किमपि कर्तुं शक्यते वा इति नेकचन्दमहोदयः चिन्तितवान् । अष्टादशवर्षाणि यावत् कार्यं कृत्वा राक् गार्डन् निर्माण कृतवान् । क्रिस्ताब्दे १९७६ तमे वर्षे एतत् कार्यं समाप्तम् अभवत् । महानगरे त्याज्यानि वस्तूनि बहूनि भवन्ति । एतेषां बहिः नयनमपि समस्या अस्ति । भवननिर्माणभागाः, अयसा निर्मितानि आसनानि गृहोपयोगिवस्तूनि शिलाखण्डाः कूप्यः इत्यादयः एकस्योपरि अन्यं योजयित्वा अपूर्ववस्तूनि निर्मितवान् अस्ति । तेन इदम् उद्यानं विश्वविख्यातमस्ति । अस्मिन् उद्याने कृतकपर्वताः, गुहाः, गुहायाः उपरि गृहगोधिकाः, एवं शतशः दर्शनीयानि चित्राणि, वस्तूनि, स्थानानि, च निर्मितानि सन्ति । अस्य विस्तारः दश हेक्टरपरिमितः अस्ति ।
विमानमार्गः
सम्पादयतुदेहलीतः विमानसम्पर्कः अस्ति ।
धूमशकटमार्गः
सम्पादयतुदेहली-चण्डीगड अन्तरं २५४ कि.मी अस्ति । देशस्य विविधभागेभ्यः उत्तमवाहनसम्पर्कः अस्ति ।
वाहनमार्गः
सम्पादयतुप्रति-अर्धाघण्टम् एकं वाहनं देहलीतः अस्ति । शिम्ला,मनाली, धर्मशाला नगरेभ्यः अपि वाहनसम्पर्कः अस्ति । वसत्याः कृते अनेकाः धर्मशालाः उपाहारवसतिगृहाणि सन्ति । यात्रिनिवासः, चरणरामधर्मशाला इत्यादयः प्रमुखाः ।
चित्रशाला
सम्पादयतु-
प्रवेशद्वारम्
-
स्थापनादिनस्य स्मारकम्
-
राक् गार्डन्
-
शिलोद्याने नृत्यन्त्यः बालिकाः
-
अलङ्कृता भित्तिः
सम्बद्धाः लेखाः
सम्पादयतुसन्दर्भाः
सम्पादयतु- ↑ "Chandigarh (India): Union Territory & Agglomeration – Population Statistics in Maps and Charts". Archived from the original on ९ अप्रैल २०१७. आह्रियत ६ जुलाई २०१९.