कन्नडभाषा
भारतदेशस्य दक्षिणराज्येषु अन्यतमम् अस्ति कर्णाटकम् । कर्णाटकस्य प्रादेशिकभाषायाः नाम कन्नड(Kannada) इति । प्राचीनतमासु द्राविडभाषासु (दाक्षिणात्यभाषासु) अन्यतमा कन्नडभाषा स्वस्य विविधैः रूपैः ५०दशलक्षजनैः भाष्यते । भारतदेशस्य अधिकृतासु २३भाषासु इयम् अन्यतमा अस्ति । अपि च कर्णाटकराज्यसर्वकारस्य व्यावहारिकी भाषा अस्ति । सर्वसधारणं 1५०० वर्षेभ्यः कन्नडं सम्भाषणभाषारूपेण प्रचलिता अस्ति । कन्नडभाषायाः लिपिः लेखनपद्धतिः च 1५०० वर्षेभ्यः पूर्वम् एव आसीदिति शोधकानाम् अभिप्रायः । अस्याः भाषायाः प्राथमिकं संवर्धनं तु अन्यद्राविडीयाः (दाक्षिणात्यम्) भाषाभिवृद्धेः सादृश्यम् अस्ति । तदनन्तरस्य भाषाभिवृद्धौ संस्कृतस्य प्राकृतस्य मराठेः पारस्याः च प्रभावः दृश्यते ।
Kannada | ||||||
---|---|---|---|---|---|---|
ಕನ್ನಡ kannaḍa | ||||||
A bilingual signboard in Kannada and English | ||||||
विस्तारः | Karnataka, Kasaragod, Kerala, Maharashtra, significant communities in USA, Australia, Singapore,[१] UK, Mauritius,[२] United Arab Emirates.[३] | |||||
प्रदेशः | Karnataka, Kerala, Maharashtra, Goa, Andhra Pradesh and Tamil Nadu. | |||||
Ethnicity | Kannadiga | |||||
स्थानीय वक्तारः | ||||||
भाषाकुटुम्बः |
Dravidian
| |||||
आधिकारिकस्थितिः | ||||||
व्यावहारिकभाषा | (Karnataka) | |||||
नियन्त्रणम् | Various academies and the Government of Karnataka[४] | |||||
भाषा कोड् | ||||||
ISO 639-1 | kn | |||||
ISO 639-2 | kan | |||||
ISO 639-3 | kan | |||||
Distribution of native Kannada speakers in India[५] | ||||||
|
परिचयः
सम्पादयतुकन्नडभाषायां संस्कृतभाषायां यथा तथा सप्त विभक्तयः सन्ति चेदपि प्रथमविभक्तेः पञ्चमविभक्तेः च उपयोगः अतिविरलः । अस्यां भाषायां विभक्तिप्रत्ययं नामपदस्यान्ते प्रत्ययरूपेण योजयन्ति । संस्कृतस्य कारकविभक्त्याः उपयोगः कन्नडस्य विभक्तिप्रयोगावसरः विभिन्नः भवति । ग्रामं गतः इति संस्कृतवाक्ये 'ग्राम'पदस्य द्वितीया विभक्तिः भवति । कन्नडभाषायाम् अस्मिन् एव अर्थे चतुर्थी विभक्तिः प्रयुज्यते । पुँल्लिङ्गं स्त्रीलिङ्गं नपुंसकलिङ्गम् इति कन्नडे लिङ्गत्रयम् अस्ति संस्कृते यथा तथा । किन्तु लिङ्गनिर्धारः संस्कृतभाषायां यथा क्रियते तथा न । मूले कन्नडे लिङ्गचतुष्टयं भवति । पुँल्लिङ्गं स्त्रीलिङ्गं मानुषम् अमानुषं चेति । पुमान् स्त्री मानुषम् अमानुषम् च इति । अस्यां भाषायां मानवेतरजीविनः नपुंसकलिङ्गिनः इति व्यवहारः । कन्नडभाषायाम् एकवचनं बुहुवचनं चेति वचनद्वयम् एव भवति । एकवचनरूपाणि पुमान् स्त्रीः मानुषम् अमानुषम् इति चतुर्षु लिङ्गेषु अपि भवन्ति । सः पुँल्लिङ्गः मानुषः, सा स्त्रीलिङ्गः मानुषः, तत् नपुंसकलिङ्गः अमानुषः इति ।
वर्धनम्
सम्पादयतुदक्षिणभारतीयभाषाणां मूलमिति निर्दिश्यमाणस्य मूलद्राविडतः कन्नडभाषा कदा सम्भाषणभाषा जाता इति निर्दुष्टतया वक्तुं न शक्यते । तमिलुभाषा यदा पृथक् जाता तदा एव कन्नडभाषा अपि पृथक् जाता इति विश्वस्यते । अस्याः भाषायाः लिपिः सामान्यतः १५००-१६०० वर्षपुरातनी विद्यते । ५ शतके हल्मिडिशासनकाले कन्नडभाषा प्रवृद्धा आसीत् । लिपेः इतिहासं यदि अवलोकयामः तमिलुलिपेः अपेक्षया कन्नडलिपिः एव शीघ्रं प्रवृद्धा इति भासते । कन्नडभाषातज्ज्ञाः कन्नडसाहित्यस्य वर्धनस्य अवगमनाय कालमानम् एवं निर्दिशन्ति -
- पूर्वहळगन्नड - अनिश्चितकालात् ७ शतकपर्यन्तम्
- हळगन्नड - ७ शतकात् १२ शतकं यावत्
- नडुगन्नड - १२ शतकात् १६ शतकं यावत्
- होसगन्नड - १६ शतकदनन्तरम्
गते शतके कन्नडभाषाभिवृद्धिः व्यापकतया जाता इति अवगम्यते । २० शतकस्य अनन्तरीयं कालम् आधुनिककन्नड् इति मत्वा नूतनयुगमिति परिगणनीयं भवेत् । अन्तर्जाले कन्नडभाषायाः उपयोगः व्यापकतया दृश्यते ।
भौगोलिकव्याप्तिः
सम्पादयतुकन्नडभाषा प्रमुखतया कर्णाटकराज्ये उपयुज्यते । अल्पप्रमाणेन प्रतिवेशिराज्येषु (आन्ध्र, तमिळुनाडु, महाराष्ट्रम्) अपि उपयुज्यते । अमेरिकासंयुक्तसंस्थाने इङ्ग्लेण्ड्देशे च कन्नडजनानां सङ्ख्या अधिका अस्ति ।
अधिकृतमान्यता
सम्पादयतुकन्नडभाषा भारतदेशस्य २२ अधिकृतभाषासु अन्यतमा । कर्णाटकराज्यस्य अद्वितीया अधिकृतभाषा । २००८ तमे वर्षे अक्टोबर्मासस्य ३१ तमे दिनाङ्के भारतसर्वकारः कन्नडभाषायाः कृते शास्त्रियं स्थानम् अयच्छत् ।
कन्नडवर्णमाला
सम्पादयतुकन्नडवर्णमालायां ४९ अक्षराणि विद्यन्ते । अत्रत्याणि अक्षराणि सर्वासु भारतीयभाषासु विद्यन्ते । तेलुगुलिपिः कन्नडलिपेः सादृश्यं भजते । संयुक्ताक्षरैः कागुणितेन च युक्ता लिपिः सङ्कीर्णा विद्यते । कन्नडलिपेः प्रत्येकं चिह्नं शाब्दिकमात्रां सङ्केतयति ।
वर्णमाला
सम्पादयतुसाधाराः
सम्पादयतु- ↑ "Singara – Kannada Sangha (Singapore)". Archived from the original on 2009-02-10. आह्रियत 2012-03-07.
- ↑ Mallige Kannada Balaga: Spreading Fragrance of Karnataka in Mauritius
- ↑ Dubai: Kannada Koota UAE to Hold 'Sangeetha Saurabha'
- ↑ The Karnataka official language act, 1963 – Karnataka Gazette (Extraordinary) Part IV-2A. Government of Karnataka. 1963. p. 33.
- ↑ http://www.columbia.edu/itc/mealac/pritchett/00maplinks/overview/languages/himal1992max.jpg
बाह्यानुबन्धाः
सम्पादयतु- Robert Zydenbos (2020): A Manual of Modern Kannada. Heidelberg: XAsia Books (Open Access publication in PDF format)
- Description of the Kannada language
- Official Unicode chart for Kannada (PDF)
- History of Kannada Language and Literature
- Learn Kannada
- Basic sentences in Kannada Archived २००५-०९-०२ at the Wayback Machine
- Kannada Greetings Website Archived २०१२-०४-२७ at the Wayback Machine
- Kannada Question-Answer Website Archived २०११-०४-१७ at the Wayback Machine
- Kannada Question-Answer Website Archived २०११-०४-१७ at the Wayback Machine
- Kannada Learning Center Archived २००९-०४-१७ at the Wayback Machine
- Kannada phrasebook from Wikivoyage
- Kannaḍa–English dictionary
- Kannada Literature
- Kannada Hasya Kavana Hanigavana Archived २०१२-०५-०५ at the Wayback Machine