नागौरमण्डलम्
नागौरमण्डलं (हिन्दी: नागौर जिला, आङ्ग्ल: Nagaur district) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रमस्ति नागौरनामकं नगरम् ।
नागौरमण्डलम् | |
---|---|
मण्डलम् | |
राजस्थानराज्ये नागौरमण्डलम् | |
देशः | भारतम् |
States and territories of India | राजस्थानराज्यम् |
Area | |
• Total | १७,७१८ km२ |
Population (२००१) | |
• Total | ३३,४०,२३४ |
Website | http://nagaur.nic.in |
भौगोलिकम्
सम्पादयतुनागौरमण्डलस्य विस्तारः १७७१८ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे जयपुरमण्डलं, पश्चिमे जोधपुरमण्डलम्, उत्तरे बीकानेरमण्डलं, चुरूमण्डलं, सीकरमण्डलं च, दक्षिणे अजमेरमण्डलं, पालीमण्डलं, जोधपुरमण्डलं च अस्ति । अस्मिन् मण्डले ३६.१६ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति ।
जनसङ्ख्या
सम्पादयतु२०११ जनगणनानुगुणं नागौरमण्डलस्य जनसङ्ख्या ३३४०२३४ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १८७ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १८७ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १९.२५% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९४८ अस्ति । अत्र साक्षरता ६४.०८ % अस्ति ।
उपमण्डलानि
सम्पादयतुअस्मिन् मण्डले दश उपमण्डलानि सन्ति । तानि-
- नागौर
- खिन्वसार
- जायल
- डेगाना
- मेरता
- डीडवाना
- लदनू
- प्रभातसर
- मकरना
- कुचमान
वीक्षणीयस्थलानि
सम्पादयतुअस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
- नागौर किला
- लदनू
- दादीमतिमातामन्दिरम्
- मीराबाई-मन्दिरम्
- कुचमान किला
- खाटू-श्यामजीमन्दिरम्
इत्यादीनि ।
बाह्यानुबन्धाः
सम्पादयतु- Official website
- Nagaur district Archived २००९-११-२३ at the Wayback Machine
- Nagaur district :: Rajasthan Archived २०१२-०५-३१ at the Wayback Machine
- Nagaur Map