अमरकण्टक

(अमरकण्टकम् इत्यस्मात् पुनर्निर्दिष्टम्)

अमरकण्टक-नगरं ( /ˈəmərəkəntəkə/) (हिन्दी: अमरकंटक, आङ्ग्ल: Amarkantak) भारतस्य मध्यप्रदेशराज्यस्य शहडोलविभागान्तर्गते अनूपपुरमण्डले स्थितमस्ति । इदं नगरं भारतस्य प्रमुखसप्तनदीषु अन्यतमायाः नर्मदायाः उद्गमस्थानं वर्तते । नगरमिदं सोन-नद्याः अपि उद्गमस्थलं वर्तते । अस्य नगरस्य अपरं नाम आम्रकूट इति । इदं नगरं तीर्थं, श्राद्धस्थानं, सिद्धक्षेत्रम् अपि । पुराणेषु उल्लेखः वर्तते । तेषु पर्वतेषु अन्यतमस्य ऋक्ष(विन्ध्यः)पर्वतस्य एकः भागः अस्ति इदं नगरम् ।

अमरकण्टक-नगरस्थं पातालेश्वरमहादेवमन्दिरम्


भौगोलिकम्

सम्पादयतु

अमरकण्टक-नगरस्य विस्तारः ४६.५७ च. कि. मी. अस्ति । अमरकण्टक-नगरं रीवा-नगरात् २७० कि. मी., पेन्ड्रा-नगरात् ४६ कि. मी. दूरे स्थितमस्ति । अमरकण्टक-नगरं समुद्रतलात् २५०० तः ३५०० फीट् उपरि अस्ति । अस्य नगरस्य निर्देशाङ्कः २२ º ४० उ., ८१ º ४५ पू. अस्ति । अस्मिन् नगरे नर्मदानदी प्रवहति ।

जनसङ्ख्या

सम्पादयतु

२०११ जनगणनानुगुणम् अमरकण्टक-नगरस्य जनसङ्ख्या ८,४१६ अस्ति । अस्मिन् नगरे प्रतिचतुरस्रकिलोमीटर्मिते १८० जनाः वसन्ति अर्थात् अस्य नगरस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १८० जनाः । २००१-२०११ दशके अस्मिन् नगरे जनसङ्ख्यावृद्धिः १७.४०% आसीत् । अत्र साक्षरता ६८% अस्ति ।

अमरकण्टक-नगरस्य पौराणिकं माहात्म्यम्

सम्पादयतु

पुराणेषु अमरकण्टक-नगरस्य माहात्म्यं वर्णितमस्ति यथा –


चन्द्रसूर्यौ परागे तु गत्वा ह्यमरकण्टकम् ।
अश्वमेधाद् दशगुणं पुण्यमाप्नोति मानवः ॥

एष पुण्यो गिरिवरो देवगन्धर्वसेवितः ।
नानाद्रुमलताकीर्णो नानापुष्पोपशोभितः ॥

अत्र सन्निहितो राजन् देव्या सह महेश्वरः ।
ब्रह्मा विष्णुस्तथा चेन्द्रो विद्याधरगणैः सह ॥

प्रदक्षिणं तु यः कुर्यात्पर्वतामरकण्टके ।
पौण्डरीकस्य यज्ञस्य फलं प्राप्नोति मानवः ॥

यः सूर्यग्रहणदिवसे चन्द्रग्रहणदिवसे वा अमरकण्टक-नगरं गच्छति सः अश्वमेधयज्ञस्य दशगुणं फलं लभते । इदं नगरं पवित्रपर्वतानां, देवतानां, गन्धर्वानां च शरणस्थलम् अस्ति । अत्र उमया सह भगवान् शिवः निवसति । यः अमरकण्टक-पर्वतस्य प्रदक्षिणां करोति सः नेत्रदानस्य पुण्यफलं प्राप्नोति ।


अमरकण्टक-नगरं वास्तविकरूपेण विन्ध्याचलपर्वतशृङ्खलायाः एकः भागः अस्ति । पद्मपुराणानुसारं –


ततो वर्षं प्रवक्ष्यामि यथाश्रुतमहो द्विजाः ।
महेन्द्रो मलयः सह्यः शक्तिमानृक्षवानपि ॥
विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः ॥

प्रतिवर्षं जनवरी-मासस्य त्रिंशत्तमः (३०) दिनाङ्कः नर्मदानद्याः जन्मदिवसरूपेण आचर्यते । इदं पर्व अस्याः पवित्रनद्याः श्रद्धायाः प्रतीकः वर्तते । मध्यप्रदेशीयाः नर्मदां माता इति कथयन्ति । यत्र यत्र नर्मदानदी प्रवहति तत्र तत्र ये घट्टाः सन्ति तत्रापि जनाः इदं पर्व आचरन्ति । तत्र जनाः पूजाभागत्वेन नद्यां दीपान् प्रज्वालयन्ति । इदं दीपदानम् इति कथ्यते । नर्मदायाः स्पर्शमात्रेण यदा अश्वमेधयज्ञस्य फलं लभ्यते तदा स्नानं तु कर्तव्यम् ।

अमरकण्टक-नगरस्य मन्दिराणि मूर्तयः च

सम्पादयतु

अमरकण्टक-नगरे बहूनि प्राचीनानि मन्दिराणि, प्राचीनाः मूर्तयः सन्ति । तेषां सम्बन्धः महाभारतस्य पाण्डवैः सह अस्ति । अधिकांशमूर्तयः पुरातनाः सन्ति । वास्तविकत्वेन प्राचीनानि मन्दिराणि कानिचिदेव सन्ति । अस्मिन् नगरे नर्मदामन्दिरं प्रसिद्धमस्ति । अमरकण्टक-नगरात् नर्मदायाः उद्गमः भवति । अतः तत्र नर्मदामातुः मन्दिरं वर्तते । जनाः स्वेषाम् इच्छापूर्त्यर्थं दर्शनार्थं च तत्र गच्छन्ति ।

 
अमरकण्टक-नगरस्थं नर्मदामातामन्दिरम्

वीक्षणीयस्थलानि

सम्पादयतु

नर्मदाकुण्डः नर्मदानद्याः उद्गमस्थलम् अस्ति । इमं कुण्डं परितः मन्दिराणि सन्ति । तेषु मन्दिरेषु नर्मदा-मन्दिरं, शिव-मन्दिरं, कार्तिकेय-मन्दिरं, श्रीरामजानकी-मन्दिरम्, अन्नपूर्णा-मन्दिरं, गुरुगोरखनाथ-मन्दिरं, श्रीसूर्यनारायण-मन्दिरं, वङ्गेश्वर महादेव-मन्दिरं, दुर्गा-मन्दिरं, सिद्धेश्वर महादेव-मन्दिरं, श्रीराधा-कृष्ण-मन्दिरं, एकादशरुद्र-मन्दिरम् इत्यादीनि प्रमुखानि मन्दिराणि सन्ति । उच्यते भगवान् शिवः स्वस्य पुत्र्या नर्मदया सह तत्र निवसति स्म इति ।

धूनी पानी

सम्पादयतु

अयम् अमरकण्टक-नगरस्य उष्णजलप्रपातः वर्तते । उच्यते अयं जलप्रपातः औषधीयगुणैः युक्तः अस्ति इति । अस्मिन् जलप्रपाते स्नानेन शरीरस्य असाध्यरोगाणां नाशः भवति । जनाः पवित्रजले स्नातुं तत्र गच्छन्ति ।

दूध धारा

सम्पादयतु

दूध धारा नामकः जलप्रपातः लोकप्रियः अस्ति । अस्य जलप्रपातस्य जलं दुग्धमिव दृश्यते । तेन अयं दुग्ध धारा इति कथ्यते ।

सोन मुदा

सम्पादयतु

सोन मुदा इतीदं स्थलं सोननद्याः उद्गमस्थलमस्ति । इदं स्थलं नर्मदाकुण्डात् १.५ कि. मी. दूरे अस्ति । अत्र सोननदी एकः जलप्रपातः इव पतति । अस्याः नद्याः सिकता स्वर्णमयी अस्ति । तेन अस्याः नद्याः नाम सोन इति ।

 
कपिलधारा जलप्रपातः

इदं स्थलं नर्मदायाः उद्गमस्थानात् अमरकण्टक-नगरात् ८ कि. मी. दूरे अस्ति । अत्र १०० फीट् उन्नतः जलप्रपातः अस्ति । इदं बहुरमणीयस्थलम् अस्ति । पुराणेषु लिखितमस्ति यत् – कपिलमुनिः अत्र निवसति स्म । कपिलमुनिः सांख्यदर्शनस्य रचयिता आसीत् । सांख्यदर्शनस्य रचना कपिलमुनिना अत्रैव कृतमासीत् इति मान्यता । अस्य स्थलस्य समीपे कपिलेश्वरमहादेव-मन्दिरमपि अस्ति । कपिलधारायाः समीपे अनेकाः गुहाः सन्ति । तासु गुहासु साधवः ध्यानमग्नावस्थायां दृश्यन्ते ।

स्थानीयनिवासिभ्यः अस्य स्थलस्य महत्त्वम् अधिकं वर्तते । उच्यते सन्त कबीर इत्याख्यः अत्र बहुवर्षं यावत् तपस्यां चकार । सन्त कबीर, सिक्खधर्मस्य प्रथमगुरुः श्री गुरुनानकदेवः इत्येतयोः मेलनम् अपि अत्र एव अभवत् । कबीर चबुतरा इत्यस्य स्थलस्य समीपे एकः जलप्रपातः अपि अस्ति । तस्य नाम कबीर-जलप्रपातः इति ।

सर्वोदयजैनमन्दिरम्

सम्पादयतु

अस्य मन्दिरस्य स्थानम् अद्वितीयमन्दिरेषु वर्तते । वज्रचूर्णलोहाभ्यां विना एव इदं मन्दिरं निर्मीयमाणम् अस्ति इति विशेषः । मन्दिरे स्थापितायाः मूर्त्याः भारः २४ टन् अस्ति ।

ज्वालेश्वरमहादेव-मन्दिरम्

सम्पादयतु

श्रीज्वालेश्वरमहादेव-मन्दिरम् अमरकण्टक-नगरात् ८ कि. मी. दूरे स्थितमस्ति । इदं बहुसुन्दरं मन्दिरं वर्तते । अस्मात् स्थलादेव जोहिला-नद्याः उत्पत्तिर्भवति । पुराणेषु उच्यते यत् भगवता शिवेन स्वयमेव अत्र शिवलिङ्गस्य स्थापना कृता आसीत् इति । पुराणेषु इदं महारुद्र मेरू इति उक्तम् अस्ति । उच्यते यत् भगवान् शिवः स्वस्य पत्न्या पार्वत्या सह अत्र निवसति स्म इति ।

मार्गाः

सम्पादयतु

वायुमार्गः

सम्पादयतु

अमरकण्टक-नगरस्य निकटतमं विमानस्थानकं जबलपुर-नगरे अस्ति । जबलपुर-नगरात् अमरकण्टक-नगरं २४५ कि. मी. दूरे स्थितमस्ति ।

धूमशकटमार्गः

सम्पादयतु

अमरकण्टक-नगरस्य समीपे पेन्ड्रा रोड रेलस्थानकम् अस्ति । अमरकण्टक-नगरात् पेन्ड्रा रोड १७ कि. मी. दूरे स्थितमस्ति । सुविधानुसारं अनूपपुर-रेलस्थानकं व्यवस्थितमस्ति । अनूपपुरम् अमरकण्टक-नगरात् ४८ कि. मी. दूरे अस्ति ।

भूमार्गः

सम्पादयतु

अमरकण्टक-नगरं निकटवर्तिनगराणां भूमार्गेण सह सम्बद्धम् अस्ति । प्रतिदिनं नियमितरूपेण पेन्ड्रा रोड, विलासपुर, शहडोल इत्येतेभ्यः नगरेभ्यः अमरकण्टक-नगराय बस्-यानानि सन्ति ।

बाह्यसम्पर्कतन्तु

सम्पादयतु

http://www.citypopulation.de/php/india-madhyapradesh.php?cityid=2341620000

"https://sa.wikipedia.org/w/index.php?title=अमरकण्टक&oldid=316735" इत्यस्माद् प्रतिप्राप्तम्