आर् के लक्ष्मण्
राशिपुरम् कृष्णस्वामी लक्ष्मण् अय्यर्[२] ( ( शृणु) /ˈrɑːʃɪpʊrəm krʃhnəsvɑːmiː ləkʃhmən əjjər/) (कन्नड: ರಾಶಿಪುರಂ ಕೃಷ್ಣಸ್ವಾಮಿ ಲಕ್ಷ್ಮಣ್ ಅಯ್ಯರ್, आङ्ग्ल: Rasipuram Krishnaswamy Laxman Iyer (जन्म : २३ अक्तूबर १९२१, मैसूर) महोदयः आर्. के. लक्ष्मण इतिलघुनाम्ना प्रसिद्धः अस्ति । भारतस्य प्रमुखव्यङ्ग्यचित्रकारेषु अन्यतमः सः । अर्धशतकात् जनसामान्यानां पीडाः स्वचित्रैः समाजस्य सम्मुखं सः उपस्थापयति स्म । समाजस्य विकृतीः, राजनैतिकविदूषकाणां विषमविचारान् च स्वस्य व्यङ्ग्यचित्रमाध्येन सकटाक्षम् उपस्थापयितुं सः प्रख्यातः आसीत् । श्रीलक्ष्मणः स्वस्य व्यङ्ग्यचित्रावल्या अपि प्रसिद्धः अभवत् [३] । तस्याः व्यङ्ग्यचित्रावल्याः नाम "द कॉमन मैन" आसीत् [४] । सा व्यङ्ग्यचित्रावली सः द टाईम्स ऑफ इण्डिया वर्तमानपत्रे प्रकाशयति स्म [५] ।
ರಾಶಿಪುರಂ ಕೃಷ್ಣಸ್ವಾಮಿ ಲಕ್ಷ್ಮಣ್ ಅಯ್ಯರ್ R.K.Laxman | |
---|---|
"द कॉमन मैन" सिम्बायोसिस् अन्तराष्ट्रिय-विश्वविद्यालये श्रीलक्ष्मणस्य एका प्रतिमा अपि विद्यते । [१] | |
जन्म |
मैसूर, कर्णाटकराज्यं, भारतम् | २४ १९२१
मृत्युः |
२६ २०१५ पुणे, महाराष्ट्रम्, भारतम् | (आयुः ९३)
देशीयता | भारतम् |
शिक्षणस्य स्थितिः | महाराजा कॉलेज, म्हैसूर, मैसूरुविश्वविद्यालयः |
वृत्तिः | व्यङ्ग्यचित्रकारः, विवरणकर्ता |
कृते प्रसिद्धः | कॉमन् मेन कार्टून् |
भार्या(ः) | कमला |
परिवारः | आर् के नारायणन् (भ्राता) |
पुरस्काराः | पद्मभूषणम्, रोमन मेग्सेसे, पद्मविभूषणम् |
हस्ताक्षरम् | |
जन्म, बाल्यञ्च
सम्पादयतु१९२१ तमस्य वर्षस्य अक्तूबर-मासस्य चतुर्विंशतितमे (२४/१०/१९२१) दिनाङ्के भारतस्य कर्णाटकराज्यस्य मैसूर-महानगरे श्रीलक्ष्मणस्य जन्म अभवत् [६] । तस्य पिता विद्यालयस्य सञ्चालकः आसीत् । तस्य षड्पुत्राः आसन् । तेषु षड्षु श्रीलक्ष्मणः षष्ठः आसीत् [७] । श्रीलक्ष्मणस्य अग्रजः आर. के. नारायणन् प्रसिद्धः उपन्यासकारः, केरलविश्वविद्यालयस्य उपकुलपतिः च ।
बाल्यकालादेव श्रीलक्ष्मणस्य रुचिः चित्रकलायाम् आसीत् । सः भूमौ, द्वारे, भित्तौ च चित्रं निर्माति स्म । वटवृक्षस्य पत्राणां सुन्दरे चित्रे चित्रिते सति एकदा सः स्वस्य अध्यापकेन पुरस्कृतः । तदारभ्यः सः चित्रकारं भवितुम् इष्टवान् । ब्रिटन-देशस्य प्रख्यातः व्यङ्ग्यचित्रकारः सर डेविड लौ इत्ययं श्रीलक्ष्मणस्य आदर्शः आसीत् । श्रीलक्ष्मणः स्वस्य स्थानीयकन्दुकक्रीडादलस्य "रफ् एण्ड् टफ् एण्ड् जॉली" दलनायकः आसीत् [८] । तस्य क्रियाकलापैः प्रेरितः तस्य अग्रजः 'डोडो द' 'मणि' 'मेकर', 'द रीगल क्रिकेट क्लब' इत्यादिकाः कथाः अलिखत् [९]।
तस्य सुखदं बाल्यं तदा दुःखेन ग्रस्तम् अभवत्, यदा तस्य पिता पक्षाघातस्य रोगी अभवत् । ततः एकवर्षाभ्यान्तरे एव तस्य पितुः मृत्युः अपि अभवत् । तस्मिन् काले लक्ष्मणः विद्यालये पठन् आसीत् । यद्यपि पितुः मृत्युना गृहस्य अनेकानि दायित्वानि तस्य कर्त्तव्यताम् आपतितानि, तथापि सः अभ्यासं नात्यजत् ।
उच्चविद्यालये अभ्यासं समाप्य लक्ष्मणः कला, नृत्यं, चित्रम् इत्यादीनां शिक्षणं प्राप्तुम् इष्टवान् । अतः सः मुम्बई-महानगरस्य 'जेजे'-महाविद्यालये प्रवेशं प्राप्तुम् आवेदनम् अकरोत् । परन्तु महाविद्यालयस्य आचार्यः आवेदनस्य प्रत्युत्तरं यच्छन् अलखत्, "तव चित्रेषु किमपि विशेषाकर्षकं नास्ति । अतः अहं ते प्रवेशं दातुं न शक्नोमि" इति [१०] । ततः सः मैसूरविश्वविद्यालये प्रवेशं प्रापत् । तत्र सः बी ए-पदवीं प्रापत् । तस्मिन् काले एव सः स्वतन्त्रकलात्मकगतिविधीन् आरभत । स्वराज्य-पत्रिकायां तथा च एनिमेटेड-चित्रावल्याम् अपि स्वस्य व्यङ्ग्यचित्रमाध्यमेन योगदानम् अयच्छत् [११]।
व्यवसायः
सम्पादयतुश्रीलक्ष्मणः आरम्भिके काले स्वराज्य-पत्रिकायै, ब्लिट्ज-पत्रिकायै च कार्यं करोति स्म । यदा सः मैसूर-महानगरस्य महाराजा-महाविद्यालये पठन् आसीत्, तदा सः स्वस्य अग्रजस्य श्रीनारायणस्य कथायाः वर्णनं 'द हिन्दू'-समाचारपत्रे करोति स्म । स्थानीयसमाचारपत्रिकायै "स्वतन्त्रता"यै राजनैतिकव्यङ्गचित्राणि अपि यच्छति स्म सः । श्रीलक्ष्मणः कन्नड-भाषायाः हास्यपत्रिकायै अपि स्वचित्राणि यच्छति स्म । तस्य हास्यपत्रिकायाः नाम 'कोरावञ्जी' इति आसीत् । 'कोरावञ्जी' इत्येतां पत्रिकां डॉ॰ एम्. शिवराम-महोदयः प्रकाशयति स्म । सः १९४२ तमात् वर्षात् कोरावञ्जी-पत्रिकां प्रकाशयति स्म । संयोगवशात् सः स्वयं हास्यं प्रोत्साहयति स्म । अतः सः तां हास्यपत्रिकां हास्याय, व्यङ्ग्यचित्रेभ्यः च समार्पयत् । डॉ॰ शिवराम स्वयं कन्नडभाषायाः प्रख्यातः 'टीटोलीय्' आसीत् । सः श्रीलक्ष्मणं प्रोत्साहयति स्म । ग्रीष्मावकाशेषु श्रीलक्ष्मणः चेन्नै-महानगरस्य 'जेमिनी स्टूडियोज' मध्ये कार्यं करोति स्म । तस्य प्रप्रथमा वृत्तिः राजनैतिक-व्यङ्ग्यचित्रकारस्य आसीत् । 'द फ्री प्रेस जॉर्नल' इतीमा संस्था मुम्बई-महानगरे अपि आसीत् । तत्र श्रीबाला साहेब ठाकरे [१२] तस्य सहयोगी आसीत् । ततः श्रीलक्ष्मणः 'द टाइम्स ऑफ् इण्डिया'-समाचारपत्रेण सह सँल्लग्नः । तत्र सः पञ्चाशाद्वर्षाधिकं कार्यम् अकरोत् ।
१९५४ तमे वर्षे श्रीलक्ष्मणः 'एशियन् पैण्ट्स् ग्रुप्' इत्यस्यै संस्थायै गट्टू-नामकं व्यङ्ग्यचित्रम् अरचयत् [१३] । तत् चित्रम् आविश्वं प्रसिद्धम् अभवत् । सः काँश्चन उपन्यासान् अपि अलिखत् । तस्य व्यङ्ग्यचित्राणि 'मिस्टर एण्ड् मिसेस् ५५'-नामके हिन्दीचलच्चित्रे, 'कामराज'-नामके तमिलचलच्चित्रे प्रख्यातानि अभूवन् । तस्य रचनासु 'मालगुडी डेज'-नामकं रेखाचित्रम् अपि अन्तर्भवति, यत्र श्रीनारायणेन लिखितस्य उपन्यासस्य भागस्वरूपं प्रदर्शितम् आसीत् ।
वैवाहिकजीवनम्
सम्पादयतुश्रीलक्ष्मणस्य प्रथमविवाहः भरतनाट्यम्-नृत्याङ्गिन्या, अभिनेत्र्या कमलया सह अभवत् । विवाहात् पूर्वं कमला 'बेबी कमला', 'कुमारी कमला' इत्यादिभिः नामभिः प्रसिद्धा आसीत् । परन्तु तयोः विवाहे विन्यस्ते सति श्रीलक्ष्मणः द्वितीयविवाहम् अकरोत् । तस्य द्वितीयपत्न्यायाः नाम अपि कमला आसीत् । सा लेखिका आसीत् । फिल्मफेयर् इत्यस्य चलच्चित्र-पत्रिकायां व्यङ्ग्यचित्रावल्यां 'द स्टार ऐ हाव नेवर मेट' इत्यस्मिन् सः कमला लक्ष्मण् इत्यस्याः एकम् व्यङ्ग्यचित्रं प्राकाशयत् । तस्य व्यङ्ग्यचित्रस्य नाम 'द स्टार ओनली ऐ हाव मेट्' आसीत् ।
रोगग्रस्तः श्रीलक्ष्मणः
सम्पादयतु२००३ तमस्य वर्षस्य सितम्बर-मासे लक्ष्मणः पक्षाघात(Paralysis)रोगेण ग्रस्तः [१४] । पक्षाघातस्य प्रभावेण तस्य शरीरस्य वामभागः प्रभावितः अभवत् । तेन तस्य क्रियाकलापेषु प्रभावः अभवत् [१५] । सः दशवर्षं यावत् तेन आघातेन प्रभावितः सन् जीवनम् अयापयत् । ततः शनैः शनैः तस्य स्वास्थ्ये उचितं परिवर्तनम् अभवत् । २०१२ तमस्य वर्षस्य अक्तूबर-मासे स्वस्य एकनवतितमः (९१) जन्मदिवसः श्रीलक्ष्मणेन उत्साहेन पुणे-महानगरे आचरितः । स्वस्य जन्मदिवसस्य शुभावसरे सः स्वनिवासस्थाने सम्मेलनम् आयोजयत् । सम्मेलने श्रीलक्ष्मणः मधुरपिष्टकं (Cake) भोजयित्वा सम्मेलनस्य आरम्भम् अकरोत् । श्रीलक्ष्मणस्य राजवर्धन पाटिल-नामकः प्रशंसकः अपि तस्मिन् सम्मेलने उपस्थितः आसीत् । सः 'द ब्रेनी क्रो'-नामकं वृत्तचित्रं श्रीलक्ष्मणाय समार्पयत् । तत् वृत्तचित्रं श्रीलक्षणस्य प्रियपक्षिणः जीवनस्य, अस्तित्वस्य कथानकम् आसीत् । श्रीलक्ष्मणस्य जन्मदिवसस्य अवसरे शिवसेना-पक्षस्य प्रमुखः श्रीबाला साहेब ठाकरे अपि (पुरा श्रीलक्ष्मणस्य सहयोगी व्यङ्ग्यचित्रकारः आसीत् ।) जन्मदिवसस्य शुभकामनाः पाठितवान् ।
२०१५ तमस्य वर्षस्य जनवरी-मासस्य षड्विंशतितमे (२६/०१/२०१५) दिनाङ्के महाराष्ट्रराज्यस्य पुणे-महानगरे श्रीलक्ष्मणस्य निधनम् अभवत् । त्रयोविंशतितमे दिनाङ्के वक्षस्स्थले पीडासमुद्भूता आसीत् । ततः तस्य अनेकानि अङ्गानि निरस्तानि अभूवन् । अतः गहनचिकित्साविभागे (I. C. U.) तस्य चिकित्सा आरब्धा । परन्तु तत्रैव तस्य निधनम् अभवत् । तस्य मृत्युः भारतगणराज्यस्य प्रजासत्ताकदिवसस्य शुभावसरे अभवत् । एकस्य देशभक्तस्य कृते प्राणान् त्यक्तुम् एतस्मात् अधिकं शुभं किं भवेत् ? सामान्यजनानां पीडाः सः समाजस्य सम्मुखं, सर्वकारस्य सम्मुखं च स्वस्य कटाक्षशैल्या उपस्थापयति स्म । जनाः कृतज्ञताभावेन चिरकालं यावत् तस्य स्मरणं करिष्यन्ति ।
श्रीलक्ष्मणस्य कृते श्रीनरेन्द्रस्य श्रद्धाञ्जलिः -
“ | My condolences to the family & countless well-wishers of a legend whose demise leaves a major void in our lives. RIP RK Laxman. India will miss you RK Laxman. We are grateful to you for adding the much needed humour in our lives & always bringing smiles on our faces.[१९][२०] | ” |
सम्मानः, पुरस्कारश्च
सम्पादयतु- बी डी गोयनका पुरस्कारः – दि इन्डियन एक्सप्रेस-द्वारा
- दुर्गा-रतन-स्वर्ण-पदकम् – हिन्दुस्तान टाइम्स द्वारा।
- पद्मविभूषणम् - भारतसर्वकारः
- पद्मभूषणम् - भारतसर्वकारः
- रोमन मैग्सेसे पुरस्कार (१९८४)
पुस्तकानि
सम्पादयतु- दि एलोक्वोयेन्ट ब्रश
- द बेस्ट आफ लक्षमण सीरीज
- होटल रिवीयेरा
- द मेसेंजर
- सर्वेन्ट्स आफ इंडिया
- द टनल आफ टाईम (आत्मकथा)
मल्टी-मीडिया-क्षेत्रे योगदानम्
सम्पादयतु- इण्डिया थ्रू थे आईज ऑफ आर. के. लक्ष्मण-देन टू नाउ (सीडी रोम)
- लक्ष्मण रेखास-टाइम्स ऑफ इण्डिया-द्वारा प्रकाशितम्
- आर. के. लक्ष्मण की दुनिया- नामकं धारावाहिकम् (सब टीवी)
सम्बद्धाः लेखाः
सम्पादयतुबाह्यसम्पर्कतन्तुः
सम्पादयतु- http://www.thehindu.com/news/national/eminent-cartoonist-rk-laxman-critical/article6801235.ece
- http://timesofindia.indiatimes.com/india/Eminent-cartoonist-RK-Laxman-dies-at-93/articleshow/46021781.cms
- http://timesofindia.indiatimes.com/india/Best-of-RK-Laxmans-cartoons/photostory/45944693.cms
- http://timesofindia.indiatimes.com/india/No-more-Laxman-rekhas-Common-Man-orphaned-but-legacy-stays/articleshow/46024159.cms
- http://timesofindia.indiatimes.com/india/Cartoonist-R-K-Laxman-to-get-a-memorial/articleshow/46028442.cms
- http://www.firstpost.com/living/pm-modi-to-sonia-gandhi-who-said-what-on-rk-laxman-passing-away-2065239.html
- https://twitter.com/narendramodi/status/559721962545500160
सन्दर्भ:
सम्पादयतु- ↑ RK Laxman Chair started at Symbiosis University Archived २०१२-११-०५ at the Wayback Machine, TNN 19 June 2011, 01.41am IST
- ↑ रङ्गाराव् (१ जनवरी २००६ January 2006). आर् के लक्ष्मण्. साहित्य अकादेमी. pp. ११. ISBN 978-81-260-1971-7. आह्रियत ११मार्चच्२०१२11 March 2012.
- ↑ Ritu Gairola Khanduri. 2012. "Picturing India: Nation, Development and the Common Man." Visual Anthropology 25(4): 303-323.
- ↑ Ritu Gairola Khanduri. 2014. Caricaturing Culture in India: Cartoons and History of the Modern World. Cambridge: Cambridge University Press.
- ↑ "Times of India cartoonist RK Laxman dies after illness". BBC. २६ जनवरी. आह्रियत 27 January 2015.
- ↑ "The Common Man is still at work". The Hindu.
- ↑ Laxman 1998, पृष्ठम् 4
- ↑ Laxman 1998, पृष्ठम् 24
- ↑ Laxman 1998, पृष्ठम् 23–24
- ↑ Laxman 1998, पृष्ठम् 57–60
- ↑ Laxman 1998, पृष्ठम् 66–72
- ↑ https://en.wikipedia.org/wiki/Bal_Thackeray
- ↑ "Who is the creator of 'Gattu'?". Rediff.com. 11 July 2008.
- ↑ "R K Laxman hospitalized after 3 strokes, stable". Times of India. 21 June 2010. Archived from the original on 11 August 2011. आह्रियत 21 June 2010.
- ↑ "Cartoonist R K Laxman passes away, stable". India Today. 26 January 2015. आह्रियत 26 January 2015.
- ↑ "Eminent cartoonist RK Laxman dies at 94". The Times of India. आह्रियत 26 January 2015.
- ↑ "Renowned cartoonist R K Laxman passes away at 94 in Pune". NetIndian. NetIndian. Archived from the original on 9 May 2015. आह्रियत 26 January 2015.
- ↑ "R K Laxman regains partial consciousness". The Times of India. 23 January 2015. आह्रियत 27 January 2015.
- ↑ "श्रीलक्ष्मणस्य कृते श्रीनरेन्द्रस्य श्रद्धाञ्जलिः". नरेन्द्र मोदी. २६ जनवरी २०१५. आह्रियत 27 January 2015.
- ↑ "श्रीलक्ष्मणस्य कृते श्रीनरेन्द्रस्य श्रद्धाञ्जलिः". नरेन्द्र मोदी. २६ जनवरी २०१५. आह्रियत 27 January 2015.