इन्द्रपुरमण्डलम्
इन्द्रपुरमण्डलम् ( ( शृणु) /ˈɪndɔːrəməndələm/) (हिन्दी: इंदौर जिला, आङ्ग्ल: Indore district) इत्येतद् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य इन्द्रपुरविभागेऽन्तर्गतं किञ्चन मण्डलमस्ति । अस्य मण्डलस्य केन्द्रमस्ति इन्द्रपुरमिति नगरम् ।
इन्द्रपुरमण्डलम् इन्दौरमण्डलम् | |
---|---|
इन्दौर जिला | |
इन्द्रपुरमण्डलस्य नयनाभिरामदृश्यम् | |
मध्यप्रदेश राज्यस्य मानचित्रे इन्दौरमण्डलम् | |
देशः | India |
राज्यम् | मध्यप्रदेशः |
उपमण्डलानि | इन्दौर, देपलपुर, महु, सांवेर, हतोड |
विस्तारः | ३,८९८ च. कि. मी. |
जनसङ्ख्या (२०११) | ३२,७६,६९७ |
Time zone | UTC+५:३० (भारतीयमानसमयः (IST)) |
साक्षरता | ८०.८७% |
भाषाः | हिन्दी, आङ्ग्लं च |
लिङ्गानुपातः | पु.-५०%, स्त्री.-४९% |
Website | http://indore.nic.in/ |
भौगोलिकम्
सम्पादयतुइन्द्रपुरमण्डलस्य विस्तारः ३,८९८ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पश्चिमभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे देवासमण्डलं, पश्चिमे धारमण्डलम्, उत्तरे उज्जैनमण्डलं, दक्षिणे खरगौनमण्डलम् अस्ति । अस्मिन् मण्डले चम्बलनदी, क्षिप्रानदी च प्रवहति ।
जनसङ्ख्या
सम्पादयतु२०११ जनगणनानुगुणम् इन्द्रपुरमण्डलस्य जनसङ्ख्या ३२,७६,६९७ अस्ति । अत्र १६,९९,६२७ पुरुषाः, १५,७७,०७० महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ८४१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ८४१ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ३२.८८% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२८ अस्ति । अत्र साक्षरता ८०.८७% अस्ति ।
उपमण्डलानि
सम्पादयतुअस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तानि- १ इन्दौर, देपलपुर, महु, सांवेर, हतोड ।
कृषिः वाणिज्यं च
सम्पादयतुअस्मिन् मण्डले खाद्यसामग्रीणाम् उद्योगाः अत्यधिकाः प्रचलन्ति । अस्मिन् मण्डले वस्त्राणां यन्त्रागाराः अपि बहवः सन्ति । अस्मिन् मण्डले उत्तमाः शैक्षणिकसंस्थाः अपि सन्ति । अतः भारतस्य अन्यप्रदेशेभ्यः, विदेशात् च विद्यार्थिनः पठितुं तत्र गच्छन्ति । तेन कारणेन इदं मण्डलं प्रगतिशीलम् अस्ति ।
वीक्षणीयस्थलानि
सम्पादयतुखजराना गणेशमन्दिरम्
सम्पादयतुबहवः श्रद्धालवः इन्दौर-नगरवासिनः तथा समीपस्थनगरजनाः तत्र दर्शनार्थं गच्छन्ति । अस्य मन्दिरस्य निर्माणम् अहिल्याबाई होल्कर इत्यनया कारितम् । इयं मराठाराज्ञी आसीत् । इदं स्थलं हिन्दुजनानां कृते महत्वपूर्णमस्ति ।
गुरुद्वारा
सम्पादयतुइन्दौर-नगरं प्राक्तनादेव सिक्खधर्मेण सह संलग्नम् अस्ति । अस्मिन् नगरे एकं प्रसिद्धं गुरुद्वारा अस्ति । गुरुनानक ई. १५६७ तमे वर्षे तत्र गतः आसीत् ।
अन्नपूर्णामन्दिरम्
सम्पादयतुअन्नपूर्णामन्दिरं बहुसुन्दरं तथा पुरातनम् अस्ति । इन्दौर-नगरे इदं मन्दिरं स्थितमस्ति । अस्मिन् मन्दिरे अन्नपूर्णामातुः सुन्दरप्रतिमा अस्ति । इदं तीर्थयात्राकेन्द्रमस्ति । तत्र न केवलं भक्ताः गच्छन्ति अपि तु पर्यटकाः अपि गत्वा मन्दिरस्य अवलोकनं कुर्वन्ति ।
बडा गणपति
सम्पादयतुअस्मिन् मन्दिरे गणेशस्य विशालप्रतिमा अस्ति । तेन कारणेन इदं प्रख्यातमस्ति । अस्य मन्दिरस्य निर्माणम् ई. १८७५ तमे वर्षे ’श्रीदधीच’ इत्यनेन कारितम् । अस्याः प्रतिमायाः उच्चता २५ फीट अस्ति ।
बाह्यसम्पर्कतन्तुः
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये इन्द्रपुरमण्डलम् सम्बन्धिताः सञ्चिकाः सन्ति। |
http://indore.nic.in/
http://www.bharatbrand.com/english/mp/districts/Indore/Indore.html Archived २०१४-०६-०९ at the Wayback Machine
http://www.census2011.co.in/census/district/306-indore.html