उपवेदः
ऋग्वेदो यजुर्वेदस्सामवेदोऽथर्ववेदश्चेति चत्वारो वेदाः । तेषु एकैकमपि वेदमनुबध्य उपवेदाः विद्यन्ते । तथा च उपवेदाश्च चत्वारः सन्ति ।
उपवेदः | |
---|---|
उपवद: |
तत्र ऋग्वेदस्योपवेदः आयुर्वेदः । अयम् अथर्ववेदस्योपवेद इति केचिदभिप्रयन्ति । आधुनिकोपकरणानामसद्भावेऽपि निरीक्षणपरीक्षणैः शरीरघटनाम् ओषधीनां रासघटनां प्रभावञ्चावगत्य विरचितः आयुर्वेदः । आयुर्वेदाचार्याणां परम्परासु धन्वन्तरिः, चरकः, सुश्रुतः, वाग्भटः, नागार्जुनः इत्यादयः प्रातः स्मरणीयाः भवन्ति । मानुषाणामिव वृक्षमृगादीनामपि चिकित्सा क्रियते स्म इति ज्ञायते । चिकित्सायाः अष्टविभागाः भवन्ति । ते च शल्यम्, शालाक्यम्, कायचिकित्सा, भूतविद्या, कौमारभृत्यम्, अगदतन्त्रम्, रसायनतन्त्रम्, वाजीकरणम् इति व्यपदिश्यन्ते ।
यजुर्वेदस्योपवेदः धनुर्वेदः । एतस्य राजविद्या इत्यपि नामान्तरमस्ति । आयुधानां विविधवाहनानां च विवरणात्मकोऽयं वेदः । अङि्गरसः भारद्वाजस्य च ग्रन्थाः अत्र प्रामाणिकाः । यन्त्रसर्वस्वमिति बृहत्तमस्य ग्रन्थस्य एकदेशः भवति विमानशास्त्रम् । भरद्वाजस्य ग्रन्थे नारायणमुनिविरचिताया विमानचन्द्रिकायाः, शौनकरचितस्य व्योमयानतन्त्रस्य गर्गप्रणीतस्य यन्त्रकल्पस्य वाचस्पतिरचितस्य यानबिन्दोः अथ च अनेकानां ग्रन्थानां सूचनाः समुपलभ्यन्ते ।
गान्धर्ववेदः सामवेदस्योपवेदः । अस्मिन् सङ्गीतशास्त्रतत्वानि व्याख्यायन्ते । अत्र श्रीनारदमुनिप्रणीता नादसंहिता प्रामाणिक ग्रन्थः । उत्तरभारते प्रचलितं हिन्दुस्थानीसङ्गीतं दक्षिणभारते प्रचलितं कर्णाटकसङ्गीतं च तामेतां नारदीयसंहितामाश्रित्य व्यवस्थापिते भवतः । संहितायाममुष्यां विविधाः रागाः तालक्रमाः विभिन्नरागयुक्ताः वर्णाः कीर्तनानि च दत्तानि सन्ति । नाट्यशास्त्रस्य गेयप्रकाराः अस्मिन्नेवान्तर्भवन्ति । अभिनेयप्रकारास्तु शिल्पशास्त्रेऽन्तर्भवन्ति ।
अथर्ववेदस्योपवेदः अर्थवेदः । राजनीतिः अर्थशास्त्रम् शिल्पशास्त्रम् नाट्यशास्त्रम् च अत्र प्रधानतया प्रतिपाद्यन्ते । तन्त्रशास्त्रम् वास्तुशास्त्रम् चात्रैवान्तर्भवतः । विश्वकर्मा, त्वष्टा, मयः काश्यपः च शिल्पशास्त्रस्योपज्ञातारः प्रणेतारश्च । नारदः भारद्वाजः शुक्रः कौट्ल्यः इत्यादयः अर्थशास्त्रस्य प्रणेतार इति किर्तिताः । एतैः शिल्पविद्यायां शास्त्राणि निरमीयन्त । त एव अस्मिन् विषये प्रामाणिकग्रन्थाः इति च शिल्पशास्त्रग्रन्थेषु पश्यामः ।