माक्स् म्युलर्

(मैक्स मूलर इत्यस्मात् पुनर्निर्दिष्टम्)


फ़्रीड्रिख़् माक्स् म्युलर[१][२] (६ डिसेम्बर् १८२३  – २८ अक्टोबर् १९००) माक्स् म्युलर् इति ख्यातः। एषः कश्चन जर्मनीदेशीयः विद्वान्। अध्ययनार्थम् उद्योगार्थं च इङ्ग्लेण्ड्देशे जीवनं यापितवान्। पाश्चात्यदेशेषु भारतीयाध्ययनकेन्द्रस्य स्थापने एषः प्रमुखः आसीत्। तुलनात्मकधार्मिकाध्ययनस्य अपि आरम्भम् म्याक्स्मुल्लरः अकरोत्।[३] भारतीयतत्त्वानां विषये विद्वद्ग्रन्थान्, प्रसिद्धान् ग्रन्थान् च माक्स म्युलर् इत्ययं रचितवान्। साक्रड बुक्स् आफ् ईस्ट् इत्याख्यः ५० सम्पुटात्मकः आङ्ग्लानुवादयुतः ग्रन्थः माक्स्मुल्लरस्य मार्गदर्शने विरचितः। टुरेनियन् भाषाकुटुम्बस्य कल्पनमपि स एव दत्तवान्।

माक्स् म्युलर्
१८८३-तमे वर्षे स्वीकृतं माक्स्-म्युलर् इत्यस्य चित्रम्
जननम् फ़्रीड्रिख़् माक्स् म्युलर्
(१८२३-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-०६)६ १८२३
जर्मनीदेशः
मरणम् २८ अक्तूबर १९००(१९००-१०-२८) (आयुः ७६)
आक्स्फर्ड्, इङ्ग्लेण्ड्देशः
वृत्तिः लेखकः, विद्वान्
राष्ट्रीयता ब्रिटिश्
विद्याभ्यासः लैप्त्सिख़् विश्वविद्यालयः
प्रमुखकृतयः दि साक्रड् बुक्स् आफ् ईस्ट्, चिप्स् फ्रम् ए जर्मन् वर्क्शाप्
पतिः/पत्नी जार्जिना अडिलेड् ग्रेन्फेल्
शिशवः विलियम् माक्स् म्युलरः

हस्ताक्षरम्

बाल्यजीवनं शिक्षणं च

सम्पादयतु

फ़्रीड्रिख़् माक्स् म्युलर् इत्ययं डिसेम्बर् ६ १८२३ तमे वर्षे जन्म प्राप्तवान्। तस्य जन्मस्थानं जर्मनीदेशस्य डेस्साव्। तस्य पितुः नाम विलियम् मुल्लरः कश्चन कविताकारः आसीत्। आडल्हैड् म्युलर् तस्य माता आसीत्। सा अन्हाल्ट् डेस्सु प्रदेशस्य प्रधानमन्त्रिणः सोदरी आसीत्। कार्ल् मरिया वन् [४] इत्याख्यः तस्य पोषकः आसीत्। [५]

म्युलर् माक्स् इति तस्य उपनाम म्युलर् इत्यस्मात् पूर्वं योजितवान्। म्युलर् इति नाम सामान्यतमम् इति सः अचिन्तयत्।[५] तस्य नाम माक्सिमिल्लियन् इत्यपि उल्लिखितं वर्तते।(विश्वविद्यालयीयप्रमाणपत्रे )[उद्धरणं वाञ्छितम्][६][७] षष्ठे वर्षे स्वग्रामे एव जिम्नासिसम् शालां प्रविष्टवान्। १८२९ तमे वर्षे पितामहस्य मरणानन्तरं सः लीप्झिङ्ग्स्थां निकोलाई शालां गतः। तत्र सङ्गीतशिक्षणं च प्राप्तवान्। फेलिक्स् मेण्डन्सनस्य सम्पर्कः अपि तदानीं माक्स्मुल्लरस्य जातः।[५] छात्रवृत्त्यवाप्त्यर्थं सः गभीरम् अध्ययनम् आरब्धवान्। तत्र पाठ्यक्रमः पाठ्यविषयश्च भिन्नः आसीत्। गणितं आधुनिकभाषाः च पाठ्यक्रमे आसन्।[५] १८४१ तमे वर्षे लिप्झिङ्ग् विश्वविद्यालयं प्रविश्य सङ्गीतं काव्यं च परित्यज्य तत्त्वशास्त्रपठनम् आरब्धवान्। मुल्लरः १८४३ तमे वर्षे पदवीं प्राप्तवान्। डच् तत्त्वज्ञानिनः स्पिनोझा इत्यस्य नीतिशास्त्रविषये तस्य शोधप्रबन्धः आसीत्।[३] शास्त्रीयभाषाणां ग्रीक्, ल्याटिन्, अरेबिक्संस्कृतम् इत्यादीनां विषये अपि सः परीक्षां लिखितवान्।

शैक्षिकजीवनम्

सम्पादयतु

१९५०-तमे वर्षे माक्स् म्युलर् इत्ययं आक्स्फर्ड् विश्वविद्यालये आधुनिकयुरोपियन्भाषाविभागे आचार्यः अभवत्। थामस् गैस्फोर्डस्य सूचनानुसारं सः एम्. ए पदवीमपि प्राप्तवान्। क्रिस्ट् चर्च् विद्यालयस्य सदस्यः अभवत्। १८५८ तमे वर्षे सः आल् सोल्स् विद्यालयतः आजीवनविद्वद्धनसाहाय्यं च प्राप्तवान्।[८]१८६० तमे वर्षे बोडन् प्रोफेसर् आफ् संस्कृत् इति निर्वाचने सः पराजितः।[९] एतेन माक्स्मुल्लरः खिन्नः आसीत्।[१०]मुल्लरः तस्य विरोधिनः मोनियर् विलियम्सस्य अपेक्षया अर्हतायां वरिष्ठः आसीत्। परन्तु तस्य विशालः देवतावादः, मार्टिन् लूथरस्य अनुयायित्वं, जर्मनीजातत्वम्, भारतदर्शनराहित्यं च पराजये कारणानि अभूवन्। सः निर्वाचनानन्तरं मात्रे पत्रं लिखितवान्। तत्र सर्वे उत्तमाः जनाः सर्वानुमतेन मह्यं मतं किञ्च दत्तवन्तः, परन्तु सामान्याः मम अपजये कारणानि अभवन् इति उल्लिखितवान्।[११] १८६८ तमे वर्षे मुल्लरः आक्स्फर्ड् विश्वविद्यालयस्य प्रथमः तौलनिकतत्त्वशास्त्रविभागस्य प्रथमः आचार्यः अभवत्। एतं पदं सः बहु इष्टवान्। १८७५ तमे वर्षे निवृत्तः अपि सः आमरणं तत्कार्यम् अकरोत्। [१२]

संस्कृतकार्यम्

सम्पादयतु

१८४४-तमे वर्षे आक्स्फर्ड् विश्वविद्यालयं प्रति गमनात् प्राक् बर्लिन्-नगरे फ़्रीड्रिख़् इत्ययं स्केल्लिङ्गेन सह पठितवान्। सः उपनिषदां भाषान्तरणम् आरब्धवान्। ततः संस्कृतस्य अध्ययनं फ्रान्झ् बापस्य मार्गदर्शने अनुवर्तितवान्। फ्रान्झ् बापः क्रमबद्धरूपेण इण्डोयूरोपियन् भाषाणां अध्येतृषु प्रथमः आसीत्। स्केल्लिङ्गः भाषाध्ययनद्वारा धर्माध्ययनं कर्तुं माक्स् म्युलर् इतीमं प्रेरितवान्। एवं प्रकारेण माक्स् म्युलर् इत्ययं तस्य प्रथमपुस्तकत्वेन हितोपदेशस्य जर्मनीय-भाषान्तरणं प्राकाशयत्। [१३]

१८४५ तमे वर्षे एजून् बर्न्रूफस्य मार्गदर्शने संस्कृतं पठितुं माक्स्मुल्लरः प्यारिस्नगरं गतः। इङ्ग्लेण्ड्देशे विद्यमानाः हस्तप्रतीः सङ्गृह्य ऋग्वेदस्य आङ्ग्लानुवादम् प्रकाशयितुं प्रोत्साहं दत्तवान्। १८४६-तमे वर्षे माक्स् म्युलर् इत्ययं इङ्ग्लेण्ड्देशं गत्वा संस्कृतस्य मातृकाणां सङ्ग्रहम् आरब्धवान्। ईस्ट् इण्डिया कम्पनीजनाः तस्य साहाय्यं कृतवन्तः। तस्य जर्मन् लव् इति उपन्यासः अपि प्रसिद्धः अभवत्। ततः भारतीयसंस्कृतिविषयकव्याख्यातृषु माक्स् म्युलर् इत्ययं धुरीणः अभवत्। ब्रह्मसमाजेन सह अपि माक्स् म्युलर् इत्यस्य सम्बन्धः आसीत्। माक्स् म्युलर् इत्ययं रामकृष्णपरमहंसेनापि प्रभावितः।.[१४] भारोपीयभाषासु संस्कृतभाषा प्राचीनतमा इति माक्स्म्युलर् अस्य मतम्। ऋग्वेदस्य समीक्षात्मकावृत्तेः रचनायाः कार्यं ईस्ट् इण्डिया कम्पनी द्वारा माक्स्मुल्लराय दत्तम्। १८४९ तः १८७४ पर्यन्ते अवधौ इदं कार्यं तेन साधितम्।[१५]एतस्य कार्यस्य निमित्तं सः प्रसिद्धः वर्तते। परन्तु सैण्टिफिक् अमेरिकन् पत्रिका तस्य निधनानन्तरं काचित् वार्तां प्रकाशितवती। तदाधारेण वेदानाम् अनुवादकार्यं तु जर्मनीदेशस्य केनचिद् अनामिकेन विदुषा कृतम्, परन्तु तस्य यशोलाभः म्याक्स्मुल्लरेन प्राप्तः। एतदर्थं म्याक्स्मुल्लरः तस्मै विदुषे धनमपि दत्तवान्।

 
म्याक्स्मुल्लरस्य चित्रम्।

"[१६]

गिल्फोर्ड् उपन्यासकः

सम्पादयतु
 
व्यानिटी फार् ब्रिटिष् पत्रिकायाम्(१८७५ तमे वर्षे)

१८८८ तमे वर्षे गिल्फोर्ड् उपन्यासकरूपेण ग्लास्को विश्वविद्यालये नियुक्तः। ततः चत्वारि वर्षाणि यावत् माक्स् म्युलर् इत्ययं चतस्रः भाषणसरणीः कृतवान्।[३] The titles and order of the lectures were as follows:[१७]

  1. सवाभाविकः धर्मः। प्रथमस्तरे परिचयात्मिका उपन्यासमाला आसीत्।
  2. कायिकः धर्मः। अनन्ते किमपि तत्त्वं शोधयितुं विविधपरम्पराः विविधान् उपायान् कृतवन्तः इत्यस्याः उपन्यासमालायाः सारः।
  3. मानवशास्त्रीयः धर्मः. तृतीयोपन्यासमालिकायां आत्मविषये विविधपरम्पराणां मतानि उपस्थआपितानि। मृत्योः अनन्तरं किं जायते इति विविधधर्मेषु उक्तानि तत्त्वानि विवृतानि।
  4. तत्त्वशास्त्रीयः मनःशास्त्त्रीयः च धर्मः. चतुर्थ्याम् उपन्यासमालिकायां देवमानवयोः सम्बन्धविषये उपन्यासः कृतः। [१८]:108–110

म्यक्स् मुल्लरः यद्यपि भारतं न आगतवान् तथापि भारतस्य विषये तस्य अध्ययनं आसीत्। हिन्दूधर्मस्य पुनर्घटनं करणीयम् इत्यपि तस्य मतम् आसीत्। [१९] सर्वेषामपि धर्माणां मूलं तत्त्वम् उत्तमं भवति, गच्छता कालेन तत्र धर्मे कलङ्काः आयान्ति इति सः प्रत्यपादयत्।[२०]ब्रह्मसमाजेन सह मिलित्वा भारते सामाजिकपरिवर्तनानि कर्तुं म्याक्स् मुल्लरः आरब्धवान्। ब्रह्मसमाजः क्रैस्तमतस्य भारतीयरूपम् इति म्याक्स् मुल्लरस्य विश्वासः आसीत्।[२१] तस्य षष्टितमे वयसि कृते उपन्यासे सः भारतं संस्कृतं च दृष्ट्वा किं किम् अनुसरणीयम् इति विवृतवान्।[२२]२८ मे १८९६ तमे दिने स्वामिविवेकानन्देन सह म्याक्स्मुल्लरस्य मेलनम् अभवत्। [२३]

विवादाः

सम्पादयतु

स्वाभाविकधर्मः इतिविषये गिल्फोर्ड् उपन्याससमये मुल्लरः क्रैस्तमतविरोधी इति प्रचारः अभवत्। तत्र उपन्यासकत्वेन किमर्थं म्याक्स्मुल्लरः आहूतः इत्यपि आक्षेपः आसीत्।[२४] मुल्लरस्य उपन्यासः क्रुसेड् समानाः इत्यपि आरोपः कृतः।[२५]बाडन् चेर् निर्वाचनसमये अपि क्रैस्तमतविरोधी इति कारणतः सः अध्यक्षत्वेन न चितः।[उद्धरणं वाञ्छितम्]क्रैस्तमतस्य तुलनाम् अन्यधर्मैः सह कृतवान् इति कारणतः अपि तस्य विषये विरोधः प्रवृद्धः।[१८]:109–10 माक्स् मुल्लरः डार्विनस्य विकासवादस्यापि विरोधी आसीत्।[उद्धरणं वाञ्छितम्][१८]:113डार्विनस्य भाषाविकासवादमपि विरुध्य स्पष्टनार्थं डार्विनाय एव पत्रं लिखितवान्। [२६]म्याक्स्मुल्लरः आर्यन् सिद्धान्तम् प्रवर्तितवान्। गच्छताकालेन जनाङ्गीय इति शब्दस्य उत्पत्तौ इदमेव कारणम् अभवत्[२७]तेन प्रतिपादितः टुरेनियन् भाषा सिद्धान्तः अपि बहुभिः विरुद्धः।[२८]

पुरस्काराः

सम्पादयतु
 
भारतस्य पत्रालयचिटिकायां म्याक्स्मुल्लरः

१८६९ तमे वर्षे म्याक्स् मुल्लरः प्राचीनतमायां फ्रेञ्च् संस्थायां सदस्यत्वेन चितः[६]

१८७४ तमे वर्षे पार् ले मेरिट् पुरस्कारेण सम्मानितः।[२९]

१८७५ तमे वर्षे बेवेरियन् माक्सिमिलियन् आर्डर् फआर् सैन्स् आर्ट् पुरस्कारेण सम्मानितः[३०]

१८९६ तमे वर्षे इङ्ग्लेण्ड्देशस्य प्रिवि कौन्सिल् सदस्यः अभवत्।

वैयक्तिकजीवनम्

सम्पादयतु

मुल्लरः १८५५ तमे वर्षे ब्रिटिश् नागरिकः अभवत्।

१८५९ तमे वर्षे जार्जिना अडिलेड् इत्यनया तस्य विवाहः अभवत्। तयोः अडा, मेरी, बीट्रैस्, विलियं माक्स् म्युलर् इति चत्वारि अपत्यानि अभवन् ।[५] जार्जिनायाः समीपे म्याक्स्मुल्लरेण लिखिताः लेखाः आसन्। जार्जिना १९१९ वर्षे दिवङ्गता। लेखाः आक्स्फर्ड् विश्वविद्यालयस्य बाल्डिन् ग्रन्थालये विद्यन्ते।[३१]

मरणं मरणोत्तरघटनाः च

सम्पादयतु

१८९८ तः माक्स् म्युलर् इत्ययम् रोगः बाधते स्म। अक्टोबर् २८ १९०० तमे दिने सः दिवङ्गतः[३]तस्य मरणानन्तरं आक्स्फर्ड् विश्वविद्यालये इतिहासः, उत्खननशास्त्रम्, भाषासास्त्रं साहित्यशास्त्रं, भारतीयधर्मशास्त्रं च पठितुं स्मारकनिधिः स्थापितः।[३२]भारते गोथे संस्थायाः माक्स् म्युलर् भवनम् इति पुनर्नामकरणमं अभवत्। नवदेहल्यां माक्स्-म्युलर्-वीथी च नामाङ्किता। [३३]मुल्लरस्य जीवनचरित्रम् लोरेन्स् वान् डेन् बासेन लिखितम्। तच्च २००२-तमे वर्षे प्राकाशतां नीतम्। निराद् जौधरिणा अपि १९७४-तमे वर्षे माक्स् म्युलर् इत्यस्य विषये किञ्चन पुस्तकं प्रकाशितम्।[उद्धरणं वाञ्छितम्]

माक्स् म्युलर् इत्यस्य कृतयः एवं वर्तते। अत्र १८ कृतयः सम्पादिता अपि सन्ति।

उल्लेखाः

सम्पादयतु
  1. John C. Wells (2008). Longman Pronunciation Dictionary (3rd ed.). Longman. ISBN 9781405881180. 
  2. "Duden | Max | Rechtschreibung, Bedeutung, Definition". Duden (in German). आह्रियत 20 October 2018. "Mạx" 
  3. ३.० ३.१ ३.२ ३.३ Sara Abraham and Brannon Hancock, doctoral students of theology in University of Glasgow Friedrich Max Muller Archived २०१०-०४-०९ at the Wayback Machine. Gifford Lectures.
  4. https://en.wikipedia.org/wiki/Carl_Maria_von_Weber
  5. ५.० ५.१ ५.२ ५.३ ५.४ R. C. C. Fynes (May 2007), Müller, Friedrich Max (1823–1900), Oxford Dictionary of National Biography, Oxford University Press, 2004; online edn, [१], accessed 17 March 2013]
  6. ६.० ६.१ Académie des Inscriptions et Belles-Lettres.
  7. Charles Johnston (1900) An Estimate of Max Muller (1823–1900). The American Monthly Review of Reviews, Vol XXII, July–December. The Review of Reviews Company: New York, pp.703–706.
  8. Dictionary of National Biography, 1901 supplement.
  9. https://en.wikisource.org/wiki/Max_M%C3%BCller%27s_submission_to_the_members_of_Convocation_of_the_University_of_Oxford,_1860
  10. Müller (1902), pp. 241–242
  11. Müller (1902), p. 244
  12. George Sandeman (1907*). The Harmsworth Encyclopaedia: Everybody's Book of Reference : containing 50,000 articles, profusely illustrated, Volume 6. The Amalgamated Press. p. 4042. 
  13. Margaret Thomas (2011). Fifty Key Thinkers on Language and Linguistics. Routledge. p. 109. ISBN 978-0415373029. 
  14. "Vedanta Society of New York: Ramakrishna". Archived from the original on 16 September 2016. आह्रियत 25 August 2016. 
  15. B. R. Modak (1995). Sayana, Volume 203. Sahitya Akademi. p. 33. ISBN 9788172019402. 
  16. "Scientific American. v.50.". आह्रियत 25 August 2016. 
  17. Müller, F. Max (1895), Theosophy or Psychological Religion. London: Longmans, Green and Co., pp.89–90.
  18. १८.० १८.१ १८.२ Josephson-Storm, Jason (2017). The Myth of Disenchantment: Magic, Modernity, and the Birth of the Human Sciences. Chicago: University of Chicago Press. ISBN 978-0-226-40336-6. 
  19. Menant, M. D. (1907). "Influence of Max Muller's Hibbert Lectures in India". The American Journal of Theology 11 (2): 293–307. 
  20. Jacques Waardenburg (1999). Classical Approaches to the Study of Religion: Aims, Methods, and Theories of Research, Volume 1. Walter de Gruyter. p. 87. ISBN 9783110163285. 
  21. Sharada Sugirtharajah (2003) Imagining hinduism: a postcolonial perspective. Routledge. pp. 60–61.
  22. Max Müller, INDIA – LECTURE II. Truthful Character of the Hindus, A Course of Lectures Delivered before the University of Cambridge, Project Gutenberg
  23. Swami Nikhilananda (1953). Vivekananda: A Biography. New York: Ramakrishna-Vivekananda Center. p. 106. ISBN 978-0-911206-25-8. Archived from the original on 25 January 2012. आह्रियत 19 March 2012. 
  24. Müller (1902), p. 262
  25. Müller (1902), p. 263
  26. Charles Darwin. More Letters of Charles Darwin – Volume 2. p. 397
  27. Jorg Esleben; Jörg Esleben; Christina Kraenzle; Sukanya Kulkarni (2008). Mapping channels between Ganges and Rhein: German-Indian cross-cultural relations. Cambridge Scholars publication. ISBN 9781847185877. "In later years, especially before his death, he was deeply saddened by the fact that these classifications later came to be expressed in racist terms." 
  28. David Waterhouse (2002). The Origins of Himalayan Studies: Brian Houghton Hodgson in Nepal and Darjeeling. p. 20/232. ISBN 9780203480359. "In 1910, a full decade after Muller's death, the Turan Tarsasag 'Turanian Society' was founded in order to study the history and culture of the Hungarians and other 'Turanian' peoples." 
  29. Müller (1902), p. 462
  30. Müller (1902), p. 503
  31. "Max Muller Papers". आह्रियत 25 August 2016. 
  32. Max Müller Memorial Fund Archived २०११-०१-०३ at the Wayback Machine Faculty of Oriental Studies, University of Oxford.
  33. About Max Mueller. Goethe-Institut / Max Mueller Bhavan.
  34. Müller, F. Max (Friedrich Max) (16 October 2009). My Autobiography: A Fragment. आह्रियत 25 August 2016 – via Project Gutenberg. 

उद्धरणस्रोतांसि

सम्पादयतु
  • Müller, Georgina (1902). The Life and Letters of Right Honorable Friedrich Max Müller. Vol. 1. London: Longman. 

अधिकपठनाय

सम्पादयतु
  • Lourens van den Bosch (2002). Friedrich Max Müller: A Life Devoted to Humanities. E. J. Brill. ISBN 978-90-04-12505-6. 
  • Jon R. Stone (6 December 2002). The Essential Max Müller: On Language, Mythology, and Religion. Palgrave Macmillan. ISBN 978-0-312-29309-3. 
  • Nirad C. Chaudhuri (1974). Scholar Extraordinary: The Life of Professor the Rt. Hon. Friedrich Max Müller. Chatto & Windus. 
  • Stephen G. Alter (9 March 2005). "The Battle with Max Müller". William Dwight Whitney and the Science of Language. Johns Hopkins University Press. pp. 174–207. ISBN 978-0-8018-8020-9. 
  • Stefan Arvidsson (2006). Indo-European Mythology as Ideology and Science. University of Chicago Press. ISBN 9780226028606. Archived from the original on 21 December 2016. 
  • John R. Davis and Angus Nicholls, eds. (2017) Friedrich Max Müller and the Role of Philology in Victorian Thought. Routledge
  • John R. Davis and Angus Nicholls (2016), "Friedrich Max Müller: The Career and Intellectual Trajectory of a German Philologist in Victorian Britain". Publications of the English Goethe Society 85, no. 2-3 (2016): 67-97
  • Arie Molendijk (2016). Friedrich Max Müller and the Sacred Books of the East. Oxford University Press.
  • Joan Leopold, "Steinthal and Max Müller: Comparative Lives", Chajim H. Steinthal, Sprachwissenschaflter und Philosoph im 19. Jahrhundert. Linguist and Philosopher in the 19th Century, eds. Hartwig Wiedebach and Annette Winkelmann. Leiden, Boston, Köln: Brill, 2002 (= Studies in European Judaism, IV), pp. 31–49.
  • Joan Leopold,"Max Müller and the Linguistic Study of Civilization“ and Editor. Friedrich Max Müller, "Comparative Philology of the Indo-european languages in its bearing on the early civilisation of Mankind" (1849), in Contributions to Comparative Indo-European, African and Chinese Linguistics: Max Müller and Steinthal. Dordrecht and Boston: Springer, 1999, pp. 1–206. [= Prix Volney Essay Series, III] With full bibliography of works.
  • Joan Leopold, "Ethnic Stereotypes in Linguistics: The Case of Friedrich Max Müller (1847 51)", Papers in the History of Linguistics [delivered at Princeton, 1984] eds. H. Aarsleff, L. G. Kelly and H.-J. Niederehe. Amsterdam and Philadelphia: J. Benjamins, 1987, pp. 501–12.
  • Joan Leopold, "Friedrich Max Müller and the question of the early Indo Europeans (1847 1851)", Etudes inter-ethniques, Annales du Centre d'études supérieures et de recherches sur les relations ethniques et le racisme (Paris), VII (1984), 21-32.
  • Joan Leopold, "Britische Anwendungen der arischen Rassentheorie auf Indien 1850 70", Saeculum, XXV (1974), 386-411. (trans. of following item)
  • Joan Leopold, "British Applications of the Aryan Theory of Race to India 1850 70", The English Historical Review, LXXXIX (1974), 578-603. (Winner of Universities Essay Prize, Royal Asiatic Society, London)
  • Joan Leopold, "The Aryan Theory of Race in India 1870-1920", The Indian Economic and Social History Review, VII (1970), 271-97.

बाह्यसम्पर्काः

सम्पादयतु
विकिपीडिया-जालस्य सहपरियोजनाभ्यः माक्स् म्युलर् एतस्मिन् विषये अधिकं विवरणं प्राप्यताम् -
  चित्राणि एवम् अन्याः सञ्चिकाः कॉमन्स् मध्ये
  सूक्तयः विकिसूक्तीषु
  ग्रन्थः विकिस्रोतसि
"https://sa.wikipedia.org/w/index.php?title=माक्स्_म्युलर्&oldid=485022" इत्यस्माद् प्रतिप्राप्तम्