ऐतरेयोपनिषत्
ऐतरेयोपनिषत् (Aitareyopanishat) ऋग्वेदस्य ऐतरेयारण्यके अन्तर्गता विद्यते । अस्याम् उपनिषदि त्रयः अध्यायाः विद्यन्ते । प्रथमे अध्याये त्रयः
खण्डाः । द्वितीये तृतीये च अध्याये एकैकः खण्डः विद्यते । आत्मनः वर्णनम् आत्मना कृता सृष्टिः च अस्याः उपनिषदः विषयाः ।
उपनिषत्सारः
सम्पादयतुआदौ आत्मामात्रम् आसीत् । अस्माकं प्रत्यक्षं जडचेतनसम्बद्धं नामरूपात्मकं जगत् सृष्टेः प्राक् ब्रह्मरूपेणैव संस्थितमासीत् । तदा अन्यत् किञ्चित् पदार्थान्तरं नासीत् । सः स्वस्य सङ्कल्पेन चतुरः लोकान् असृजत् । अम्भः मरिचिः मरम् आपः इति चत्वारः लोकाः चतुर्दशलोकानामुपलक्षणार्थाः । ततः लोकपालानां सर्जनाय विराट्पुरुषं निर्मितवान् । विराट्पुरुषस्य शरीरे इन्द्रियाणि तत्तदभिमानिदेवताः च अजायन्त ।
अत्र ब्रह्मविद्यायाः प्राधान्यमस्ति । तत्रादौ परमात्मनः सृष्टिविषयकः सङ्कल्पः वर्ण्यते । प्राणिनां कर्मफलोपभोगार्थं ब्रह्म भोग्यभोक्तृप्रपञ्चं सृजति । अत्र अम्भः मरिचिः मरम् आपः इति चत्वारः लोकाः चतुर्दशलोकानामुपलक्षणार्थाः । तदुक्तम् आत्मा वा इदमेक एवाग् आसीत् । सा ईक्षत लोकान्नु सृजा इति लोकसृष्टेरनन्तरं लोकपालं स्रष्टुमीष्टे । यतः नियन्तुः अभावे जगतः नियन्त्रणं न स्यात् । तदा पञ्चभूतानि उपयुज्य पुरुषशरीरं सृजति । तत्र यथोचितं स्थानमधितिष्ठन्ति अन्याः देवताः अग्निः वाक् भूत्वा मुखं प्राविशत् इत्यादिरूपेण ।
तदुत्तरं संसारनिर्वहणार्थम् अशनायापिपासयोः सर्जनं करोति । ते च देवतासु निक्षिपति अशनायापिपासावारणाय अन्नस्य सृष्टिं करोति । तदन्नं प्राप्तुं जीवः सर्वासां देवतानां साहाय्येन प्रयतते । तदा सर्वासु अशक्तासु अपानस्थितो मृत्युः शक्तोऽभूत् । तदपानेनाजिघृक्षत् तदावयत् । सैषोऽन्नस्य ग्रहो यद्वायुरन्नायुर्वा एष यद्वायुः इति । स्वयं सम्पूर्णं शरीरं जीवितुमसमर्थं मत्वा स्रष्टा परमात्मा पुरुषस्य मूर्धानं विदार्य शरीरं प्रविशति । स्वयं परमात्मा प्रविष्टः अस्मिन् शरीरे इति कारणात् यदि जीवः तं प्रबुध्यते तर्हि परानन्दं प्राप्नोति । अत्र इदन्द्रः इति पदस्य आत्मा दृष्टः इत्यर्थः ।
संसारी जीवः पुरुषशरीरे वीर्यरूपेण स्थितः यदा स्त्रियाः गर्भे सिञ्च्यते तदा प्रथमं जन्म भवति । माता आगतं तेजः स्वस्य एव अङ्गमिति मत्वा तस्य परिरक्षणं वर्धनं च यत्नतः करोति । नवमासानन्तरं यदा गर्भात् सः जीवः बहिरागच्छति तदा तस्य जीवस्य द्वितीयं जन्म । अयं पुत्रः पितुः प्रतिनिधिरूपेणा परिचीयते । पितुः आत्मस्वरूपोऽयं सन्तानः पितृवत् सकलं वैदिकं लौकिकं च कर्म कुर्वन् आस्ते । एषः पितृत्वं स्वस्मिन् आरोप्य स्वस्य पुत्रस्य कृते कर्माधिकारं दत्त्वा यदा मृतो भवति तत् अस्य तृतीयं जन्म ।
तृतीयाध्याये तावत् ऋग्वेदीयमहावाक्यमन्तर्भवति । तदेव प्रज्ञानं ब्रह्म । समग्रोपनिषदि निरूपितं तथ्यमाधारीकृत्य सर्वमधिगम्य साधकः स्वतः जिज्ञासां कर्तुमुपक्रान्तो भवति किं तावत् ब्रह्म इति येन मनुष्यः पश्यति, येन शृणोति, येन जिघ्रति, स्वादु चास्वादु च विजानाति इति । तदेव तत्त्वं प्रज्ञानमिति कथितम् –संज्ञानमाज्ञानं विज्ञानं प्रज्ञानं मेधा इत्यादिना । एतत् सर्वं प्रज्ञानस्यैव नामधेयं भवति । पञ्चमहाभूतानि, चत्वारः भूतग्रामाः, चराचरजगत् च तेनैव उत्पन्नानि तेनैव व्याप्तानि इति कारणात् प्रज्ञानेत्रं प्रज्ञाने प्रतिष्ठितमिति कथितम् । ईदृशं तत्त्वं ज्ञात्वा मुमुक्षुः सच्चिदानन्दं ब्रह्म लब्ध्वा मुक्तो भवति ।
प्रमुखाः शब्दार्थाः
सम्पादयतु- ऋतम् - सत्यानुसृतं कर्म
- मरीचि:- किरणम्, प्रकाशः
- तपः - शक्तेः केन्द्रीकरणम्
- औषधि - पुष्पस्य विकासानन्तरं शलाटुः यत्र भवेत् तादृशाः सस्यलतादयः
- वनस्पतिः - अवशिष्टानि तृणादीनि
- आज्ञान - अवलोकनशक्तिः
- धृतिः - दृढमतिः
- चारुज - कृशचर्मस्यूतवेष्टनेन जातः
- अण्डज - अण्डात् जातः
- स्वेदज - शरीरस्य स्वेदेन जातः
- प्रज्ञा - स्वसंवित्, बुद्धिः
ऐतरेयोपनिषदः वैशिष्ट्यानि
सम्पादयतु- आदौ विश्वे आत्मामात्रम् आसीत्, नान्यत् किमपि इत्येतेन तत्त्वज्ञानपूर्णेन वाक्येन एव अस्याः उपनिषदः आरम्भः भवति । अन्यासु उपनिषत्सु इन्द्रियगोचरवस्तूनाम् उत्पत्तिः कथं जातम् इति निरूप्य अन्ते आत्मनः निरूपणं भवति । किन्तु अस्याम् उपनिषदि आत्मसाक्षात्कारं प्राप्तवद्भिः ऋषिभिः आदौ आत्मतत्त्वं निरूप्यते । आत्मना इदं विश्वं कथम् उत्पन्नम् इति निरूप्यते । विश्वस्य उत्पत्तेः मूलकारणानि विविधासु उपनिषत्सु बहुधा निरूपितं वर्तते । तेषां सर्वेषां निरूपणानां समन्वयं कृत्वा अस्याम् उपनिषदि निरूपितं यत् परमात्मनः सङ्कल्पशक्त्या विविधसृष्टिः जाता इति ।
- अस्याम् उपनिषदि विश्वशक्तयः देवताः / लोकपालाः इति निर्दिष्टाः सन्ति । तासां देवतानां पुरुषे विद्यमानानाम् इन्द्रियशक्तीनां च निकटसम्बन्धः अत्र स्पष्टतया निरूपितः वर्तते । इन्द्रियशक्तिषु अधिष्ठितॄणां देवतानां पोषणाय अन्नादीनि उत्पादितानि ।
- देहे देवतानां प्रवेशनेन पुरुषः परिपूर्णः जातः चेदपि ’मां विना एतेषु स्थिरता कथम् ?’ इति चिन्तयता आत्मना ब्रह्मरन्ध्रद्वारा पुरुषशरीरे प्रविष्टम् । सर्वेषां समन्वयनाय आत्मा पुरुषशरीरे प्रतिष्ठितः स्यात् इत्येषः एव सारः ।
- तत्त्वविवेचनाय आवश्यकाः मैथुन-गर्भादयः विषयाः अत्र स्पष्टैः शब्दैः कथिताः सन्ति । पुरुषस्य त्रीणि जन्मानि। 1) वीर्यसिञ्चनम्, (तत् स्त्रियाः शरीराङ्गं भवति) महिला स्वशरीरे प्राप्तं पत्युः स्वरूपस् पालनं करोति। 2) संस्कारादिना द्वितीयः जन्म (सिमन्तसंस्कारादि) भवति। सन्तानत्वेन उत्पन्नं तत् सन्तानं पितुः प्रतिनिधित्वं करोति। 3) पिता स्वयं मृत्युं प्राप्य पुनः जन्म धरते। तत् तस्य तृतीयं जन्म। वामदेवऋषिः गर्भे सर्वदेवानाम् उत्पत्तिं ज्ञात्वा तत्त्वज्ञानं प्राप्य मुक्तः जातः।
- अन्ते आत्मस्वरूपं निरूपितवन्तः सन्ति । चित्ते जायमानाः सर्वे अपि विकाराः प्रज्ञानविकाराः एव इत्यतः प्रज्ञानमेव ब्रह्म इति अत्र ऋषिभिः उपदिष्टमस्ति । एवम् आत्मना एव सर्वं जातम् इति आरभ्य आत्मा ज्ञानमयः इति वदन्तः उपनिषदः उपसंहारं कृतवन्तः सन्ति ।
- अस्याम् उपनिषदि आधुनिक-उत्क्रान्तेः बीजानि दृश्यन्ते । आत्मसङ्कल्पेन पुरुषोत्पत्तिः, ततः इन्द्रियक्रियाणां सूक्ष्मस्वरूपं, ततः बाह्येन्द्रियाणि इत्येतत् सृष्टिक्रमः । उपनिषदः अन्ते प्रज्ञानस्य विविधरूपाणां मति-धृतीनां विवरणं मनश्शास्त्रदृष्ट्या प्रामुख्यं भजते । चैतन्यमेव मनश्शक्तीनाम् आधारः इति प्रतिपादितः अस्ति । ततः मनसः विविधाः क्रियाः विवृताः सन्ति । एतस्मात् प्राचीनऋषीनां बुद्धिशक्तिः कियती तीक्ष्णा आसीत्, तेषां ज्ञानपिपासा कियती प्रबला आसीत् इति अवगम्यते ।
बाह्यसम्पर्कतन्तुः
सम्पादयतु- Aitareya Upanishad
- Aitareya Upanishad
- Sri Aurobindo, The Upanishads [१]. Sri Aurobindo Ashram, Pondicherry. 1972.