उर्वारुकरसः

(कर्कटीरसः इत्यस्मात् पुनर्निर्दिष्टम्)

फलकम्:Infobox nutritional value

उर्वारुकरसः
उर्वारुकानि

उर्वारुकस्य रसः एव उर्वारुकरसः । एतत् उर्वारुकम् आङ्ग्लभाषायां Cucumber इति उच्यते । तस्य रसः Cucumber Juice इति उच्यते । उर्वारुकरसः आरोग्यार्थम् अपि बहु उत्तमम् । अस्य शाकरसस्य निर्माणं कृत्वा कूपीषु, करण्डकेषु वा पूरयित्वा संरक्ष्यते । तादृशः शाकरसः बहुकालं यावत् न नश्यति । यदा आवश्यकं तदा गृहे एव निर्माय पातुम् अपि शक्यते । आपणेषु उपहारमन्दिरेषु चापि अस्य उर्वारुकरसस्य विक्रयणं क्रियते । कुत्रचित् मार्गपार्श्वे अपि उर्वारुकरसं निर्माय विक्रयणं कुर्वन्ति अपि । भारते तु अयं उर्वारुकरसः अत्यन्तं प्रसिद्धं पेयम् अस्ति । उर्वारुकानि बहुविधानि सन्ति । तदनुगुणं फलरसस्य अपि वर्णः रुचिः च परिवर्तते ।

अस्य उर्वारुकरसस्य निर्माणम् सम्पादयतु

अस्य उर्वारुकरसस्य निर्माणम् अपि अत्यन्तं सुलभम् । प्रथमम् उर्वारुकं प्रक्षाल्य त्वक् निष्कास्य लघु लघु खण्डाः करणीयाः । अनन्तरं बीजानि पृथक् करणीयानि । तदनन्तरं तेषु खण्डेषु शर्करां योजयित्वा सम्यक् पेषणं करणीयम् । तदनन्तरं तत्र जलं योजनीयम् । यदि लघु खण्डानां पेषणं न जातं तर्हि शोधनीयम् । अपेक्षितं चेत् तत्र एलायाः मरीचस्य च चूर्णम् अपि योजयितुं शक्यते ।

"https://sa.wikipedia.org/w/index.php?title=उर्वारुकरसः&oldid=399908" इत्यस्माद् प्रतिप्राप्तम्