कर्णाटकराज्यस्य विशेषधूमशकटयानानि
सुवर्णरथम् | |
---|---|
कर्णाटकराज्यस्य विशेषधूमशकटयानम् |
(कर्णाटकस्य वैभवोपेतं धूमशकटम्) एतत् वाहनं प्रवासोद्यमविभागेन अभिमानेन यात्रिणां सौलभ्याय कल्पितम् विशेषधूमशकटयानम् अस्ति । अस्य नाम सुवर्णरथम् इत्यस्ति । यथा महाराष्ट्रराज्ये डेक्कन् ओडिस्सी, राजास्थानराज्यस्य ‘प्यालेस् आन् दि व्हिल्स्’ तथा सुवर्णरथयानम् सुव्यवस्थितम् अस्ति । अस्य संरचनायाः कृते २६ कोटिरुप्यकाणि व्ययीकृतानि सन्ति । अतिसुन्दरम् धूमशकटयानमेतत् १९ विभागयुक्तम् अस्ति । याने एव उपहारगृहं , सभाभवनं, व्यायामशाला इत्यादयः विभागाः सन्ति । आहत्य १०३ जनाः एव अनेन यानेन गन्तं शक्नुवन्ति । प्रत्येकं प्रवासिनः कृते जनद्वयं सेवानिरतं भवति । एतत् यानं बेङ्गळूरुतः मैसूरु हासन हम्पी गदग हुब्बळ्ळीमार्गात् गोवाराज्यस्य सम्पर्कं कल्पयति । मार्गे श्रीरङ्गपट्टणम् बेलूरुहळेबीडु श्रवणबेळगोळ ऐहोळे बादामी पट्टदकल्लु प्रदेशदर्शनमपि भवति । अस्य प्रवासस्य ६२० कि.मीमार्गः । सप्तदिनेषु एकवारं प्रवासः समाप्तः भवति । षण्णां रात्रीणां शयनव्यवस्था धूमशकटयाने एव भवति । विशेषयात्रिकानामेव एतत् सौकर्यम् उपयुक्तम् अस्ति । मूल्यं च अधिकं भवति । क्रिस्ताब्दे २००८ तमे एतत् यानम् कार्यरतम् अभवत् ।
हासनमङ्गलूरुधूमशकटयानम्
सम्पादयतुविशेष धूमशकटयानानुभवः हासनतः मङ्गलूरुपर्यन्तम् धूमशकटयानमार्गः सम्पूर्णे वनप्रदेशे घट्टप्रदेशे च भवति । अस्य दीर्घता १८९ कि.मी । क्रिस्ताब्दे २००७ तमे वर्षे बेङ्गलूरुतः मैसूरु, तथा हासनतः मङ्गळूरुपर्यन्तं धूमशकटयानम् आरब्धम् अस्ति । इदानीं दिने एकवारं, रात्रौ च एकवारं यानव्यवस्था अस्ति । पश्चिमघट्टप्रदेशतः सागरतीरपर्यन्तमस्ति अयं धूमशकटमार्गः । घट्टप्रदेशे सावधानतया यानं गच्छति । सर्वतः प्रपाताः पर्वतशिखराणि निर्झराः, नद्यः, सेतवः, सुरङ्गमार्गाः प्रवासिजनानां रोमाञ्चनकारणानि भवन्ति । ९१ सेतवः, ३७ सुरङ्गमार्गाः च सन्ति । अतिदीर्घः सुरङ्गमार्गः ५९८ मीटरदीर्घः अस्ति । शरावतीसेतुः दीर्घः सेतुः अस्ति । ११० वक्रमार्गाः भवन्ति । दुर्गमप्रदेशे गच्छत् एतत् विशेषधूमशकटयानं गमनसमये आनन्दरायकम् अस्ति । पूर्णीमायाः रात्रौ तु अनेन यानेन प्रवासः अलौकिकम् आनन्दं ददाति । प्राकृतिके वातावरणे एव एषः धूमशकटमार्गः निर्मितः अस्ति ।