कर्मकारकम्
कर्तुरीप्सिततमं कर्म -१.४.४९ कर्तुः क्रियया आप्तुम् इष्टतमं कारकं कर्मसंज्ञं स्यात् इति सूत्रार्थः । कर्ता काञ्चित् क्रियां निर्वर्तयति । तया क्रियया किञ्चित् फलं जायते । तच्च फलं यत्र सम्बद्धं तण्डुुलं भवतु इति इच्छति तत् कर्मसंज्ञां प्राप्नोति । तथा च कर्ता स्वक्रिया (प्रयोज्य) जन्यफलेन सम्बन्धुम् इष्यमाणं कारकं कर्मसंज्ञं स्यात् इति फलितोऽर्थः ।
यथा – सूदः तण्डुलं पचति । अत्र पचधातोः अर्थः विक्लित्तिरूपं फलं, तदनुकूलक्रिया च । पाकक्रियायाः आश्रयः सूदः । अतः सूदः कर्ता । कर्तुः सूदस्य पाकक्रियाजन्यविक्लित्तिरूपफलेन सम्बन्धुम् इष्यमाणः तण्डुलः । अतः तण्डुलः कर्म भवति ।
इदं मनसि आकलनीयम् – अत्र सूदः पाकक्रियां निर्वर्तयति । तण्डुले विक्लित्तिरूपः विकारः जायते । स्वपाकक्रियया तण्डुले विक्लित्तिरूपः विकारः (विक्लित्तिरूपं फलं जायताम् इति इच्छया एव सूदः प्रवर्तते’ इति )
उदाहरणम्
सम्पादयतु- बालः ग्रामं गच्छति । गम्धातोः अर्थः संयोगरुपं फलं, तदनुकूलक्रिया च । गमनक्रियायाः आश्रयः बालः । अतः बालः कर्ता । कर्तुः बालस्य गमनक्रियाजन्यसंयोगरुपफलेन सम्बन्धुम् इष्यमाणः ग्रामः । अतः ग्रामः कर्म भवति (गमनं नाम पूर्वदेशस्य त्यागः, उत्तरदेशस्य प्राप्तिः । बालः स्वगमनेन ग्रामे स्वसंयोगो भवतु इति इच्छति ।)
- चैत्रः कूपं खनति । खनधातोः अर्थः अवदारणरुपं फलं, तदनुकूलक्रिया च । खननक्रियायाः आश्रयः चैत्रः । अतः चैत्रः कर्ता । कर्तुः चैत्रस्य खननक्रियाजन्य –अवदारणरुपफलेन सम्बन्धुम् इष्यमाणः कूपः । अतः कूपः कर्म भवति ।
- भक्तः हरिं भजति । भज्धातोः अर्थः तुष्टिरुपं फलं, तदनुकूलक्रिया च । भजनक्रियायाः आश्रयः भक्तः । अतः भक्तः कर्ता । कर्तुः भक्तस्य भजनक्रियाजन्यतुष्टिरुपफलेन सम्बन्धुम् इष्यमाणः हरिः । अतः हरिः कर्म भवति (भजनं नाम पूजनाइपरिचरणात्मिका क्रिया । परिचरणात्मिकां क्रियां भक्तः करोति । तया परिचरणात्मकक्रियया हरौ तुष्टिः भवति । भक्तः भजनक्रियया हरौ तुष्टिरुपं फलं भवतु इति इच्छया खलु प्रवर्तते ।)
इदमवधेयम्
सम्पादयतुसर्वेषां धातूनाम् अर्थः – फलं क्रिया च । धातवश्च सकर्मकाः अकर्मकाश्चेति द्विधा । तत्र सकर्मकधातुः यदा प्रयुज्यते तदा फलम् एकत्र भवति, क्रिया अन्यत्र भवति । फलं यत्र भवति सः कर्म । अतः एव फलाश्रयः कर्म इत्युच्यते । क्रिया यत्र भवति सः कर्ता । अतः एव क्रियाश्रयः कर्ता इत्युच्यते । यथा-सूदः तण्डुलं पचति । पच्धातोः अर्थः विक्लित्तिरुपं फलं तदनुकूलक्रिया च । विक्लित्तिः तण्डुले । अतः तण्डुलः कर्म । क्रिया सूदे । अतः सूदः कर्ता । अकर्मकधातुः यदा प्रयुज्यते तदा फलं क्रिया च कर्तरि एव भवतः । यथा –चन्द्रः वर्धते । वृध्धातोः अर्थः – वृध्दिरुपं फलं तदनुकूलक्रिया च । एतदुभयमपि कर्तरि चन्द्रे एव वर्तते ।