कळस
कळस (Kalasa) कर्णाटकस्य चिक्कमगळूरुमण्डले विद्यमानं किञ्चन क्षेत्रम् । अत्र कळसेश्वरस्य (शिवस्य) देवालयः प्रसिद्धः । अगस्त्यमहामुनेः जन्मस्थलम् अस्ति एतत् क्षेत्रम् । कुम्भसम्भवः कुम्भोद्भवः इति च मुनेः नामनी स्तः । तस्य कारणात् ग्रामस्य कळस (कन्नडभाषया कळस इत्यस्य कुम्भः इत्यर्थः) इति नाम आगतम् । भद्रानद्याः कारणतः इदं स्थलं द्वीपः इव जातः अस्ति । अत्र पञ्चतीर्थानि सन्ति । प्रमुखः विशेषः नाम भद्रानदीतीरे स्थितं कळसेश्वरं वरयितुं काशीतः आगता गिरिजाम्बा अपि अत्र पूजिता भवति । फेब्रुवरी-मार्च मासयोः अत्र त्रिदिनात्मकः रथोत्सवः प्रचलति ।
कळस कळश | |
---|---|
नगरम् | |
राष्ट्रम् | भारतम् |
ऱाज्यम् | कर्नाटकरज्यम् |
मण्डलम् | चिक्कमगळूरुमण्डलम् |
भाषाः | |
• अधिकृत | कन्नडभाषा |
Time zone | UTC+5:30 (भारतीय सामान्यकालमानम्) |
पत्रालयकूटसंख्या |
577 124 |
दूरवाणीकूटसंख्या | 08269 |
मार्गः
सम्पादयतु- मूडिगेरेतः ५५ कि.मी ।
- चिक्कमगळूरुतः ९७ कि.मी
- बेङ्गळूरुतः २५९ कि.मी ।