किष्किन्धाकाण्डम्
किष्किन्धाकाण्डस्य कथा
सम्पादयतुवानराणां वासस्थलम् अस्ति किष्किन्धा । रामलक्ष्मणौ वानरनायकं हनुमन्तम् अत्र एव अमिलताम् । किष्किन्धाधिपत्यात् च्युतः सुग्रीवः अपि अत्र मिलितः । रामः सुग्रीवसख्यम् अकरोत् । तस्य ज्येष्ठभ्रातुः वालिनः हननं कृत्वा सुग्रीवाय किष्किन्धासाम्राज्यं पुनः अदास्यत् रामः । सुग्रीवेण सीतायाः अन्वेषणे साहाय्यं कर्तव्यम् इति अङ्गीकृतम् आसीत् । किन्तु सिंहासनारोहणानन्तरं सुग्रीवः इदं सर्वं विस्मृतवान् । सः आमोदप्रमोदेषु मग्नः जातः । एतेन परमक्रुद्धः लक्ष्मणः किष्किन्धायाः विनाशने उद्यतः जातः । वानरराज्ञी तारा मध्ये प्रविश्य लक्ष्मणं सान्त्वयति । सुग्रीवम् उद्दिश्य स्वस्य वचनपालनं क्रियताम् इति सूचयति । ततः सुग्रीवः सीतायाः अन्वेषणाय चतुसॄषु दिक्षु अनुचरान् प्रेषयिष्यति । किन्तु पूर्व-पश्चिम-उत्तरदिक्तः अनुचराः रिक्तहस्ताः सन्तः प्रत्यागताः । दक्षिणदिशि प्रस्थितवतां नायकौ आस्ताम् अङ्गदः हनुमान् च । पक्षिणा सम्पातिना तैः ज्ञातं यत् सीता लाङ्कां प्रति नीता इति ।
किष्किन्धाकाण्डस्य केचन नीतिश्लोकाः
सम्पादयतु१ उत्साहो बलवानार्य नास्त्युत्साहात्परं बलम् ।
सोत्साहस्यास्ति लोकेऽस्मिन्न किञ्चिदपि दुर्लभम् ॥ (१ - १२२)
२ आढ्यो वापि दरिद्रो वा दुःखितः सुखितोऽपि वा ।
निर्दोषो वा सुदोषो वा वयस्यः परमा गतिः ॥ (८ -८)
३ सूक्ष्मः परमदुर्ज्ञेयः सतां धर्मः प्लवङ्गम ।
हृदिस्थः सर्वभूतानामात्मा वेद शुभाशुभम् ॥ (१८ -१५)
४ नियतिः कारणं लोके नियतिः कर्मसाधनम् ।
नियतिः सर्वभूतानां नियोगेष्विह कारणम् ॥ (२५-४)
५ ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा ।
निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥ (३४ - १२)
Pls. see details here - http://sa.wikisource.org/wiki/रामायणम्/सुन्दरकाण्डम्