कुमारव्यासः
कुमारव्यासः(Kumaravyasa) कर्णाटकस्य प्राचीनकविषु अन्यतमः। महाभारतम् आधारीकृत्य एतेन कुमारव्यासभारतं रचितम् अस्ति। एतस्य काव्यरचनायाः प्रभावः तावान् आसीत् यत् तस्य कालं कुमारव्यासस्य युगः इति निर्दिशन्ति।
कुमारव्यासः | |
---|---|
जन्म |
नारणप्पः १४१९ |
मृत्युः | १४४६ |
देशीयता | भारतीयः |
अन्यानि नामानि | ನಾರಣಪ್ಪ |
वृत्तिः | कविः |
कृते प्रसिद्धः | कन्नड महाभारतम् |
कुमारव्यासस्य जीवनम्
सम्पादयतुकुमारव्यासस्य कालः क्रि.श.१४ शतकम्। गदगस्य कोळिवाड एतस्य ग्रामः। गदगनगरं कर्णाटके अस्ति। गदगस्य वीरनारायणः एतस्य इष्टदेवः । एतस्य पुरातनं नाम नारणप्पः।
कुमारव्यासस्य कृतीनां वैशिष्ट्यानि
सम्पादयतुभामिनीषट्पदीम् आधारीकृत्य ये काव्यानि लिखन्ति तादृशेषु कविषु शिखरस्थाने अस्ति कुमारव्यासः। एतेन रचिता कर्णाटकभारतकथामञ्जरी भामिनीषट्पद्या एव अस्ति। अत्र दश पर्वाणि सन्ति । आरम्भस्य पञ्च पर्वाणि आदिपञ्चकम् इति अन्तिमपञ्चपर्वाणि युद्धपञ्चकं च इति प्रसिद्धानि। कुमारव्यासः महाभारतस्य १० पर्वाणि कन्नडभाषया अनूदितवान् अस्ति। काव्यारम्भे कुमारव्यासः इष्टदेवस्य वीरनारायणस्य स्मरणं करोति। यद्यपि एषः व्यासस्य इतिहासकाव्यम् अनुसृतवान् तथापि एतत् काव्यं कन्नडे पुराणकाव्यमित्येव प्रसिद्धम् अस्ति । एतत् कन्नडभारतकाव्यं वीरशृङ्गाररसैः पूर्णम् अस्ति । आदिपर्वणि माद्रिपाण्डोः अन्तिमकालस्य यः शृङ्गारसन्निवेशः वर्णितः सः अत्यन्तं मनोज्ञः अस्ति। अत्रत्यं वसन्तागमनस्य वर्णनम् अर्थगर्भितं ध्वनिपूर्णं च अस्ति। एतादृशः एव कश्चन महोन्नतः शृङ्गारप्रसङ्गः अस्ति यदा ऊर्वशी अर्जुने अनुरक्ता अभवत् । सामान्यतः अवलोकयामः चेत् कुमारव्यासभारतं यद्यपि भक्तिकाव्यमिव दृश्यते तथापि युद्धानां क्षोभा एव अत्र नितरां दृश्यते। युद्धपञ्चकस्थानि सर्वाणि पर्वाणि वीररसम् एव द्योतयन्ति। सुप्रतीकस्य गजस्य युद्धम्, अभिमन्योः चक्रव्यूहभेदनं, कर्णार्जुनयोः युद्धं, भीमदुर्योधनयोः युद्धं, भीष्मद्रोणयोः वीरावेशं युद्धं च अत्र उदाहरणानि। मूले अविद्यमानान् सन्दर्भान्, सन्निवेशान् च सृष्ट्वा स्वस्य प्रतिभासामर्थ्यं प्रदर्शितवान् अस्ति। कृष्णविषयकः भक्तिभावः काव्यस्य प्रतिकोणं प्रकाशयति। कृष्णः एव अत्र काव्यस्य सारथिः। कृष्णस्य पात्रचित्रणे कविः अत्र स्वस्य सर्वं सामर्थ्यं प्रदर्शितवान् अस्ति। भक्तिः अपि कश्चन रसः इति भावः अत्र प्रतिभाति। द्रौपदी-अर्जुन-धर्मराजादयः व्यक्तयः अत्र शरीरधारिणः इव दृग्गोचराः भवन्ति। कन्नडभाषायाः सर्वे अंशाः अस्मिन् काव्ये अन्तर्भवन्ति। अन्यदेश्याः ग्राम्याः संस्कृताः च शब्दाः अत्र उपयुक्ताः दृश्यन्ते। उपमारूपकालङ्कारयोः प्रयोगः भृशं दृश्यते। अतः एव एषः रूपकसाम्राज्यचक्रवर्ती इति प्रसिद्धः। एतादृशैः साधनैः कन्नडसाहित्यक्षेत्रे एतस्य कालः 'कुमारव्यासस्य युगः’ इति अभिज्ञानं प्राप्नोत्।
बाह्यसम्पर्कतन्तुः=
सम्पादयतु- Kumara Vyasa Archived २००४-०८-०३ at the Wayback Machine
- Karnata Bharata Katha Manjari and Kumara Vyasa
- Excellent voluntary effort on the net to bring Gadugina Bharatha to life in the e-book form
- Some Gamaka based renditions of parts of the Kumara Vyasa Bharatha Archived २०१६-०३-०३ at the Wayback Machine