गदगमण्डलम्
गदगमण्डलं (Gadag district) कर्णाटकराज्ये विद्यमानं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं गदगनगरम् । अस्मिन् मण्डले स्थितः लक्कुन्डि नामकः ग्रामः प्रेक्षणीयः अस्ति । एतत् उत्तरकर्णाटकस्य मण्डलेषु अन्यतमम् अस्ति । मण्डलकेन्द्रस्यापि गदग इत्येव नाम । गदगमण्डलं क्रिस्ताब्दे १९९७ तमे वर्षे "गदगमण्डलस्य" रचना अभवत् । पम्पः दुर्गसिंहः, चामरसः, कुमारव्यासः नयसेनः हुयिलगोळनारायणरायः आदिकविभिः गदगमण्डलं प्रसिद्धम् अस्ति । कतिपयवर्षेभ्यः पूर्वम् एतत् धारवाडमण्डलस्य एव भागः आसीत् । कन्नडकवेः कुमारव्यासस्य, गानयोगी पञ्चाक्षरी गवायी महोदयस्य जन्मना ख्यातम् एतन्मण्डलम् । गदगस्य मूलनामानि कृतुक, कृतुपुर, करडुगु, गलदुगु, गदुगु इत्यादीनि आसन् । कालक्रमेण गदग इति जातम् । गदग- बेटगेरी च यमलनगरे । बेङ्गलूरुतः एतत् ४३१ कि.मी.दूरे धारवाडतः ८० कि.मी. दूरे अस्ति ।
गदगमण्डलम् ಗದಗ ಜಿಲ್ಲೆ | |
---|---|
मण्डलम् | |
![]() गदगमण्डलस्य लक्कुण्डिनगरे स्थितं जैनमन्दिरम् | |
![]() कर्णाटकराज्ये गदगमण्डलम् | |
राष्ट्रम् |
![]() |
राज्यम् | कर्णाटकराज्यम् |
विभागः | बेल्गामविभागः |
केन्द्रम् | गदगनगरम् |
Area † | |
• Total | ४,६५६ km२ |
Population (2001)† | |
• Total | ९,७१,८३५ |
• Density | २०९/km२ |
भाषाः | |
• अधिकृत | कन्नडभाषा |
Time zone | UTC+5:30 (भारतीयसामान्यकालमानम्) |
दूरवाणिसंज्ञा | + 91 (0) |
Vehicle registration | KA-26 |
लिङ्गानुपातम् | .969 पु /स्त्री |
साक्षरता | 66.1% |
Website | gadag.nic.in |
विस्तीर्णतासंपादित करें
४६५७ च.कि.मी मिता ।
उपमण्डलानि -५संपादित करें
गदग, मुण्डरगी, रोण, नरगुन्द शिरहट्टी
क्षेत्राणिसंपादित करें
गदग, मुण्डरगि, रोण, नरगुन्द, लक्कुण्डी लक्ष्मेश्वरम्, उम्बळ, गजेन्द्रगड, वेङ्कटापुरम्
नद्यः, कृषिश्चसंपादित करें
कृषिप्रधाने अस्मिन् मण्डले मलप्रभा घटप्रभा इति प्रमुखे द्वे एव नद्यौ वहतः । अत्र कृषकाः विविधानि धान्यानि, कलायः, सूर्यकान्तिः, कार्पासः, पलाण्डुः, नानाविधद्विदलधान्यानि च अस्मिन् मण्डले प्ररोहन्ति । वीरनारायणदेवालयः, पार्श्वनाथाय महावीराय च अर्पिते जैनमन्दिरे च गदगस्य धार्मिककेन्द्राणि । अस्मिन् मण्डले मुद्रणोद्यमाः अधिकतया वर्तन्ते शताधिकानि मुद्रणकेन्द्राणि अत्र कार्यं कुर्वन्ति । तन्तुवायाः अपि अधिकसङ्ख्याकाः सन्ति । एते आकर्षकाणि नानावर्णरञ्जितानि वस्त्राणि वयन्ति । भीष्मकेरे इति प्रसिद्धं एकं सरः अत्र अस्ति । पवनविद्युदुत्पादनानि केन्द्रानि अपि अत्र कार्यं निर्वहन्ति ।
प्रेक्षणीयस्थानानिसंपादित करें
१) गदगसंपादित करें
कृतपुरम् इति पूर्वं प्रसिद्धम् एतत् नगरम् । अत्र होय्सळराजेन विष्णुवर्धनेन निर्मितं श्रीवीरनारायणामन्दिरम् अत्यन्तं प्रसिद्धम् अस्ति । विशाले प्राङ्गणे सुन्दरदेवालयः महाद्वारे गोपुरं च स्तः । गोपुरं विजयनगरशैल्या अस्ति । श्रीवीरनारायणमूर्तिः योत्रमुद्रायुक्ता शङ्खचक्रगदाहस्ता, कर्णकुण्डलकिरीटधारिणी च अस्ति । शिलास्थम्भाः आकर्षकाः सन्ति । कविः कुमारव्यासः (नारणप्पा) कर्णाटकभारतकथामञ्जरी महाकाव्यम् अत्रैव लिखितवान् । कोळीवाड इति ग्रामः समीपे अस्ति । ततैव कविः कुमारव्यासः जन्म प्राप्तवान् । सः श्रेष्ठ हरिभक्तः । गदगनगरे त्रिकूटेश्वरदेवालयोऽपि कश्चन शिलादेवालयः । हरिहरब्रह्मणां त्रिलिङ्गानि अत्र सन्ति । अत्र स्थिते सरस्वतीमन्दिरे प्रत्येकस्तम्भेषु भिन्नभिन्नशिलपकलावैभवं पश्यामः । मन्दिरे शिलपकला अपूर्वाऽस्ति । श्री जगद्गुरुतोण्टदार्यमठोऽपि अत्र अस्ति अन्धानाम् अक्षयदाता श्री पञ्चाक्षरीगवायी गदगनगरे राज्ये च प्रसिद्धः। गदगनगरतः समीपे (१२ कि.मी)दूरे वेङ्कटापुरग्रामे सुन्दरः श्रीवेङ्कटेश्वरदेवालयः अस्ति । मदलगट्टा प्रदेशे मुण्डरगी समीपे कृष्णाशिलायां निर्मितः हनुमान् प्रसिद्धः अस्ति । एषः महाभारतकालीनः विग्रहः। एतस्याः मूर्तेः योजनं जीर्णोध्दारः च श्रीव्यासरायस्वामिना कृतम् । अन्यानि दर्शानीयानि स्थानानि सरस्वतीदेवालयः, त्रिकूटेश्वरदेवालयः, वीरनारायणदेवालयः, जैनमन्दिरे, श्रीतोण्टदार्यमठः, हालकेरे अन्नदानेश्वरमठः, शिवानन्दमठः, वीरेश्वरपुण्याश्रमः च प्रसिद्धानि प्रेक्षणीयस्थानानि सन्ति ।
मार्गः- बेङ्गळूरुतः ४७९ कि.मी धारवाडतः ८० कि.मी हुब्बळ्ळीतः ५८ कि.मी हुब्बळ्ळी-गुन्तकल् रेलमार्गे गदगनिस्थानम् अस्ति।
२) लक्कुण्डीसंपादित करें
एषः ग्रामः कश्चन प्राचीनः अग्रहारः लोक्कुण्डी इति च ख्यातः । अत्र १०८ देवालयाः १०८ बसदयः(जैनदेवालयाः), १०१ वाप्यः १०२ शिवलिङ्गानि च आसन् । काशीविश्वेश्वरः प्रमुखः दानचिन्तामाणिः इति प्रसिद्धा अत्तिमब्बा बसदीनां निर्माणं (१००९-४०) कारितवती । ब्रह्मदेवालयः प्राचीनः ३० स्तम्भविशिष्टः । तत्र महावीरस्य कृष्णाशिल्पमूर्तिः अस्ति । एतां मूर्तिं दक्षिणभारते एव शिल्पकलामुकुटमणिः इति कथयन्ति । मार्ग -गदगतः १२ कि.मी
३) गजेन्द्रगड (रोण)संपादित करें
अत्र ३८ वाप्यः २८ सरोवराणि, १८ देवालयाः ३८ मुस्लिमप्रार्थनामन्दिराणि च सन्ति । कालकालेश्वरः, कल्लेश्वरः, दुर्गादेवी, रामलिङ्गेश्वरः इत्यादयः देवालयाः प्रमुखाः । समीपे एका गुहा प्रसिद्धाऽस्ति । वीरभद्रदेवालयोऽप्यस्ति । अन्तरगङ्गेयकोळ इति तीर्थमस्ति । मार्गः-रोणतः १६ कि.मी । मल्लापुररेलनिस्थानतः ३५ कि.मी । गदग-सोल्लापुररेलमार्गे ।
४) लक्ष्मेश्वरम्- (शिरहट्टी)संपादित करें
इतिहासे अस्य क्षेत्रस्य पुलिगेरे हुलिगेरे हुलिगेरे हुटिकनगरम् इति नामानि आसन् । कण्वभूमिः अत्र आसीत् । चालुक्यराजः लक्ष्मीनरसः अत्र शासनं कृतवान् अतः लक्ष्मेश्वरम् इति नाम अभवत् । अत्र सुन्दरदेवालयाः सन्ति प्रमुखः देवालयः कलात्मकः। ११ शतमानकाले निर्मितः सोमेश्वरदेवालयः । अत्र शिवः पार्वती च नन्दीश्वरस्य उपरि उपविष्टवन्तौ स्तः । देवः स्वयम्भूः पुलिगेरे सोमेश्वरः सौराष्ट्रादानीतः इति कारणात् सौराष्ट्रस्य सोमेश्वरः इति कथितः अस्ति । जनाः देवालयं लक्ष्मीलिङ्गगुडि इति कथयन्ति । मार्गः -धारवाडतः ६० कि.मी । गदगतः ४० कि.मी । गुडगेरिरेलनिस्थानतः १२ कि.मी । हुब्बळ्ळी-बेङ्गळूरुमार्गः।
प्रसिद्धाः व्यक्तयःसंपादित करें
पण्डितः भीमसेन जोशी, पञ्चाक्षरी गवायि, महाकविः कुमारव्यासः, कविः हुयिलगोल नारायणराय,
वीथिकासंपादित करें
बाह्यानुबन्धःसंपादित करें
- http://www.gadag.nic.in
- http://www.gadag-betagericity.gov.in
- http://www.gadagbetageri.com
- http://www.mapsofindia.com/maps/karnataka/districts/gadag.htm
- http://nudinamana.blogspot.com/2010/02/blog-post_6638.html