कुमारसम्भवम्
कुमारसम्भवम्
सम्पादयतुकुमारसम्भवम् नाम महाकाव्यं महाकविना कालिदासेन विरचितम्। अस्मिन् प्रकृतेः शोभा सुशब्दैः वर्णिता। अस्मिन् सप्तदश सर्गाः सन्ति।
कथा
सम्पादयतुकार्तिकेयस्य जन्म एव कुमारसम्भवम्। तारकासुरः तीव्रं तपः अकरोत्। शिवस्य पुत्रः एव तं हनिष्यति इति सः वव्रिरे। परं शिवः कामदेवम् अपि अहरत्। स्रीपुरुषयोः प्रेमाङ्कुरारथं यः माध्यमः आसीत् सः एव नष्टः नाम पार्वत्याः मनोकामनापूर्तये आशा एव भग्ना अभवत् तथापि पार्वती शिवं परिणेतुं तपः कृतवती। ततः सा पुत्रं कार्तिकेयम् अजीजनत्। सः तारकं विहत्य इन्द्रम् अरक्षत्। तेन कारणेन
कुमारसम्भवं किञ्चन महाकाव्यम् । शिवपार्वत्योः प्रेम्णः वर्णनपुरस्सरं देवसेनापतेः स्कन्धस्य कुमारस्य जननवर्णनयुक्तम् अपूर्वम् इदं महाकाव्यम् । इदमपि महाकाव्यं १७सर्गात्मकम् । परं पूर्वं २२ सर्गाः स्युः इति केषाञ्चित् विदुषाम् अभिप्रायः । सृष्टिकर्तुः ब्रह्मदेवस्य वरप्रसादेन तारकासुरः प्रबलो भूत्वा सकलान् अमरान् पीडयामास । तस्मात् ब्रह्मणः सूचनानुसारं शिवपार्वत्योः विवाहं अकारयन् देवाः । तयोः पुत्रेण कुमारेण तारकासुरः निहतः । अयं कथाभागः अत्र कविना सुमधुरसरसशैल्या वर्णितः । रामायणगतं अधो लिखितं पद्यं पठित्वैव कालिदासेन स्वकाव्यस्य नामकरणं कृतं स्यादिति विद्वांसः तर्कयन्ति । एष ते राम गङ्गायाः विस्तारोऽभिहितो मया । कुमारसम्भवश्चैव धन्यः पुण्यस्तथैव च ॥ (बालकाण्डे 37/32) काव्यारम्भे कविः नगाधिराजः हिमालयः पृथिव्याः मानदण्ड इव स्थितः इति मनोहररूपेण अवर्णयत् । काव्येऽस्मिन् रतिविलासः, वसन्तवर्णनं, पार्वत्याः तपसः वर्णनञ्च अपूर्वमस्ति । महाकाव्येऽस्मिन् कवेः प्रतिभा परां काष्ठां प्राप्नोत् । काव्यस्यास्य भाषा, काव्यचारुत्वम्, उन्नतसंस्कृतेः परिसरं, सुन्दरोपमाननिदर्शादयः काव्यस्य सौन्दर्यम् अवर्धयन् । कुमारसम्भवकाव्ये तपसि तत्परा हिमनगसुता पार्वती ब्रह्मचारिवेषधारिणः शिवस्य सम्भाषणं श्रुत्वा ततः गन्तुम् इष्टवती तदा अनल्पकल्पनामूर्तिः कविः कालिदासः सर्वथाऽभिनवां मर्मस्पर्शिनीं च उपमां प्रस्तौति - मार्गाचलव्यतिकराऽऽकुलितेव सिन्धुः । शिलाधिराजतनया न ययौ न तस्थौ ॥ अत्र मार्गाचलव्यतिकरेण आकुलिता नदी इव शिलाधितनया अस्ति । एतस्याः शारीरिकी मानसिकी च समीचीना स्थितिः पद्यांशेन अनेन सम्यक् परिलक्ष्यते ।
विकिस्रोतसि एतत्सम्बन्द्धाः बहवः मूलग्रन्थाः विद्यन्ते : कुमारसम्भवम् |