कुष्ठरोगः
कुष्ठरोगः रोगेषु अन्यतमः भवति । अयं दीर्घकालिकः रोगः । मैकोब्याक्टीरियं लेप्रेयि-जीवाणुभिः, मैकोब्याक्टीरियं लेप्रोमतोसिस् जीवाणुभिः च संक्रमितः भवति एषः रोगः । प्राथमिकस्तरे एषः रोगः पेरिफेरेल् नराणां ग्रानुलोमाटोस्-रोगः, उपरितनभागस्य श्वासेन्द्रियस्य म्युकोसारोगः च भवति । चर्मरोगः अस्य रोगस्य प्राथमिकं चिह्नं भवति । प्राथमिकस्तरे एव औषधोपचाराः यदि न क्रियन्ते तर्हि क्रमेण चर्म, नाडिः, चक्षुः, पादः इत्येतेषाम् अङ्गानां हानिः सम्भवति ।
कुष्ठरोगः | |
---|---|
Classification and external resources | |
नार्वेदेशस्य २४ वर्षीयः कुष्टरोगी, १८८६ | |
ICD-10 | A30 |
ICD-9 | 030 |
OMIM | २४६३०० |
DiseasesDB | ८४७८ |
MedlinePlus | ००१३४७ |
eMedicine | med/१२८१ derm/223 neuro/187 |
MeSH | D007918 |
इतिहासः
सम्पादयतुएतेन रोगेण आ चतुस्सहस्रवर्षेभ्यः मनुकु्लः पीड्यमानः अस्ति । अस्य कुष्टरोगस्य विषये प्राचीन चिनादेशस्य, ईजिप्तदेशस्य, भारतदेशस्य च सभ्यतासु स्पष्टतया निरूपितं दृश्यते । जेरुसलें-प्रदेशस्य समीपे विद्यमाने नगरे भूमौ स्थापितशवस्य परीक्षणेन ज्ञातं यत् कुष्ठरोगः तदा अपि आसीत् इति । १९९५ तमे संवत्सरे २ तः ३ लक्षाधिकजनाः कुष्ठरोगेण विकलाङ्गाः सञ्जाताः इति विश्वारोग्यसंस्थया पट्टिका कृता अस्ति । इदानीन्तनेषु विंशतिवर्षेषु पञ्जदशाधिकरोगिणां कृते दत्ता चिकित्सा सफला ।
कारणम्
सम्पादयतुमैकोब्याक्टीरिया लेप्रेयि-जीवाणुः, मैकोब्याक्टीरिया लेप्रोमाटोसिस्-जीवाणुः च कुष्ठरोगस्य मूलकारणीभूतौ । लेप्रोमाटोस्-जीवाणुः कुष्ठरोगस्य मृत्योः च कारणीभूतः ।
चिकित्सा
सम्पादयतु१९४० वर्षात् पूर्वम् अस्य रोगस्य औषधं न आसीत् । १९४३ तमे संवत्सरे ’गय् हेन्रि फगेट्’इत्येषः अस्य रोगस्य प्रामिन्-नामकम् परिणामकारिणम् औषधं संशोधितवान् । समनन्तरं ड्याप्सोन्-नामकम् औषधम् प्रसिद्धं जातम् । १९६०, १९७० च तमे संवत्सरे ड्याप्सोन् अपेक्षया अधिकरोगनिरोधकशक्तियुक्ते औषधे क्लोफाजिमैन् रिफाम्पिसिन् च शोधिते । गच्छताकाले भारतीयः वैज्ञानिकः शान्तारां यावल्करः जीवाणूनां प्रतिरोधस्य उपशमनार्थं रिफाम्पिस् ,ड्याप्सोन् चिकित्सायाः च संयुक्तचिकित्सां सूत्रीकृतवान् । विश्वारोग्यसंस्थायाः तज्ज्ञसमित्या १९८१ तमे संवत्सरे सूचितं यत् बहुविधचिकित्सां दातुं शक्यते इति । उपरि उक्तानि (त्रीणि) औषाधानि अपि दातुं शक्यानि इति प्रप्रथमतया एतया समित्या उद्घोषितम् । एतानि औषधानि प्रमाणबद्धपथ्यव्यवस्थायाम् (MDT) उपयुज्यमानानि सन्ति । एतेषु एकैकस्य उपयोगकरणे निषेधः कृतः अस्ति यतः प्रतिरोधाधिक्यम् अधिकं करोति इति । औषधस्य मौल्यम् अधिकम् इत्यतः केषु्चित् देशेषु औषधानाम् अङ्गीकरणं न जातम् । १९८५ तमे संवत्सरे १२२ देशेषु कुष्ठरोगः सार्वजनिकारोग्यसमस्या इति परिगणितम् । १९९१ तमे संवत्सरे जिनिवादेशे प्रचालिते ४४ तमायां विश्वारोग्यपरिषदि कुष्ठरोगः सार्वजनिकारोग्यसमस्या इति परिगणितम् । २००० तमसंवत्सराभ्यन्तरे अस्य रोगस्य निर्मूलनं क्रियेत इति निर्णयः अपि कृतः अस्यां परिषदि । विश्वारोग्यसंस्थायाः सभायां सदस्यराष्ट्रेषु कुष्टरोगः कथं वारणीयः इति चर्चितः । अस्यां सभायां न्यूनधनेन यथा औषधानि लभ्येरन् तथा व्यवस्था कल्पनीया इत्यपि चर्चितम् आसीत् ।
अपायः
सम्पादयतुमलिनशय्या, कलुषितं जलम्, पौष्ठिकांशरहितः आहारः, रोगव्यापृतेषु प्रदेशेषु वासादयाः अपायकराः भवन्ति । संशोधनेन ज्ञातम् अस्ति यत् अणुसाधिते प्रतिरोधे लोपः अस्ति इति हेतोः रोगत्पत्तिः सम्भविष्यति इति । महिलनाम् अपेक्षया अधिकप्रमाणेन पुरुषाः एव रोगग्रस्ताः भवन्ति इति संशोधनेन ज्ञातम् । केनडादेशस्य लेप्रेसिमिषन् संस्थायाः चिन्तनानुसारं सम्पूर्णजनसंख्यायां ९५ प्रतिशतजनेषु नैसर्गिकप्रतिरोधशक्तिः विद्यते ।
जागतिकपरिस्थितिः
सम्पादयतुप्रदेशः | पञ्जीकृतं रोगप्रसारस्य प्रमाणम् (प्रमाणम्/१०,००० जनसंख्या) |
नूतनरुग्णानां संख्या | |||||
---|---|---|---|---|---|---|---|
२००० आरम्भः | २००१ | २००२ | २००३ | २००४ | २००५ | ||
४०,८३० (०.५६) | ३९,६१२ | ४८,२४८ | ४७,००६ | ४६,९१८ | ४२,८१४ | ||
अमेरिका | ३२,९०४ (०.३९) | ४२,८३० | ३९,९३९ | ५२,४३५ | ५२,६६२ | ४१,७८० | |
आग्नेय-एष्या | १३३,४२२ (०.८१) | ६६८,६५८ | ५२०,६३२ | ४०५,१४७ | २९८,६०३ | २०१,६३५ | |
पूर्व-मेडिटरेनियन् | ४,०२४ (०.०९) | ४,७५८ | ४,६६५ | ३,९४० | ३,३९२ | ३,१३३ | |
पश्चिम-पेसिफिक् | ८,६४६ (०.०५) | ७,४०४ | ७,१५४ | ६,१९० | ६,२१६ | ७,१३७ | |
योगः | २१९,८२६ | ७६३,२६२ | ६२०,६३८ | ५१४,७१८ | ४०७,७९१ | २९६,४९९ |
राष्ट्राः | पञ्जीकृतं रोगप्रसारस्य प्रमाणम् (प्रमाणम्/१०,००० जनसंख्या) |
नूतनरुग्णानां संख्या (प्रमाणम्/१०,००० जनसंख्या) | ||||
---|---|---|---|---|---|---|
२००४ तमवर्षस्य आरम्भे | २००५ तमवर्षस्य आरम्भे | २००६ तमवर्षस्य आरम्भे | २००३ तमे वर्षे | २००४ तमे वर्षे | २००५ तमे वर्षे | |
फलकम्:BRA | ७९,९०८ (४.६) | ३०,६९३ (१.७) | २७,३१३ (१.५) | ४९,२०६ (२८.६) | ४९,३८४ (२६.९) | ३८,४१० (२०.६) |
फलकम्:MOZ | ६,८१० (३.४) | ४,६९२ (२.४) | ४,८८९ (२.५) | ५,९०७ (२९.४) | ४,२६६ (२२.०) | ५,३७१ (२७.१) |
फलकम्:NPL | ७,५४९ (३.१) | ४,६९९ (१.८) | ४,९२१ (१.८) | ८,०४६ (३२.९) | ६,९५८ (२६.२) | ६,१५० (२२.७) |
फलकम्:TZA | ५,४२० (१.६) | ४,७७७ (१.३) | ४,१९० (१.१) | ५,२७९ (१५.४) | ५,१९० (१३.८) | ४,२३७ (११.१) |
योगः | एन् ए | एन् ए | एन् ए | एन् ए | एन् ए | एन् ए |
वीथिका
सम्पादयतु-
जीवाणुः
बाह्यानुबन्धः
सम्पादयतु- Dr. George J. Hill Leprosy Collection, Marshall University Archived २०१४-०३-२२ at the Wayback Machine Virtual exhibit of books on leprosy.