जानकीहरणं चिरमप्राप्तमेवासीत्, केवलं – ‘जानकीहरणं कर्तुं रघुवंशे स्थिते सति । कविः कुमारदासश्च यदि क्षमः’ इति स्तुतिपद्यमेवा तत्सत्त्वमनुमापयति स्म । सिंहलभाषानुवादाधारेण् राजसुन्दरः पञ्चद्शसर्गान्तां जानकीहरणामुद्धृतवान् । नन्दर्गीकरमहाशयः हरप्रसादशास्त्रिमहाशयश्च ये संस्करणे प्रकाशितवन्तौ ते अपि क्रमशः १०, १४ सर्गानेव धारयतः । षोडशः सर्गः बार्नेटमहोदयेन पश्चात्सम्पादितो मुद्रितश्च् लन्दन- नगरे सम्प्रति अन्येऽपि लेखाः प्राप्ता ये पुस्तकस्य स्वरुपद्वयमुपस्थापयन्ति । रामकृष्णकविना प्राप्ते लेखपुस्तके प्रकाशितपुस्तकेभ्योऽधिकाः श्लोकाः सन्ति ।

जानकीहरणस्य प्रथमसर्गे दशरथवृत्तम्, द्वितीये रावणपराजितानामिन्द्रदिदेवानां नागलोके विष्णुसमीपोपसदनम्, तृतीये ऋतुवर्णनम्, चतुर्थे पुत्रेष्टियागो रामस्य जन्म शिक्षाग्रहणं, वसिष्ठाज्ञया राक्षसवधोद्योगश्च, पञ्चमे वसिष्ठाधिष्ठिततपोवनवर्णनम्, षष्ठे मिथिलाप्रस्थानम्, सप्तमे विवाहः, अष्टमे रामसीतयोर्मधुयामिनीवर्णनम्, नवमे वरवध्वोः, अयोध्याप्रत्यावर्त्तनम्, दशमे रामवनवासः भरतकृतं तत्प्रार्थनं, सीताहरणञ्च, एकादशे गरुडरावणयोर्युध्दं गरुडवधः सुग्रीवसख्यादिकञ्च, द्वादशे शरद्वर्णनम् त्रयोदशे सीतावियोगे रामस्य विलपितम् चतुर्दशे सेतुबन्धनम्, पञ्चदशे रामेण रावणं प्रति सन्देशप्रेषणञ्च । शेषभागे रामायणकथैवानुसृता ।

"https://sa.wikipedia.org/w/index.php?title=जानकीहरणम्&oldid=455892" इत्यस्माद् प्रतिप्राप्तम्