जीरिकया निर्मितं कषायम् एव जीरिकाकषायम् । जीरकम् आङ्ग्लभाषायां Jeera अथवा Cumin इति वदन्ति ।

जीरिका

जीरिकाकषायस्य प्रयोजनानि सम्पादयतु

१ उष्णतायाः आधिक्येन जातानां रोगाणां निमित्तं जीरिकाकषायम् उत्तमम् औषधम् ।
२ जीरिकाकषायस्य पानेन पीनसः, कासः, कण्ठवेदना, शरीरवेदना, कफः इत्यादयः रोगाः बहु शीघ्रम् अपगच्छन्ति ।
३ वृष्टिकालस्य शैत्यकालस्य च आरम्भे एव सामान्यानां रोगाणां निवारणार्थम् अपि एतत् जीरिकाकषायं पातुं शक्यते ।
४ जीरिकाकषायं प्रतिदिनम् अपि पानीयत्वेन अपि पातुं शक्यते ।
५ जीरिकाकषायस्य पानेन शरीरस्य औष्ण्यम् अपि न्यूनं भवति ।

जीरिकाकषायस्य निर्माणम् सम्पादयतु

जीरिका सम्यक् कुट्टनीया । अनन्तरं चषपकपरिमिते जले तत् संयोज्य सम्यक् क्वथनीयम् । जलम् अर्धचषकमितं यावत् भवेत् तावत् क्वथनीयम् । क्वथनावसरे यदि अपेक्ष्यते तर्हि तत्र मरीचचूर्णं, शुण्ठीं, हरिद्रां, गुडं च योजयितुं शक्यते । तदनन्तरं शोधनं करणीयम् । तथैव अथवा तस्मिन् शोधिते कषाये दुग्धं योजयित्वा तदा तदा किञ्चित् किञ्चित् पातुं शक्यते ।

"https://sa.wikipedia.org/w/index.php?title=जीरिकाकषायम्&oldid=369278" इत्यस्माद् प्रतिप्राप्तम्